मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र|
ॐ हृन्मध्यनिलये देवि ललित...

श्री ललिता चतुःषष्ट्युपचारसङ्ग्रहः - ॐ हृन्मध्यनिलये देवि ललित...

सती पार्वतीची दहा रूपे - काली,  तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी.


ॐ हृन्मध्यनिलये देवि ललिते परदेवते ।
चतुष्षष्ट्युपचारांस्ते भक्त्या मातः समर्पये ॥१॥
कामेशोत्सङ्गनिलये पाद्यं गृह्णीष्व सादरम् ।
भूषणानि समुत्तार्य गन्धतैलं च तेऽर्पये ॥२॥
स्नानशालां प्रविश्याऽथ तत्रस्थ मणिपीठके ।
उपविश्य सुखेन त्वं देहोद्वर्तनमाचर ॥३॥
उष्णोदकेन ललिते स्नापयाम्यथ भक्तितः ।
अभिषिञ्चामि पश्चात्त्वां सौवर्णकलशोदकैः ॥४॥
धौतवस्त्रप्रोच्छनं चारक्तक्षौमाम्बरं तथा ।
कुचोत्तरीयमरुणमर्पयामि महेश्वरि ॥५॥
ततः प्रविश्य चालेपमण्टपं परमेश्वरि ।
उपविश्य च सौवर्णपीठे गन्धान्विलेपय ॥६॥
कालगरुजधूपैश्च धूपये केशपाशकम् ।
अर्पयामि च माल्यादि सर्वर्तुकुसुमस्रजः ॥७॥
भूषामण्टपमाविश्य स्थित्वा सौवर्णपीठके ।
माणिक्यमुकुटं मूर्ध्नि दयया स्थापयाम्बिके ॥८॥
शरत्पार्वणचन्द्रस्य शकलं तत्र शोभताम् ।
सिन्दूरेण च सीमन्तमलङ्कुरु दयानिधे ॥९॥
भाले च तिलकं न्यस्य नेत्रयोरञ्जनं शिवे ।
वालीयुगळमप्यम्ब भक्त्या ते विनिवेदये ॥१०॥
मणिकुण्डलमप्यम्ब नासाभरणमेव च ।
ताटङ्कयुगळं देवि यावकञ्चाधरेऽर्पये ॥११॥
आद्यभूषणसौवर्णचिन्ताकपदकानि च ।
महापदकमुक्तावल्येकावल्यादिभूषणम् ॥१२॥
छन्नवीरं गृहाणाम्ब केयूरयुगलं तथा ।
वलयावलिमङ्गुल्याभरणं ललिताम्बिके ॥१३॥
ओड्याणमथ कट्यन्ते कटिसूत्रञ्च सुन्दरि ।
सौभाग्याभरणं पादकटकं नूपुरद्वयम् ॥१४॥
अर्पयामि जगन्मातः पादयोश्चाङ्गुलीयकम् ।
पाशं वामोर्ध्वहस्ते ते दक्षहस्ते तथाङ्कुशम् ॥१५॥
अन्यस्मिन्वामहस्ते च तथा पुण्ड्रेक्षुचापकम् ।
पुष्पबाणांश्च दक्षाधः पाणौ धारय सुन्दरि ॥१६॥
अर्पयामि च माणिक्यपादुके पादयोः शिवे ।
आरोहावृतिदेवीभिः चक्रं परशिवे मुदा ॥१७॥
समानवेषभूषाभिः साकं त्रिपुरसुन्दरि ।
तत्र कामेशवामाङ्कपर्यङ्कोपनिवेशिनीम् ॥१८॥
अमृतासवपानेन मुदितां त्वां सदा भजे ।
शुद्धेन गाङ्गतोयेन पुनराचमनं कुरु ॥१९॥
कर्पूरवीटिकामास्ये ततोऽम्ब विनिवेशय ।
आनन्दोल्लासहासेन विलसन्मुखपङ्कजाम् ॥२०॥
भक्तिमत्कल्पलितिकां कृतीस्यां त्वां स्मरन् कदा ।
मङ्गलारार्तिकं छत्रं चामरं दर्पणं तथा ।
ताळवृन्तं गन्धपुष्पधूपदीपांश्च तेऽर्पये ॥२१॥
श्रीकामेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतम्
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदैर्युतम् ।
दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रार्पितम्
माषापूपकपूरिकादिसहितं नैवेद्यमम्बाऽर्पये ॥२२॥
साग्रविंशतिपद्योक्तचतुष्षष्ट्युपचारतः ।
हृन्मध्यनिलया माता ललिता परितुष्यतु ॥२३॥
श्रीमुखाख्यस्य वर्षस्य तुलायां शुक्लपक्षके ।
चतुर्थ्यामपराह्णे च ललितार्पितमानसः ॥२४॥
साग्रविंशतिपद्यैस्तु चतुष्षष्ट्युपचारकान् ।
समग्रहीत्पराम्बायाः प्रीत्यै नारायणो मुदा ॥२५॥
नारायणः श्रीपुरुषोत्तमात्मजोऽलिखन्महीषूरपुरे वसन्कृती ।
देवीसपर्यामखिलाभिलाषदां कामेशवामाङ्कगता प्रसीदतु ॥
॥इति शिवम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP