संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - धर्मष्ठवर्गः एकोनविंशः

धर्मपदम्


न तेन भवति धर्मस्थो येनार्थं सहसा नयेत् । यश्चाऽर्थं अनर्थं च उभौ निश्चिनुयात् पण्डितः ॥१॥
असाहसेन धर्मेण समेन नयते परान् । धर्मेण गुप्तो मेधावी धर्मस्थ इत्युच्यते ॥२॥
न तावता पण्डितो भवति यावता बहु भाषते । क्षेमी अवैरी अभयः पण्डित इत्युच्यते ॥३॥
न तावता धर्मधरो यावता बहु भाषते । यश्चाल्पमऽपि श्रुत्वा धर्मं कायेन पश्यति । स वै धर्मधरो भवति यो धर्मं न प्रमाद्यति ॥४॥
न तेन स्थविरो भवति येनाऽस्य पलितं शिरः । परिपक्वं वयस्तस्य मोघजीर्ण इत्युच्यते ॥५॥
यस्मिन् सत्यं च धर्मश्चाहिंसा संयमो दमः । स वै वान्तमलो धीरः स्थविर इतुच्यते ॥६॥
न वाक् करणमात्रेण वर्णपुष्कलतया वा । साधुरूपो नरो भवति ईर्षुको मत्सरी शठः ॥७॥
यस्य चैतत् समुच्छिन्नं मूलघातं समुद्धतम् । स वान्तदोषो मेधावी साधुरूप इत्युच्यते ॥८॥
न मुण्डकेन श्रमणोऽव्रतोऽलीकं भणन् । इच्छालाभसमापन्नः श्रमणः किं भविष्यति ॥९॥
यश्च शमयति पापानि अणूनि स्थूलानि सर्वशः । शमितत्वाद्धि पापानां श्रमण इतुच्यते ॥१०॥
न तावता भिक्षुर्भवति यावता भिक्षते परान् । विश्वं धर्मं समादाय भिक्षुर्भवति न तावता ॥११॥
य इह पुण्यं च पापं च वाहयित्वा ब्रह्मचर्यवान् । संख्याय लोके चरति स वै भिक्षुरित्युच्यते ॥१२॥
न मौनेन मुनिर्भवति मूढरूपोऽविद्वान् । यश्च तुलामिव प्रगृह्य वरमादाय पण्डितः ॥१३॥
पापानि परिवर्जयति स मुनिस्तेन स मुनिः । यो मनुत उभौ लोकौ मुनिस्तेन प्रोच्यते ॥१४॥
न तेनाऽऽर्यो भवति येन प्राणान् हिनस्ति । अहिंसया सर्वप्राणानां आर्य इति प्रोच्यते ॥१५॥
न शीलव्रतमात्रेण बाहुश्रुत्त्येन वा पुनः । अथवा समाधिलाभेन विविच्य शयनेन वा ॥१६॥
स्पृशामि नैष्कर्म्यसुखं अपृथग्जनसेवितम् । भिक्षो विश्वासं मा पादीः अप्राप्त आस्रवक्षयम् ॥१७॥
॥इति धर्मस्थवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP