संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - जरावर्ग एकादशः

धर्मपदम्


को नु हासः क आनन्दो नित्यं प्रज्वलिते सति । अन्धकारेणाऽवनद्धाः प्रदीपं न गवेषयथ ॥१॥
पश्य चित्रीकृतं बिम्बं अरुष्कायं समुच्छ्रितम् । आतुरं बहुसङ्कल्पं यस्य नाऽस्ति ध्रुवं स्थितिः ॥२॥
परिजीर्णमिदं रूपं रोगनीडं प्रभंगुरम् । भिद्यते पूतिसन्देहो मरणान्तं हि जिवितम् ॥३॥
यानिमान्यपथ्यान्यलाबूनीव शरदि । कापोतकान्यस्थीनी तानि दृष्ट्वा का रतिः ॥४॥
अस्थ्नां नगरं कृतं मांसलोहितलेपनम् । यत्र जरा च मृत्युश्च मानो म्रक्षश्चावहितः ॥५॥
जीर्यन्ति वै राजरथा सुचित्रा अथ शरीरमपि जरामुपेति । सतां च धर्मो न जरामुपेति सन्तो ह वै सद्भयः प्रवेदयन्ति ॥६॥ अल्पश्रुतोऽयं पुरुषो बलीवर्द इव जीर्यति । मांसानि तस्य वर्द्धन्ते प्रज्ञा तस्य न वर्द्धते ॥७॥
अनेकजातिसंसारं समधाविषं अनिविशमानः । गृहकारकं गवेषयन् दुःखा जातिः पुनः पुनः ॥८॥
गृहकारक दृष्टोसि पुनर्गेहं न करिष्यसि । सर्वास्ते पार्श्विका भग्ना गृहकूटं विसंस्कृतम् । विसंस्कारगतं चित्तं तृष्णानां क्षयमध्यगात् ॥९॥
अचरित्त्वा ब्रह्मचर्यं अलब्ध्वा यौवने धनम् । जीर्णक्रौञ्च इव क्षीयन्ते क्षीणमत्स्य इव पल्वले ॥१०॥
अचरित्वा ब्रह्मचर्यं अलब्ध्वा यौवने धनम् । शेरते चापोऽतिक्षीणा इव पुराणान्यनुतन्वन्तः ॥११॥
॥इति जरावर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP