संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - पापवर्गः नवमः

धर्मपदम्


अभित्वरेत कल्याणे पापात् चित्तं निवारयेत् । तन्द्रितं हि कुर्वतः पुण्यं पापे रमते मनः ॥१॥
पापं चेत् पुरुषः कुर्यात् न तत् कुर्यात् पुनः पुनः । न तस्मिन् छन्दं कुर्यात् दुःखः पापस्य उच्चयः ॥२॥
पुण्यं चेत् पुरुषः कुर्यात् कुर्यादेतत् पुनः पुनः । तस्मिन् छन्दं कुर्यात् सुखः पुण्यस्य उच्चयः ॥३॥
पापोऽपि पश्यति भद्रं यावत् पापं न पच्यते । यदा च पच्यते पापं अथ पापो पापानि पश्यति ॥४॥
भद्रोऽपि पश्यति पापं यावत् भद्रं न पच्यते । यदा च पच्यते भद्रं अथ भद्राणि पश्यति ॥५॥
माऽवमन्येत पापस्य न मां तद् आगमिष्यति । उदबिन्दुनिपातेन उदकुंभोऽपि पूर्यते । बालः पूरयति पापं स्तोकं स्तोकमप्याचिन्वन् ॥६॥
माऽवमन्येत पुण्यस्य न मां तद् आगमिष्यति । उदबिन्दुनिपातेन उदकुंभोऽपि पूर्यते । धीरः पूरयति पुण्यस्य स्तोकं स्तोकमप्याचिन्वन् ॥७॥
वाणिगिव भयं मार्गं अल्पसार्थो महाधनः । विषं जीवितुकाम इव पापानि परिवर्जयेत् ॥८॥
पाणौ चेद् व्रणो न स्याद् हरेत् पाणिना विषम् । नाऽव्रणं विषमन्वेति नाऽस्ति पापं अकुर्वतः ॥९॥
योऽल्पदुष्टाय नराय दुष्यति शुद्धाय पुरुषायाऽनङ्गनाय । तमेव बालं प्रत्येति पापं सूक्ष्मो रजः प्रतिवातमिव क्षिप्तम् ॥१०॥
गर्भमेक उत्पद्यन्ते निरयं पापकर्मिणः । स्वर्गं सुगतयो यान्ति परिनिर्वान्त्यनास्रवाः ॥११॥
नान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य । न विद्यते स जगति प्रदेशो यत्रस्थितो मुच्येत पापकर्मणः ॥१२॥
नान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य । न विद्यते स जगति प्रदेशो यत्रस्थितं न प्रसहेत मृत्युः ॥१३॥ ॥इति पापवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP