संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - अर्हद्वर्गः सप्तमः

धर्मपदम्


गताध्वनो विशोकस्य विप्रमुक्तस्य सर्वथा । सर्वग्रन्थप्रहीणस्य परिदाहो न विद्यते ॥१॥
उद्युञ्जते स्मृतिमन्तो न निकेते रमन्ते ते । हंसा इव पल्वलं हित्त्वा ओकमोकं जहति ते ॥२॥
येषां सन्निचयो नाऽस्ति ये परिज्ञातभोजनाः । शून्यतोऽनिमित्तश्च विमोक्षो येषां गोचरः । आकाश इव शकुन्तानां गतिस्तेषां दुरन्वया ॥३॥
यस्यास्रवाः परिक्षीणा आहारे च अनिःसृतः । शून्यतोऽनिमित्तश्च विमोक्षो यस्य गोचरः । आकाश इव शकुन्तानां पदं तस्य दुरन्वयम् ॥४॥
यस्येन्द्रियाणि शमथं गतानि अश्वा यथा सारथिना सुदान्ताः । प्रहीणमानस्य अनास्रवस्य देवा अपि तस्य स्पृहयन्ति तादृशः ॥५॥
पृथिवीसमो न विरुध्यते इन्द्रकीलोपमः तादृक् सुव्रतः । हृद इवापेतकर्दमः संसारा न भवन्ति तादृशः ॥६॥
शान्तं तस्य मनो भवति वाक् च कर्म च । सम्यगाज्ञाविमुक्तस्य उपशान्तस्य तादृशः ॥७॥
अश्रद्धोऽकृतज्ञश्च सन्धिछेदश्च यो नरः । हतावकाशो वान्ताशः स वै उत्तम पुरुषः ॥८॥
ग्रामे वा यदि वाऽऽरण्ये निम्ने वा यदि वा स्थले । यत्रार्हन्तो विहरन्ति सा भूमी रामणीयका ॥९॥
रमणीयान्यरण्यानि यत्र न रमते जनः । वीतरागा रंस्यन्ते न ते कामगवेषिणः ॥१०॥
॥इति अर्हद्वर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP