संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - चित्तवर्गस्तृतीयः

धर्मपदम्

स्पन्दनं चपलं चित्तं दुरक्ष्यं दुर्निवार्यम् । ऋजुं करोति मेधावी इषुकार इव तेजनम् ॥१॥
वारिजं इव स्थले क्षिप्तं उदकस्यौकत उद्भूतः । परिस्पन्दत इदं चित्तं मारधेयं प्रहातुम् ॥२॥
दुर्निग्रहस्य लघुनो यत्र- काम- निपातिनः । चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ॥३॥
सुदुर्दृशं सुनिपुणं यत्र- कामनिपाति । चित्तं रक्षेन्मेधावी चित्तं गुप्तं सुखावहम् ॥४॥
दूरङ्गमं एकचरं अशरीरं गुहाशयम् । ये चित्तं संयंस्यन्ति मोक्ष्यन्ते मारबन्धनात् ॥५॥
अनवस्थितचित्तस्य सद्धर्मं अविजानतः । परिप्लवप्रसादस्य प्रज्ञा न परिपूर्यते ॥६॥
अनवस्रुत चित्तस्य अनन्वाहतचेतसः । पुण्यपापप्रहीणस्य नाऽस्ति जाग्रतो भयम् ॥७॥
कुंभोपमं कायमिमं विदित्वा नगरोपमं चित्तमिदं स्थापयित्त्वा । युध्येत मारं प्रज्ञायुधेन जितं च रक्षेदनिवेशनः स्यात् ॥८॥
अचिरं वतायं कायः पृथिवीं अधिशेष्यते । क्षुद्रोऽपेतविज्ञानो निरर्थं इव कलिङ्गरम् ॥९॥
द्विट् द्विषं यत् कुर्यात् वैरी वा पुनर्वैरिणम् । मिथ्याप्रणिहितं चित्तं पापीयांसं एनं ततः कुर्यात् ॥१०॥
न तत् मातापितरौ कुर्यातां अन्ये चापि च ज्ञातिकाः । सम्यक्प्रणिहितं चित्तं श्रेयांसं एनं ततः कुर्यात् ॥११॥
॥इति चित्तवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP