वेदान्त परिभाषा - अनुपलब्धि

धर्मराज अध्वरीन्द्र विरचित वेदान्त परिभाषा ग्रंथ वेद जाणून घेण्यासाठी उत्तम आहे.


इदानीं षष्ठं प्रमाणं निरूप्यते । ज्ञानकरणाजन्याभावानुभवा - साधारणकारणमनुपलब्धिरूपं प्रमाणम् । अनुमानादिजन्या - तीन्द्रियाभावानुभवहेतावनुमानादावतिव्याप्तिवारणायाजन्यान्तं पदम् । अदृष्टादौ साधारणकारणेऽतिव्याप्तिवारणायासधारणेति । अभावस्मृत्यसाधारणहेतुसंस्कारेऽतिव्याप्तिवारणायानुभवेति विशेषणम् । न चातीन्द्रियाभावानुमितिस्थलेऽप्यनुपलब्ध्यैवाभावो गृह्यताम् विशेषाभावादिति वाच्यम् । धर्माधर्माद्यनुपलब्धिसत्त्वेऽपि तदभावानिश्चयेन योग्यानुपलब्धेरेवाभावाग्राहकत्वात् । ननु केयं योग्यानुपलब्धिः । किं योग्यस्य प्रतियोगिनोऽनुपलब्धिः । उत योग्येऽधिकरणे प्रतियोगिनोऽनुपलब्धिः । नाद्यः स्तम्भे पिशाचादिभेदस्याप्रत्यक्षत्वापत्तेः । नान्त्यः आत्मनि धर्माद्य - भावस्यापि प्रत्यक्षत्वापत्तेरिति चेत् न "योग्या चासावनुप - लब्धिश्चेति "कर्मधारयाश्रयणात् । अनुपलब्धेर्योग्यता च तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वम् । यस्याभावो गृह्यते तस्य यः प्रतियोगी तस्य सत्त्वेनाधिकरणे तर्कितेन प्रसञ्जनयोग्यमापादनयोग्यं प्रतियोग्युपलब्धिस्वरूपं यस्य अनुपलम्भस्य तत्त्वं तदनुपलब्धेर्योग्यत्वमित्यर्थः । तथाहि - स्फीतालोकवति भूतले यदि घटः स्यात् तदा घटोपलम्भः स्यादित्यापादनसम्भवात् तादृशभूतले घटाभावोऽनुपलब्धिगम्यः । अन्धकारे तु तादृशापादनासम्भवान्नानुपलब्धिगम्यता । अत एवस्तम्भे तादात्म्येन पिशाचसत्त्वे स्तम्भवत् प्रत्यक्षत्वापत्त्या तदभावोऽनुपलब्धिगम्यः । आत्मनि धर्मादिसत्त्वेऽप्यस्यातीन्द्रियतया निरुक्तोपलम्बापादनासम्भवात् न धर्माद्यभावस्यानुपलब्धिगम्यत्वम्. ननूक्तरीत्याऽधिकरणेन्द्रियसन्निकर्षस्थले अभावस्याउपलब्धिगम्यत्वं त्वदनुमतम् । तत्र क्लृप्तेन्द्रियमेवाभावाकारवृत्तावपि करणम् इन्द्रियान्वयव्यतिरेकानुविधानादिति चेत् न । तत्प्रतियोग्यनुपलब्धे - रप्यभावग्रहे हेतुत्वेन क्लृप्तत्वेन करणत्वमात्रस्य कल्पनात् । इन्द्रियस्य चाभावेन समं सन्निकर्षाभावेनाभावग्रहाहेतुत्वात् इन्द्रियान्वयव्यतिरेकयोरधिकरणज्ञानाद्युपक्षीणत्वेनान्यथासिद्धेः । ननु "भूतले घटो न "इत्याद्यभावानुभवस्थले भूतलांशे प्रत्यक्षत्वमुभयसिद्धमिति तत्र वृत्तिनिर्गमनस्यावश्यकत्वेन भूतलावच्छिन्नचैतन्यवत् तन्निष्ठघटाभावावच्छिन्नचैतन्यस्यापि प्रमात्रभिन्नतया घटाभावस्य प्रत्यक्षतैव सिद्धान्तेऽपि इति चेत् सत्यम् अभावप्रतीतेः प्रत्यक्षत्वेऽपि तत्कारणस्यानुप - लब्धेर्मानान्तरत्वात् । न हि फलीभूतज्ञानस्य प्रत्र्यक्षत्वे तत्करणस्य प्रत्यक्षप्रमाणतानियतत्वमस्ति । "दशमस्त्वमसि " इत्यादिवाक्यजन्यज्ञानस्य प्रत्यक्षत्वेऽपि तत्करणस्य वाक्यस्य प्रत्यक्षप्रमाणभिन्नप्रमाणत्वाभ्युपगमात् । फलवैजात्यं विना कथं प्रमाणभेद इति चेत् न वृत्तिवैजात्यमात्रेण प्रमाणवैजात्योपपत्तेः । थथा च घटाद्यभावाकारवृत्तिर्नेन्द्रियजन्या इन्द्रियस्य विषयेणासन्निकर्षात् किन्तु घटाद्यनुपलब्धिरूप - मानान्तरजन्येति भवत्यनुपलब्धेर्मानान्तरत्वम् । ननु अनुपलब्धिरूपमानान्तरपक्षेऽभावप्रतीतेः प्रत्यक्षत्वे घटवति घटाभावभ्रमस्यापि प्रत्यक्षत्वापत्तौ तत्राप्यनिर्वचनीय - घटाभावोऽभ्युपगम्येत । न चेष्टापत्तिः तस्य मायोपादानक - त्वेऽभावत्वानुपपत्तेः मायोपादानकत्वाभावे मायायाः सफलकार्योपादानत्वानुपपत्तिरिति चेत् न । घटवति घटाभावभ्रमोन तत्कालोत्पन्नघटाभावविषयकः किन्तु भूतलरूपादौ विद्यमानो लौकिको घटाभावो भूतले आरोप्यते इत्यन्यथाख्यातिरेव आरोप्यसन्निकर्षस्थले सर्वत्रान्यथाख्यातेरेव व्यवस्थापनात् । अस्तु वा प्रतियोगिमति तदभावभ्रमस्थले तदभावस्यानिर्वचनीयत्वम् तथापि तदुपादानं मायैव । नह्युपादानोपादेययोरत्यन्तसाजात्यम् तन्तुपटयोरपि तन्तुत्वपटत्वादिना वैजात्यात् यत्किञ्चित्साजात्यस्य मायया अनिर्वचनीयघटाभावस्य च मिथ्यात्वधर्मस्य विद्यमानत्वात् । अन्यथा व्यावहारिकं घटाभावं प्रति कथं मायोपादानमिति कुतो नाशङ्कथाः । न च विजातीययोरप्युपादानोपादेयभावे ब्रह्मैव जगदुपादानं स्यादिति वाच्यम् प्रपञ्चविभ्रमाधिष्ठानत्वरूपस्य तस्येष्टत्वात् परिणामित्वरूपस्योपादानत्वस्य निरवयवे ब्रह्मण्यनुपपत्तेः । तथा च प्रपञ्चस्य परिणाम्युपादानं माया न ब्रह्म इति सिद्धान्त इत्यलमतिप्रसङ्गेन । स चाभावश्चतुर्विधः -प्रागभावः प्रध्वंसाभावोऽत्यन्त अभावोऽन्योन्याभावश्चेति । तत्र मृत्पिण्डादौ कारणे कार्यस्य घटादेरुत्पत्तेः पूर्वं योऽभावः स प्रागभावः । स च भविष्यतीति प्रतीतिविषयः । तत्रैव घटस्य मुद्गरपातानन्तरं योऽभावः स प्रध्वंसाभावः । ध्वंसस्यापि स्वाधिकरणकपालनाशे नाश एव । न च घटोन्मज्जनापत्तिः घटध्वंसध्वंसस्यापि घटप्रतियोगिक - ध्वंसत्वात् । अन्यथा प्रागभावध्वंसात्मकघटस्य विनाशे प्रागभावोन्मज्जनापत्तिः । न चैवमपि यत्र ध्वंसाधिकरणं नित्यं तत्र कथं ध्वंसनाश इति वाच्यम् । तादृशमधिकरणं यदि चैतन्यव्यतिरिक्तं तदा तस्य नित्यत्वमसिद्धम् ब्रह्मव्यतिरिक्तस्य सर्वस्य ब्रह्मज्ञाननिवर्त्यताया वक्ष्यमाणत्वात् । यदि च ध्वंसाधिकरणं चैतन्यं तदाऽसिद्धिः आरोपितप्रतियोगिक - ध्वंसस्याधिष्ठाने प्रतीयमानस्याधिष्ठानमात्रत्वात् । तदुक्तम् -"अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः "इति एवं शुक्तिरूप्यविनाशोऽपीदमवच्छिन्नचैतन्यमेव । यत्राधिकरणे यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः । यथा वायौरूपात्यन्ताभावः । सोऽपि वियदादिवत् ध्वंसप्रतियोग्येव । "इदमिदं न "इति प्रतीतिविषयोऽन्योन्याभावः । अयमेव विभागो भेदः पृथक्त्वं चेति व्यवह्रियते भेदातिरिक्तपृथक्त्वादौ प्रमाणाभावात् । अयं चान्योन्याभावोऽधिकरणस्य सादित्वे सादिः यथ घटे पटभेदः अधिकरणस्यानादित्वेऽनादिरेव यथा जीवे ब्रह्मभेदः ब्रह्मणि वा जीवभेदः । द्विविधोऽपि भेदो ध्वंसप्रतियोग्येव अविद्यानिवृत्तौ तत्परतन्त्राणां निवृत्त्यवश्यम्भावात् । पुनरपि भेदो द्विविधः -सोपाधिको निरुपाधिकश्चेति । तत्रोपाधि - सत्ताव्याप्यसत्ताकत्वं सोपाधिकत्वम् । तच्छून्यत्वं निरुपाधिकत्वम् । तत्राद्यो तथा एकस्यैवाकाशस्य घटाद्युपाधिभेदेन भेदः । यथा वा एकस्य सूर्यस्य जलभाजनभेदेन भेदः । तथा च ब्रह्मणोऽन्तःकरण - भेदाद्भेदः । निरुपाधिकभेदो यथा घटे पटभेदः । न च ब्रह्मण्यपि प्रपञ्चभेदाभ्युपगमेऽद्वैतविरोधः तात्त्विक - भेदानभ्युपगमेन वियदादिवदद्वैताव्याघातकत्वात् । प्रपञ्चस्याद्वैते ब्रह्मणि कल्पितत्वाङ्गीकारात् ।तदुक्तं सुरेश्वराचार्यैः - "अक्षमा भवतः केयं साधकत्वप्रकल्पने । किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम् ॥" इति । अत एव विवरणेऽविद्यानुमाने प्रागभावव्यतिरिक्तत्वविशेषणम् तत्त्वप्रदीपिकायामविद्यालक्षणे भावत्व-विशेषणं च सङ्गच्छते । एवं चतुर्विधानामभावानां योग्यानुपलब्ध्या प्रतीतिः । तत्रानुपलब्धिर्मानान्तरम् । एवमुक्तानां प्रमाणानां प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते च । तथा हि स्मृत्यनुभवसाधारणं संवादिप्रवृत्त्यनुकूलं तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यम् । तच्च ज्ञानसामान्यसामग्रीप्रयोज्यं न त्वधिकं गुणमपेक्षते प्रमामात्रेऽनुगतगुणाभावात् । नापि प्रत्यक्षप्रमायां भूयोऽवयवेन्द्रियसन्निकर्षः रूपादिप्रत्यक्षे आत्मप्रत्यक्षे च तदभावात् सत्यपि तस्मिन् "पीतः शङ्खः " इति प्रत्यक्षस्य भ्रमत्वाच्च । अत एव न सल्लिङ्गपरामर्षादिक - मप्यनुमित्यादिप्रमायां गुणः असल्लिङ्गपरामर्षादिस्थलेऽपि विषयाबाधेनानुमित्यादेः प्रमात्वात् । न चैवमप्रमाप प्रमा स्यात् ज्ञासामान्यसामग्र्या अविशेषादिति वाच्यम् । दोषाभावस्यापि हेतुत्वाङ्गीकारात् । न चैवं परतस्त्वम् आगन्तुकभाकारणापेक्षायामेव परतस्त्वात् । ज्ञायते च प्रामाण्यं स्वतः । स्वतो ग्राह्यत्वं च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम् । स्वाश्रयो वृत्तिज्ञानम् तद्ग्राहकं साक्षिज्ञानम् । तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्यमपि गृह्यते । न चैवं प्रामाण्यसंशयानुपपत्तिः तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषाभावघटित - स्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात् । यद्वा यावत्स्वाश्रयग्राहकग्राह्यत्वयोग्यत्वं स्वतस्त्वम् । संशयस्थले प्रामाण्यस्योक्तयोग्यतासत्त्वेऽपि दोषवशेनाग्रहात् न संशयानुपपत्तिः । अप्रामाण्यन्तु न ज्ञानसामान्यसामग्रीप्रयोज्यम् प्रमाया - मप्यप्रामाण्यापत्तेः किन्तु दोषप्रयोज्यम् । नाप्यप्रामाण्यं यावत्स्वाश्रयग्राहकग्राह्यम् अप्रामाण्यघटकतदभाववत्त्वादे - र्वृत्तिज्ञानानुपनीतत्वेन साक्षिणाग्रहीतुमशक्यत्वात् । किन्तु विसंवादिप्रवृत्त्यादिकिङ्गकानुमित्यादिविषय इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते च ।
इति वेदान्तपरिभाषायामनुपलब्धिपरिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP