उड्डामरेश्वरतन्त्र - चतुर्दशः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


क्लीं कामातुरे काममेखले विषयिणि वररति भगवति अमुकं मे वशं कुरु वशं कुरु क्लीं नमः स्वाहा ।
अनेन मन्त्रेण भोजनकाले सप्तग्रासान्सप्तवाराभिमन्त्रितान्भुञ्जीत ।
सप्तमे दिवसे स्त्री वा पुरुषो वा वशीभवति स्वं च ददाति ।
ओं हुं स्वाहा ।
इमं मन्त्रं त्रिसंध्यं जपेत्शत्रुनाशो भवति ।
क्लीं कालि कालि महाकालि कोले किन्या स्वाहा ।
इमं मन्त्रं पूर्वं अयुतं जप्त्वा संध्याकाले सहस्रैकं होमयेत्ततः कङ्काली वरदा भवति सुवर्णचतुष्टयं प्रत्यहं ददाति ॥
ओं द्रीं द्रीं द्रं द्रैं द्र्ॐ द्रः हुं नमः स्वाहा ।
अनेन मन्त्रेण पूर्वं एवायुतं जप्त्वा केवलं आज्यं हुनेतस्मादाकर्षणं भवति ॥
ओं द्र्ॐ द्र्ॐ हीं हीं हुं नमः स्वाहा ।
अनेन मन्त्रेण पूर्वविधिना जप्त्वार्धमासादाकर्षणं भवति ॥
ओं हं ओं हूं हूं हीं स्वाहा ।
इति पूर्वखङ्गभेदः ॥
सर्वसंजीवनीमन्त्रः ओं हुं द्रीं द्रं द्र्ॐ द्रः हुं हुं ।
अनेन मन्त्रेण सर्वज्वरनाशनं भवति ॥
दीं हं सिनि स्वाहा ।
अनेन मन्त्रेण सर्वजनवशीकरणं ॥
ओं हीं नमः हीं फट्स्वाहा ।
इमं मन्त्रं साध्यनाम्नायुतं जपेत्शवासनस्थितो हृदयं न प्रकाशयेत् संगृह्य गुटिकां कृत्वा मुखे प्रक्षिप्य विद्याधरत्वं भवति ॥
ओं हीं हुं नमः ।
इमं मन्त्रं पूर्वविधिना जपेत्पादुकासिद्धिर्भवति ॥
ओं क्षं क्षं ह्रीं हुं फट्स्वाहा ।
इमं मन्त्रं पूर्वक्रमेण जपेद्वेतालसिद्धिर्भवति ॥
ओं ह्रीं स्वाहा ।
अनेन मन्त्रेण नरकपालं गृहीत्वा तस्मिन्नरतैलं दत्त्वा तस्मिन्वायसचक्षुःसंवर्धिनीं वर्तिकां प्रज्वालयेत्कृष्णपक्षामावास्यायां शनिवारे अन्धकूपे श्मशाने वा शून्यायतने वा कज्जलं पातयितव्यं तावत्कालं पूर्वोक्तं मन्त्रं जपेत्यावता कालेन वर्तिशेषं प्रज्वलति अवसाने प्रभूतबलिदानं कर्तव्यं तत्र बलिस्तम्भं आदाय तेन सिद्धाञ्जनेनाञ्जितनयनः सुरासुरैरपि न दृश्यतेऽन्यलोकस्य का कथा ॥
ओं ह्रं ह्रीं हूं ह्रैं ह्र्ॐ ह्रः ह्रीं ह्रीं इति शङ्खिनीविद्या ।
ओं हीं हुं इति पुष्पाञ्जलिवेधः ।
हुं हुं इति हुंकारवेधः ।
ओं ह्रीं हुं इत्यालयवेधः ।
ह्रां शिवावेधमन्त्रः ।
ह्रीं इति भ्रमरावर्तसंघट्टवेधः ।
ओं द्रीं हुं छः छः स्वाहा ।
लोहत्रिशूलं कृत्वा रुधिरेण विषं पिष्ट्वा तेन त्रिशूलं लिप्त्वायुतेनाभिमन्त्रितं कृत्वा यस्य नाम्ना भूमौ निखनेत्तस्य शीघ्रं मृत्युर्भवति ॥
ओं ह्रींकारि हूंकारि कपालि समावेधं बन्धुं नपुंसकं महाशये अभयंकरि अमराख्यं कुरु कुरु ज्वरं हन हन आक्रोशात्कोलाहलं परां शक्त्याकर्षिणीं सर्वशक्तिप्रसङ्गिनीं शान्तिके हुं फट्स्वाहा ।
इमां महाविद्यां शत्रुवशंकरीं मनसा स्मरेत्स सर्वत्र निर्भयो भवति ॥
ओं ओं ओं हं हं हं हं सां सां सां सां इमं मन्त्रं जपित्वा स्थावरजङ्गमविषनाशनं भवति ॥
ओं अस्थि यंस्थि विद्रानिद्रा संनिविद्या रा टं टीं द्रीं समासं मटंटीं छं छं ।
अनेन मन्त्रेण काकपक्षं सहस्रैकं हुनेत्यस्य नाम्ना तं उच्चाटयति ॥
स्त्रीं हं अनेन मन्त्रेणायुते जप्ते सति कवित्वविद्या भवति स्त्रीमणिशकुनविद्यां हि संजपेत्झटिति कवित्वं करोति ॥
हं ऐं हं हं ऐं वद वद वाग्वादिनि स्वाहा ।
इमं मन्त्रं सप्तवारं जप्त्वाधिकाधिकं कवित्वं च करोति ॥
ओं हं छं छं छं ऐं नमः स्वाहा ।
सहस्रजपादधिकाधिकं कवित्वदोऽयं मन्त्रः ।
ओं कं खं गं घं चं छं छं अविलम्बं वक्तुः स्तम्भयति वाचं आलोकनात् ।
हुं हुं हुं हुं खं खं खं खं छं छं वाचां स्तम्भिनी वायुसंजीवनी विद्या ।
द्रीं आलोकवेधः परोक्षवेधः ।
ह्रीं सर्ववेधनमन्त्रः ।
द्रं द्र्ॐ द्र्ॐ द्र्ॐ द्रं अमुकं भेजि भेजि ह्रीं छं छं छं इति विस्फोटकसंजीविनी अवलोकनात्कार्यसिद्धिकरी ॥
ओं द्रां द्रीं पूर्वराक्षसान्नाशय सर्वाणि भञ्जय संतुष्टा मोहय महास्वने हुं हुं फट्स्वाहा इति सर्वभूतमारणमन्त्रः ।
ओं ह्रीं सः द्रां छः छः छः दूर्वाक्षीरहोमेन सर्वशान्तिकरी विद्या ॥
हुं पञ्चाण्डं चाण्डं द्रीं फट्स्वाहा अनेन मन्त्रेण मनुष्यास्थिकीलकं सप्ताङ्गुलं सहस्रधाभिमन्त्रितं यस्य गेहे निखनेत्तस्य कूटं उत्सादिनं भवति उद्धृते सति पुनः स्वास्थ्यं भवति ।
हुं क्षं अमुकं फट्स्वाहा अनेन मन्त्रेण पेचकपक्षिमांसं कटुतैलेन संयुतं होमयेत्सहस्रहोमेन शत्रुं निपातयति ॥
ओं श्रीं श्रीं ह्रीं ह्रीं धुं धुं हं हः स्वाहा ।
इयं हि त्रैलोक्यविजयानम्नी विद्या ।
मनसा स्मरेत्सर्वकामप्रदोऽयं मन्त्रः ॥
ओं ऐं ह्रीं श्रीं क्लीं विश्वरूपिणि पिशाचिनि भूतभविष्यादिकं वद वद मे कर्णे कथय कथय हुं फट्स्वाहा ।
इमं मन्त्रं शुक्लप्रतिपदं आरभ्य पूर्णिमापर्यन्तं सहस्रैकं त्रिसंध्यं जपेत्प्रत्यहं पूतं जलं सघृतं भक्तपिण्डं हर्म्योपरि रात्रौ दद्यात्त्रैलोक्ये यादृशी तादृशी वार्त्ता साधकस्य कर्णे भूतभविष्यादिकं च कथयति ॥
ओं रं रां सं सां लं लां हं हः सं सः खं खः तं तः धं सं स्फुं स्फः ह्रीं हुं हुं हुं क्षीं क्षीं क्ष्ॐ स्ॐ सः छं छः धं सः स्फुं स्फः ह्रीं हुं हुं हुं क्षीं क्षीं क्ष्ॐ सं फं फः हुं फट्स्वाहा ।
अयं समस्तविषनाशनमन्त्रः ।
सचराचरे ओं सचराचरे ओं हुं हुं हं हं हं हं हं हं हं हं हं हं क्षक्षक्षः हसः ओं सं हुं ह्रीं सर्वेश विष्णुबलेन शंकरदर्पेण वायुवेगेन रवितेजसा चन्द्रकान्त्या वैरं बाणशूर्पणं सर्वं विषहरं वद सर्वरक्षांसि हि नाशय  भञ्जय  सर्वदुष्टान्मोहय  देव हुं फट्स्वाहा हुं फट्स्वाहा ।
इमं मन्त्रं अष्टोत्तरसहस्रं शतं वा जप्त्वा सप्तमे दिवसे सिद्धिः समाकर्षणं भवति ॥
ओं ह्रीं अमुकं छः छः अनेन मन्त्रेण मानुष्यास्थिमयं कीलकं एकादशाङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहे निखनेत्तस्य कूटं चोत्सादनं भवति उद्धृते पुनः स्वास्थ्यं भवति ॥
ओं ह्रीं काल कङ्काल महाकाल करालवदन अमुकं गृह्ण त्रिशूलेन भिन्द्धि  खड्गेन छिन्द्धि  हुं फट्छः छः स्वाहा ।
अनेन मन्त्रेण विभीतककाष्ठकीलकं एकविंशत्यङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहद्वारे निखन्यते तस्य सद्यो देहनिपातनं भवति ॥
ओं ह्रीं क्लीं श्रीं हुं अमुकं छः छः ।
अनेन मन्त्रेण सिद्धिकाष्ठमयं कीलकं नवाङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहे निखन्यते स वश्यो भवति ।
ओं ह्रीं श्रीं क्लीं मातंगिनि ऐं ह्रीं श्रीं क्लीं स्वाहा ।
अनेन मन्त्रेण राजिकां लवणघृतमिश्रितां यस्य नाम्ना सह होमयेत्तां स्त्रियं पुरुषं वा वशयत्याकर्षणं च करोति ॥
ओं ह्रीं हूं छः छः ।
अनेन मन्त्रेण वाडवकाष्ठमयं कीलकं त्रयोदशाङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहे निखनेत्स चक्षुर्भ्यां अन्धो भवति ॥
ओं छः ओं छः छः ।
अनेन मन्त्रेण बिल्वकाष्ठस्य कीलकं दशाङ्गुलं सहस्रेणाभिमन्त्रितं यस्य गृहे निखनेत्सपरिवारस्य तस्य प्रेतत्वं भवति ॥
ओं ह्रीं अमुकीं मे प्रयच्छ स्वाहा ।
अनेन मन्त्रेण पाटलाकाष्ठमयं पञ्चाङ्गुलं कीलकं सहस्रेणाभिमन्त्रितं यस्य नाम्ना देवतायतने निखनेत्स शीघ्रं कन्यां लभते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP