उड्डामरेश्वरतन्त्र - प्रथमः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


उड्डीशेन समाकीर्णा योगिवृन्दसमाकुला ।
प्रणम्य शिरसा देवी गौरी पृच्छति शंकरं ॥
ईश्वर श्रोतुं इच्छामि लोकनाथ जगत्प्रभो ।
प्रसादं कुरु देवेश ब्रूहि धर्मार्थसाधकं ॥
वशीकरणं उच्चाटं मोहनं स्तम्भनं तथा ।
शान्तिकं पौष्टिकं वाथ करणानि बहूनि च ॥
चक्षुर्हानिं महेशान श्रुतिहानिं तथैव च ।
ज्ञानहानिं क्रियाहानिं कीलकं च तथापरं ॥
कार्यस्तम्भं सुरेशान शोषणं पूरणं तथा ।
मन्त्रध्यानं विशेषेण तत्सर्वं वद मे प्रभो ॥
अन्यच्च विविधं कार्यं प्रसादाद्ब्रूहि भैरव ।
यस्य विज्ञानमात्रेण मनुष्यो भुवि दुर्लभः ॥
श्रीरीश्वर उवाच ।
शृणु त्वं हि वरारोहे सिद्ध्यर्थं यदि पृच्छसि ।
तद्वदिष्यामि ते देवि तत्सर्वं समुदाहृतं ॥
औषधैर्मन्त्रजापैश्च रिपुं हन्यान्न संशयः ।
उड्डीशात्सारं आकृष्य मयोक्तं तव भक्तितः ॥
उड्डीशं च नमस्कृत्य रुद्रं चैव सुदुर्लभं ।
कपर्दिनं विरूपाक्षं सर्वभूतभयापहं ॥
वक्ष्ये रुद्रोद्भवान्योगान्सर्वशत्रुविनाशकान् ।
तैस्तु प्रयोजितैः सः प्राणान्हन्ति न संशयः ॥
प्रथमं भूतकरणं द्वितीयोन्मादनं तथा ।
तृतीयं द्वेषणं चाथ तुर्यं उच्चाटनं तथा ॥
ग्रामोच्चाटं पञ्चमं च जलस्तम्भं च षष्ठकं ।
वह्नेः स्तम्भकरं चाथ वशीकरणं उत्तमं ॥
अन्यानपि प्रयोगांश्च बहून्शृणु वरानने ।
शिवेन कथिता योगा उड्डीशे शास्त्रनिश्चये ॥
अन्धीकरणं मूकीकरणं बधिरीकरणं तथा ।
भूतज्वरस्य करणं अस्त्रशस्त्रस्य दूषणं ॥
जलदोषप्रशमनं दध्नो मधुविनाशनं ।
विनाशं मत्तकरणं गजवाजिप्रकोपनं ॥
आकर्षणं भुजंगानां मानवानां तथा ध्रुवं ।
वह्नेर्विनाशनं कुर्यात्पर्णानां हि विनाशनं ॥
गर्दभस्यात्मकरणं परकायप्रवेशनं ।
वेतालपादुकासिद्धिं उल्वकाज्ज्वलनं तथा ॥
अन्यान्बहुप्रयोगांश्च रौद्रान्रोमप्रहर्षणान् ।
विद्यामन्त्रप्रयोगादीनौषधांश्चाभिचारिकान् ॥
गुप्तागुप्ततराः कार्या रक्षितव्याः प्रयत्नतः ।
उड्डीशं यो न जानाति स रुष्टः किं करिष्यति ॥
सुमेरुं चालयेत्स्थानात्सागरैः प्लावयेन्महीं ।
सूर्यं च पातयेद्भूमौ नेदं मिथ्या भविष्यति ॥
यथैवेन्द्रस्य वज्रं च पाशं हि वरुणस्य च ।
यमस्य च यथा दण्डं कुबेरस्य गदा यथा ॥
वह्नेः शक्तिर्यथा प्रोक्ता खड्गस्तु निरृतेर्यथा ।
यथा वायोश्चाङ्कुशं हि त्रिशूलं शूलपाणिनः ॥
स्कन्दस्य च यथा शक्तिर्विष्णोश्चक्रं सुदर्शनं ।
तथैते च महायोगाः प्रयुक्ताः शत्रुकारणे ॥
अनिवृत्ते निवर्तन्ते अमोघा नात्र संशयः ।
संतुष्टेन प्रयुक्तेन सिध्यन्ति सुविचारतः ॥
रतानां करणं वक्ष्ये शत्रुसाधनं उत्तमं ।
येनैव कृतमात्रेण भूतो गृह्णाति मानवं ॥
निम्बकाष्ठं समादाय चतुरङ्गुलमानतः ।
शत्रुविष्टासमालिप्तं तथा नाम समालिखेत् ॥
चिताङ्गारेण तन्नाम्ना धूपं दद्यान्महेश्वरि ।
चितान्तः संस्थितो भूत्वा यस्य गात्रमृदाहरेत् ॥
कृष्णाष्टम्यां चतुर्दश्यां अष्टोत्तरशतं जपेत् ।
भूतो गृह्णाति तं शीघ्रं मन्त्रेणानेन मन्त्रितः ॥
उओं नमो भगवते सर्वभूताधिपतये विरूपाक्षाय नित्यं क्रूराय दंष्ट्रिणे विकरालिने ग्रहयक्षभूतवेतालेन सह शंकर मनुष्यं दह दह पच पच गृह्ण गृह्ण गृह्णापय गृह्णापय हुं फट्स्वाहा ।
प्रत्यानयं यदीच्छेत तस्यैषा क्रियते क्रिया ।
दापयेद्देवं ईशानं घृतेन वचया सह ॥
गुग्गुलं प्रददेद्धूपं घृतमिश्रं समन्ततः ।
मन्त्रेण मन्त्रयित्वा तु ततः स्वास्थ्यं भवेत्किल ॥
मन्त्रः उओं नमः शिवाय शान्ताय प्रभाय मुक्ताय देवाधिदेवाय शुभ्रबाहवे व्याधिं शमय शमय अमुकः स्वस्थो भवतु नमोऽस्तु ते ।
इति स्वास्थ्यमन्त्रः ।
अथान्यत्सम्प्रवक्ष्यामि प्रयोगं भुवि दुर्लभं ।
येनैव कृतमात्रेण ज्वरो गृह्णाति मानवं ॥
निम्बकाष्ठाकृतिं कृत्वा चतुरङ्गुलमानतः ।
तस्या हृदि विषोन्मत्तराजिकालवणैस्तथा ॥
नाम संलिख्य प्रकृतौ पाच्यमानायां ततः परं ।
ततस्तु शत्रुनाम्ना च अष्टोत्तरशतं जपेत् ॥
ततः स प्रहरार्धेन ज्वरभूतेन गृह्यते ।
अथ जपमन्त्रः उओं बकामुखा चामुण्डा अमुकस्य क्षीरमांसशोणितभोजिनी अमुकं खः खः ज्वरेण गृह्ण गृह्ण गृह्णापय गृह्णापय हुं फट्स्वाहा ।
प्रत्यानयं यदीच्छेत तस्यैषा क्रियते क्रिया ॥
दुग्धस्नातनामाक्षराणि तदा स्वस्थो भवेदिति ।
अथान्यत्सम्प्रवक्ष्यामि प्रयोगं भुवि दुर्लभं ॥
येन विज्ञानमात्रेण शत्रोरुच्चाटनं भवेत् ।
ब्रह्मदण्डी चिताभस्म गोमयस्य तथैव च ॥
क्षारं चापि समादाय काकजङ्गासमन्वितं ।
क्षिपेच्छिरसि शत्रूणां तूर्णं उच्चाटयेद्रिपुं ॥
ततः संस्नापयेदेनं गोक्षीरेण समन्वितं ।
मुण्डनं चाथ केशानां ततः स्वस्थो भवेद्ध्रुवं ॥
अथान्यत्सम्प्रवक्ष्यामि शत्रोरुच्चाटनं वरं ।
धूपं निर्भेदकं नाम स्वयं रुद्रेण भाषितं ॥
ब्रह्मदण्डी समूला च काकजङ्गा समन्विता ।
निर्मोकं सर्पराजस्य धूपं उच्चाटयेद्रिपून् ॥
सर्पकञ्चुकं आदाय कृष्णोरगशिरस्तथा ।
निखनेद्यस्य च द्वारे तं उच्चाटयते हठात् ॥
ब्रह्मदण्डी सुरामांसी कच्छपस्य शिरस्तथा ।
श्मशानभस्मसंयुक्तं कपाले मानुषे न्यसेत् ॥
शत्रोर्द्वारे निखातेन तूर्णं उच्चाटयेद्रिपून् ।
सप्तरात्रौ देवेशि समूलं नश्यते गृहं ॥
अथ विद्वेषणं वक्ष्ये शत्रूणां शृणु शंकरि ।
येनैव कृतमात्रेण विद्वेषो जायते नृणां ॥
ब्रह्मदण्डी समूला च काकमांसेन संयुता ।
जातीपुष्परसैर्भाव्या सप्तरात्रं पुनः पुनः ॥
ततो मार्जारमूत्रेण सप्ताहं भावयेत्ततः ।
एष धूपः प्रदातव्यः शत्रुगोत्रस्य मध्यतः ॥
यथा गन्धं समाघ्राति पिता पुत्रैः समं कलिः ।
विद्वेषणं परं तेषां सुहृद्भिर्बान्धवैः सह ॥
स्वस्थीकरणकं प्रोक्तं घृतगुग्गुलधूपतः ।
अथ मारणं ।
सुरां मानुषमांसं च समादाय विचक्षणः ॥
गृध्रास्थि शत्रुविष्ठां च द्वारमध्ये निखातयेत् ।
सप्ताहेन भवेन्मारो यथा रुद्रेण भाषितं ॥
ब्रह्मदण्डी चिताभस्म सुरामांसीसमायुतं ।
अरिष्टस्य च पत्त्राणि विषं रुधिरं एव च ॥
मोहाय च प्रयोक्तव्यः शत्रूणां नामयोगतः ।
सप्तरात्रप्रयोगेन सर्वशत्रुप्रणाशनं ॥
एतेषां दुष्टयोगानां शत्रवे तदुदाहृतं ।
शतं अष्टोत्तरेणैव मन्त्रयित्वा विचक्षणः ॥
उओं नमो भगवते श्रीउड्डामरेश्वराय अमुकं उच्चाटय उच्चाटय विद्वेषय विद्वेषय स्वाहा ।
एकरात्रोषितो भूत्वा कृष्णाष्टम्यां समाहितः ।
देवं अभ्यर्च्य चेशानं शतं अष्टाधिकं जपेत् ॥
मन्त्रं एतत्प्रयोक्तव्यं सिद्धये सिद्धिकाम्यया ।
शत्रुसैन्ये प्रयोक्तव्यं राज्ञश्च विजयार्थिनः ॥
लाङ्गूलं गृहगोधायाः कृकलासस्य मस्तकं ।
इन्द्रगोपकसंयुक्तं जम्बूकस्य शिरस्तथा ॥
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।
अमुक्ते हि प्रयोक्तव्यं सर्वं जनशतं हरेत् ॥
नृकपालं समूत्रं च पेचकस्य शिरस्तथा ।
वृश्चिकस्य तु लाङ्गूलं हालाहलकं एव च ॥
श्वेतमण्डूकमांसं च मूत्रं चैव गजोष्ट्रयोः ।
गृहीत्वा समभागानि सूक्ष्मचूर्णानि कारयेत् ॥
एतानि शोषयित्वा तु कल्कं कृत्वा पुनः पुनः ।
उओं हीं यमाय शत्रुनाशनाय स्वाहा ।
अन्ने पाने प्रदातव्यं रिपुसैन्यविनाशनं ॥
स्पृष्टमात्रेण तेनैव विस्फोटास्तु समन्ततः ।
तस्य देहे ज्वरस्तीव्रो भवेत्तीव्रा च वेदना ॥
म्रियते सप्तरात्रौ प्रत्यानयनवर्जितः ।
अथान्यत्सम्प्रवक्ष्यामि यस्य ध्यानेन साधनं ॥
कथितं चैव रुद्रेण त्रिदशेभ्यः प्रसादतः ।
रुधिरं कृष्णसर्पस्य कुक्कुटस्य तु कस्यचित् ॥
कच्छपस्य मयूराणां रोचनं जात्यञ्जनं तथा ।
कुङ्कुमं भद्रमुस्तं च तगरं कृष्णं एव च ॥
एतानि समभागानि पुष्यार्के च समाहरेत् ।
अश्लेषायां तु पिष्टानि कृत्वा पात्रे च राजते ॥
दशाहं स्थापयेद्भूम्यां पश्चादुद्धृत्य लेपयेत् ।
असिधाराङ्गदा नाम स्वयं रुद्रेण भाषिता ॥
अथालिपेत्तु गात्राणि स कृत्वास्थीन्यथापि वा ।
फलपुष्पे तथा पत्त्रे धूपसत्तैस्तथैव च ॥
अगदोऽयं महामन्त्रो भूतानां च भयावहः ।
अन्ने पाने मन्त्रयित्वा प्रयुञ्जीत विधानतः ॥
उओं नमो भगवते रुद्राय शान्ताय दिव्ययोगाय दिव्यरूपाय जटिलब्रह्मचारिणे अगदोक्षित्रिदशैव महाबलशतं मनोहं ठः ठः स्वाहा ।
पीड्यमानं जपेन्मन्त्रं शुचिर्भूत्वा समाहितः ।
अष्टोत्तरसहस्रं तु ततो मन्त्रं इमं जपेत् ॥
कन्यया पेषयच्चैव गोष्ठमध्ये प्रयत्नतः ।
तदशक्तौ चितायां तु यथाशक्ति पुनः पुनः ॥
स्वयं रुद्रेण सम्प्रोक्तं सर्वकार्यप्रसाधकं ।
सर्वे चैव प्रयोक्तव्याः सर्वशत्रुविनाशकाः ॥
तस्मात्सर्वप्रयत्नेन रक्षितव्याः प्रयोगवान् ।
अभुक्ते नैव प्रोक्त यं क्रूरे पापजने तथा ॥
दातव्यं भक्तियुक्ताय शास्त्रज्ञायामरेश्वरि ।
इति पार्वतीशिवसंवादे वीरभद्रेश्वरतन्त्रोद्धृते उड्डामरेश्वरमहातन्त्रे प्रथमः पटलः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP