संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - सभादीपदानविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ श्रावणशुक्लपूर्णिमायां सभादीपदानविधि: ॥

तण्डुलपिष्टनिर्मितं घृतवर्त्तियुक्तं तण्डुलप्रस्थश्रीफलादि पञ्चफलपूगीफलसंयुतं दीपं कांस्यपात्रे निधाय, सपत्नीक उपविश्य, आचम्य देशकालौ स्मृत्वा, मम सपत्नीकस्य इह जन्मनि जन्मान्तरे च अखण्डितसौभाग्यदीर्घायुष्मत्सुपुत्रलक्ष्मीविविधसुखाद्यभीष्टकामनासिद्धिद्वारा श्रीब्रह्मविष्णुमहेश्वरप्रीत्यर्थं ब्राह्मणाय सभादीपदानं करिष्ये । तद्ङ्गत्वेन दीपपूजनं ब्राह्मणपूजनं च करिष्ये । पञ्चोपचारै:दीपं ब्राह्मणं च सम्पूज्य, स्वस्त्यस्तु, दीर्घ० । भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्यय: । सौभाग्यं देहि मे पुत्रानवैधव्यं च देहि मे ॥ अभीष्टस्यास्तु मे प्राप्तिर्भवेस्मिंश्च भवान्तरे । तव प्रदानात्सकला मम सन्तु मनोरथा: ॥ श्रावण्यां श्रवणे ऋक्षे सभायामग्निसन्निधौ । सभादीपं प्रदास्यामि तुभ्यं विप्र सदक्षिणम्‌ ॥ इदं सभादीपदानं दक्षिणाताम्बूलसहितं अमुकश० तुभ्यमहं सम्प्रददे । प्रति गृ० प्र० । अनेन सभादीपदानाख्येन कर्मणा तेन श्रीब्रह्मविष्णुमहेश्वरा: प्रीयन्ताम्‌ ।
अथोद्यापनविधि: । तद्यथा, पञ्चप्रस्थसम्मितानि पञ्चधान्यानि पञ्चसु पात्रेषु भूमौ वा चतुर्दिक्षुमध्ये च निधाय मध्यस्थधान्यराशौ प्रस्थतण्डुलपूरितं कांस्यपात्रं निधाय तत्र पिष्टमयं दीपं संस्थाप्य, तत्समीपे यथासम्भवसुवर्णादिनिर्मितां दीपिकां यथासम्भवसुवर्णवर्तिसहितघृताक्तकार्पासवर्तियुतां निधाय, प्रज्वाल्य दीपद्वयं यज्ञोपवीतवस्त्रद्वयवेष्टितं कृत्वा, आचम्य देशका० मया कृतस्य पञ्चवर्षपर्यन्तस्य सभादीपदानकर्मण: सम्पूर्णतासिध्यर्थं उद्यापनं करिष्ये । तदङ्गं गणपतिपूजनं दीपपूजनं ब्राह्मणपूजनं च करिष्ये । गणपतिं दीपं ब्राह्मणं च सम्पूज्य, भोदीप इत्यादिमन्त्रान्‌ पठित्वा, सभादीपदानसम्पूर्णतायै इमं सोपस्करं सदक्षिणं सभादीपदानोद्यापनाख्येन कर्मणा तेन श्रीब्रह्मविष्णुमहेश्वरा: प्रीयन्ताम्‌ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP