आश्विनमास: - नवरात्रोत्थापनविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ नवरात्रोत्थापनविधि: ॥

तत्र नवम्यां दशम्यां यथाकुलाचारेण वा उत्थापनं कार्यम् । आचम्य देशकालौ स्मृत्वा, श्रीम० कुलदेवताप्रीत्यर्थं उत्थापनाङ्गत्वेन उत्तरपूजनं करिष्ये । गन्धपुष्पधूपदीपमहानैवेद्यं च समर्प्य नीराजनं कृत्वा पुष्पाञ्जलिं समर्प्य, रुपं देहि यशो देहि भगं भगवति देहि मे । पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥१॥
महिषघ्नि महामाये चामुण्डे मुण्डमालिनि । आयुरारोग्यमैश्वर्यं देहि देवि नमोऽस्तु ते ॥२॥
इति प्रार्थयेत् । उत्तिष्ठब्र० । उत्तिष्ठ देवि चण्डेशि शुभां पूजां प्रगृह्य च । कुरुष्व मम कल्याण्मष्टाभि: शक्तिभि: सह ॥ इति मन्त्रेण परम्परया पूजिताया धातुप्रतिमाया उत्थापनमात्रं कृत्वा पूर्वस्थाने निधाय पूजनं कुर्यात्, न विसर्जनम् । तत: घृतमीलितदुग्धेन दीपं प्रोक्षेत् ॥

नूतनप्रतिमायास्तु, उत्तिष्ठ देवि चं० इति मन्त्रेण उत्थापनं कृत्वा, दुर्गे देवि जगन्मात: स्वस्थानं गच्छ पूजिते । संवत्सरे घ्यतीते तु पुनरागमनाय वै ॥ इमां पूजां मया देवि यथाशक्त्योपपादिताम् । रक्षार्थं त्वं समादाय व्रजस्व स्थानमुत्तमम् ॥ इत्यनेन विसर्जनं कृत्वा, सोपस्करां सदक्षिणां आचार्याय दद्यात् । मृदादिप्रतिमायास्तु विसर्जनान्ते जले प्रक्षेप: तत्र मन्त्रविशेष:-गच्छ गच्छ परं स्थानं स्वस्थानं देवि चण्डिके । व्रज स्रोतोजलं वृध्यै स्थीयतां च जले त्बिह ॥ इति ॥ तत: यथाशक्ति ब्राह्मणकुमारिकाभोजनसङ्कल्पं कृत्वा भूयसीं च दक्षिणां द्त्वा, यस्यस्मृ० । अनेन मया कृतेन शारददुर्गानवरात्रोत्सवाख्येन कर्मणा श्रीम० श्रीकुलदेवता प्रीयताम् । तत: ब्राह्मणादीन् भोजयित्वा स्वयं सुहृद्युत: पारणं कुर्यात् ॥

॥ अथ विजयादशमी ॥

सा च अपराह्णव्यापिनी ग्राह्या । दिनद्वये तद्योगे पूर्वैव । दिनद्वये प्रदोषव्याप्तौ परा, श्रवणे रोहिणीवदप्रयोजक: । दिनद्वयेऽपराह्णास्पर्शे तु पूर्वा । तत्रापि परदिनेऽपराह्णस्पर्शे तु परैव । अपराह्णे श्रवणयोगे तद्युक्तैव पूर्वा परा वा ।

॥ सिंहासनादिराजचिन्हपूजा विधि: ॥

दशम्यां प्रात: आचम्य, देशकालौ स्मृत्वा, मम विजयकीर्तिआयुर्यशोबलप्राप्त्यर्थं सिंहासनादिराजचिन्हपूजनमहं करिष्ये । गणपतिपूजनादि कृत्वा, वक्रतुणडेति प्रार्थयेत् । सिंहासनादिराजचिन्हपदार्थ:, भाषया तन्नामानि च प्रदर्श्यन्ते । सिंहासनाय नम: इत्यादिनाममन्त्रै: सिंहासनादीन् गन्धादिभि: सम्पूजयेत् ।

१. सिंहासनाय नम:, गादी ।
२. ध्वजाय नम:, जरीपटका ।
३. पताकायै नम:, लग्या ।
४. दुन्दुभये नम:, नगारखाना ।
५. तूर्याय नम:, तूतारी ।
६. शङ्खाय नम:, शंख ।
७. घटीयन्त्राय नम: घटका ।
८. गयाज नम:, हत्ती ।
९. अश्वाय नम:, घोडा ।
१०. शिबिकायै नम:, पालखी ।
११. रथाय नम:, बग्गी ।
१२. छत्राय नम:, अब्दागीर ।
१३. चामराय न०, चंवरी ।
१४. रत्नाय नम:, जवाहिरखाना ।
१५. राजमुद्रिकायै० सिव्कामोहर ।
१६. भाण्डाराय नम:, जामदारखाना ।
१७. कट्टारकाय नम:, शिकेकटार ।
१८. खङ्गाय नम:, तलवार ।
१९. चर्मणे नम:, ढाल ।
२०. कवचाय नम:, लोहकवच ।
२१. अग्नियन्त्राय०, बंदूक ।
२२. महाग्निपन्त्राय०, तोफ ।
२३. कुन्ताय नम:, भाला ।
२४. धनुषे नम:, धनुष्य ।
२५. बाणय नम:, बाण ।
२६. छुरिकायै नम:, छुरी ।
२७. व्यवहारसरस्वत्यै० दफ्तर ।
२८. मसीलेखनीदेवताभ्यो नम:, कलमदान ।
२९. कनकदण्डाय० चोबदारकाठी ।

॥ अपराजितापूजनविधि: ॥

दशम्यां, अपराह्णे ग्रामाद्‌बहि: सीमानं समुल्लङ्घ्य ईशान्यां दिशि गत्वा शुचौ देशे भूमिं गोमयेनोपलिप्य, तत्र चन्दनादिना अष्टदलं पद्मं विरच्य अपराजितां पूजयेत् । आचम्य देशकालौ सङ्कीर्त्य, मम सकुटुम्बस्य सपरिवारस्य क्षेमविजयसिध्यर्थं अपराजितापूजनं करिष्ये । महागणपतिपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, पद्ममध्ये, अक्षतपुञ्जोपरि पूगफलं निधाय आवाहयेत् । ॐ अपराजितायै नम: अपराजितां आवाहयामि । तद्दक्षिणे, ॐ जयायै नम: जयां आ० । वामे, ॐ विजयायै० विजयां आ० । इत्यावाह्य, अपराजिताद्यावाहितदेवताभ्यो नम: इति ध्यानादिषोडशोपचारै: सम्पूज्य, चारणा मुखपदमेन विचित्रकनकोज्वला । जया देवी शिवेभक्ता सर्वकामान्ददातु मे ॥ काञ्चनेन विचित्रेण केयूरेण विभूषिता । जयप्रदा महामाया शिवभावितचेतसा ॥ विजया च महाभागा ददातु विजयं मम । हारेण सुविचित्रेण भास्वत्कनकमेखला ॥ अपराजिता रूद्रलता करोतु विजयं मम ॥ इति सम्यार्थ्य । हरिद्रारक्तवस्त्रं दूर्वायुक्तसिद्धार्थकान् प्रदक्षिणं बलयाकारेणाबध्य, सदापराजिता यस्मात्त्वं लतासूत्रमाश्रिता । सर्वकामार्थसिध्यर्थं तस्मात्त्वां पूजयाम्यहम् ॥ भवापराजिते देवि मम सर्वसमृद्धये । पूजितायां त्वयि श्रेयो ममास्तु दुरितं हतम् ॥ इत्यनेन तद्वलयमभिमन्त्र्य, जयदे वरदे देवि दशम्यामपराजिते । धारयामि भुजे दक्षे जयलाभाभिवृद्धये ॥ बलमाधेहि मयि च मम शत्रौ पराजयम् । त्वद्धारणाद भवेयुर्मे धनधान्यसमृद्धय: ॥ इति मन्त्रेण दक्षिणबाहौ धृत्वा, इमां पूजां मया देवि यथाशक्ति निवेदिताम् । रक्षार्थं तु समादाय व्रज स्वस्थानमुत्तमम् ॥ इति विसर्जयेत् ॥ अनेन मया कृतेन पूजनेन अपराजिताद्यावाहितदेवता: ॥ प्रीयन्ताम् ॥

॥ अथ शमीवृक्षपूजनविधि: ॥

तत्र ग्रामाद्‌बहिरीशानदिगवस्थितां शमीं गत्वा पूजयेत् । आचम्य दशकालौ स्मृत्वा, मम दुष्कृतामङगलदु:खादिनिरासार्थं क्षेमार्थं विजयार्थं च शमीवृक्षपूजनं करिष्ये । गणपतिपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, अमङ्गलानां शमनीं शमनीं दुष्कृतस्य च । दुःखप्रणशिनीं धन्यां प्रपद्येऽहंशमीं शुभाम् ॥ इति मन्त्रेण ध्यानावाहनादिषोडशोपचारै: सम्पूज्य जगन्नाथदर्शनं कृत्वा, प्रार्थयेत्‌शमी शमयते पापं शमी लोहितकण्टका । धारिण्यर्जुनबाणनां रामस्य प्रियवादिनी ॥ करिष्यमाणयात्रायां यथाकालं सुखं मया । तत्र निर्विघ्नकर्त्री त्वं भव श्रीरामपूजिते ॥ यस्य स्मृ० । अनेन मया कृतेन पूजनेन शमीदेवता प्रीयताम् । शम्यलाभे अश्मन्तकवृक्षं पूजयेत् । तत्प्रार्थनामन्त्रस्तु, अश्म:तक महावृक्ष महादोषनिवारण । इष्टानां दर्शनं देहि शत्रूणां च विनाशनम् ॥ तत: साक्षतामार्दां शमीमूलगतां मृत्तिकां शमीपत्राणि च गृहीत्वा गीतवाद्यादिनिघोंषै: स्वगृहं आनयेत् । तत: भूषणवस्त्रादि धारयित्वा युवतीभि: स्त्रीभि: नीराजनं कारयित्वा गोगोष्ठजलसन्निधौ खञ्जनं शोभनं पश्येत् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP