आश्विनमास: - सरस्वतीस्थापनपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ सरस्वतीस्थापनपूजाविधि: ॥

आश्विनशुक्लपक्षे मूलस्य प्रथमपादे सूर्यारतात् प्राक् त्रिमुहूर्तव्यापिनि सररवत्या आवाहनम् ॥ तदसम्भवे द्वितीयादिपादे परदिने वा । एवं पूर्वाषाढादिनक्षत्रं पूजादौ दिनव्याप्येव ग्राह्यम् ॥ विसर्जनं तु श्रवणप्रथमपादे सार्धप्रहरपर्यन्तं रात्रिगतेऽपि कार्यम् । तदसम्भवे परदिने द्वितीयादिपादेऽपि । तत्र भद्रपीठे सर्वाणि पुस्तकानि आहृत्य स्थापयेत् ।
आचम्य देशकालौ सङ्कीर्त्य, मम सरस्वतीप्रीतिद्वारा मूलनक्षत्रे पुस्तकेषु सरस्वत्यावाहनं पञ्चोपचारपूजनं च करिष्ये । अत्रागच्छ जगद्वन्द्ये सर्वलोकैकपूजिते । मया कृतामिमां पूजां गृहाण जगदीश्वरि । प्रणोदेवी स० ॥ श्रीसरस्वत्यै नम: सरस्वतीं साङ्गां सपरिवारां सायुधां सशक्तिकां आवाहयामि ॥ ॐ सरस्वत्यै नम: इति नाममन्त्रेण गन्धादिपञ्चोपचारपूजां कुर्यात् । अनेन सरस्वत्यावाहनेन श्रीसरस्वती प्रीयताम् ॥
पूर्वाषाढानक्षत्रे विधिवन्मङ्गलस्नानं कृत्वा क्षौमवस्त्रं परिधाय नित्यकर्म समाप्य गुरूणां वन्दनं कृत्वा मण्डपं प्रविश्य पूजामारभेत । आचम्य देशकालौ सङ्कीर्त्य, मम श्रीसरस्वतीप्रीतिद्वारा सर्वशास्त्रार्थविज्ञानकवितापुत्रपौत्राद्यभिवृद्धिधनधान्यादिसम्पत्तिकीर्तिप्राप्त्यर्थं परत्रमोक्षार्थं च पूर्वाषाढानक्षत्रे पुस्तकेषु यथामिलितषोडशोपचारद्रव्यै: पुराणोक्तमन्त्रै: सरस्वतीपूजनं करिष्ये । तदङ्गत्वेन गणपतिपूजनमासनविध्यादिपूजासम्भारप्रोक्षणान्तं कृत्वा ध्यायेत् । प्रणवासनसंरूढां तदर्थत्वेन निश्चिताम् । अङ्कुशं चाक्षसूत्रं च पाशपुस्तकधारिणीम् ॥१॥
मुक्ताहारसमायुक्तां मोदरूपां मनोहराम् । सितेन दर्पणाभेन वक्त्रेण परिशीभिताम् ॥२॥
सुस्तनीं वेदमध्यान्तां चन्द्रार्धकृतशेखराम् । जटाकलापसंयुक्तां पूर्णचन्द्रनिभाननाम् ॥३॥
त्रिलोचनां महादेवीं स्वर्णनूपुरधारिणीम् । कटकै: स्वर्णरत्नाढयैर्महावलयशोभिताम् ॥४॥
कम्बुकण्ठीं सुताम्रोष्ठीं सर्वाभरणभूषिताम् । केयूरैर्मेखलाद्यैश्च द्योतयन्तीं जगत्त्त्रयम् । शब्दब्रह्मारणिं ध्यायेद्धयानकाम: समाहित: ॥५॥
श्रीसरस्वत्यै नम: सरस्वतीं ध्यायामि । अनेकरत्नसंयुक्तं सुवर्णेन विराजितम् । मुक्तामण्यङकितं चारु चासनं ते ददाम्यहम् ॥ आसनं० ॥
गन्धपुष्पाक्षतै: सार्धं शुद्धतोयेन संयुतम् । शुद्धस्फटिकतुल्याङ्गि पाद्यं ते प्रति० ॥ पाद्यं० ॥
भक्ताभीष्टप्रदे देवि देवदेवादिवन्दिते । आधारादि जगद्धात्रि ददाम्यर्ध्यं गृहाण मे ॥ अर्ध्यं० ॥
पूर्णचन्द्रसमास्पे त्वं कोटिसूर्यसमप्रभे । भक्त्या समर्पितं वाणि गृहाणाचमनीयकम् ॥ आचमनीयं० ॥
कमलभवनजाये कोटिसूर्यप्रकाशे शिवदशुचिविलासे कोमलाहारयुक्ते । दधिमधुघृतयुक्तं क्षीररम्भाफलाढयं शुचि रुचि मधुपर्क गृह्यतां देववन्द्ये ॥ मधुपर्कं० ।
दधि क्षीरं घृतोपेतं शर्करामधुसंयुतम् । पञ्चामृतस्नानमिदं स्वीकृरुष्व महेश्वरि ॥ पञ्चामृतस्नानं० ॥ सुवर्णकलशानीतैर्नानागन्धसुवसितै: । शुद्धोदकस्नानमिदं स्वीकुरुष्व सुरेश्वरि ॥ शुद्धांदकस्नानं० । पञ्चोपचारपूजां कृत्वा सरस्वतीसूक्तेनाभिषेक: । शुक्लवस्त्रद्वयं देवि कोमलं कुटिलालके । भक्त्या मयार्पितं वाणि ब्रह्माणि प्रतिगृ० ॥ वाग्‌देव्यै नम: वस्त्रयुग्मं० ॥ आचमनीयं० ॥ शब्दब्रह्मारणे देवि शब्दशास्त्रकृतालये । ब्रह्मसूत्रं गृहाण त्वं ब्रह्मशक्रादिपूजिते ॥ ब्रह्माण्यै० यज्ञोपवीतं० ॥ आचमनं० ॥ कटकमुकुटहारैर्नूपुरैरङ्गदाद्यैर्विविधसुमणियुक्तैर्मेखलामुक्तहारै: कमलदलविलासे कामदात्रि गृहीष्व प्रकटितकरुणार्द्रे भूरिशी भूषणानि ॥ लोकमात्रे नम: आभरणानि सौभाग्यद्रव्याणि स० ॥ चन्दनागरुकस्तूरीकर्पूराद्यैश्च संयुतम् । गन्धं गृहाण वरदे विधिपत्नि नमोऽस्तु ते ॥ गम्भीरावर्तनायै० चन्दनं० ॥ अक्षतान्धवलान् दिव्यान् शालितण्डुलनिर्मितान् । गृहाण वरदे देवि ब्रह्मशक्ति शुभाक्षतान् ॥ चारुवेण्यै० अक्षतान् स० ॥ नद्यावर्तादिपुष्पैश्च मल्लिकाभिर्मनोहरै: । करवीरैर्मनोरम्यैर्बकुलै: केतकै: शुभै: ॥ पुन्नागैर्जातिकुसुमैर्मन्दारैश्च सुशोभितै: । नीलोत्पलै: शुभैश्चान्यैस्तत्कालतरुसम्भवै: ॥ प्रकल्पितानि माल्यानि गृहाणामरवन्दिते ॥ निखिलार्थदायै० पुषाणि स० ॥
॥ अथाङ्गपूजा ॥

१. ब्रह्माण्यै० पादौ पू० ।
२. ब्रह्मण्यमूर्तये० गुल्फौ० ।
३. जगत्स्वरूपायै० जङ्घे० ।
४. जयदादये० जानुनी० ।
५. चारुविलासिन्यै० उरू० ।
६. कमलभूतये० कटी० ।
७. जन्मंहीनायै० जधनं० ।
८, गम्भीरनाभव० नाभिं० ।
९. वारिपूज्यायै० उदरं० ।
१०. लोकमात्रे० स्तनौ० ।
११. विशालवक्षसे० वक्ष:० ।
१२. सुविपश्चिते० कण्ठं पू० ।
१३. स्कन्दप्रपूज्यायै० स्कन्धौ० ।
१४. दीर्वसुबाहवे० बाहू० ।
१५. पुस्तकधारिण्यै० हनुं० ।
१६. श्रोत्रियजम्भवे०श्रोत्रे० ।
१७. वेदस्वरूपायै० वक्त्रं० ।
१८. सुनासायै० नासिकां० ।
१९. बिम्बसमानोष्ठयै० औष्ठौ० ।
२०. कमलचक्षुषे० नेत्रे० ।
२१. तिलकधारिण्यै० भालं० ।
२२. चन्द्रमूर्तये० केशान्० ।
२३. सर्वेश्वर्यौसरस्वत्यै० शिर:० ।
२४. ब्रह्मरूपिण्यै० सर्वाङ्गं पू० ।

दशाङ्गं गुग्गुलोपेतं सुगन्धं च मनोहरम् । धूपं गृहाण कल्याणि भक्तिं मय्यचलां कुरु ॥ श्रीवाण्यै० ॥ धूपं० । घृताक्तवर्तित्रितयैर्दीपितं दीपम्बिके । गृहाण चित्स्वरूपे त्वं कमलासनवल्लभे ॥ वागीश्वर्यै० दीपं० ॥ अपूपान्विविधान् स्वादून् शालिपिष्टोपयाचितान् । मृदुलान् गुडसंमिश्रान् सजीरकमरीचिकान् ॥ कदलीपनसाम्राणां सुपक्वानि फलानि च । कन्दमूलव्यञ्जनादि सोपदंशं मनोहरम् । अन्नं चतुर्विधोपेतं क्षीरान्नं सघृतं दधि ॥ चित्स्वरूपायै० नैवेद्यं० । शीतोदकं च सुस्वादु कर्पूरैलादिवासितम् । मध्ये मध्ये गृहाणेदं कामधेनुशताधिके ॥ कमलासनवल्लभायै० पानीयं० । उत्तरापोशनं० । हस्तप्र० । मुखप्रक्षालनं० । करोद्वर्तनार्थे चन्दनं० । ताम्बूलं च सकर्पूरं पूगनागदलैर्युतम् । गृहाण देवि देवेशि तत्त्वरूपे नमोऽस्तु ते । विश्वमूर्त्यै० ताम्बूलं० । इदं फलं० फलं० ॥ हिरण्यगर्भ० दक्षिणां । नीराजनं गृहाण त्वं जगदानन्ददायिनि । जगत्तिमिरमार्तण्डमण्डले ते नमो नम: ॥ नीराजनं० । ज्ञानानन्दैकहेतवे० कर्पूरदीपं० । शारदे लोकमातस्त्वमाश्रिताभीष्टदायिनि । पुष्पाञ्जलिं गृहाणेमं मया भक्तिसमर्पितम् ॥ पुष्पाञ्जलिं० । तत: शिष्यादियुत: यानि कानि० प्रदक्षिणां कृत्वा, पाहि पाहि जगद्वन्द्ये नमस्ते भक्तवत्सले । नमस्तुभ्यं  नमस्तुभ्यं  नमस्तुभ्यं नमो नम: ॥ नमस्कारं कुर्यात् ॥ तत: प्रार्थयेत्-पाशाङ्कुशधरा वाणी वीणापुस्तकधारिणी । मम वक्त्रे वसेन्नित्यं दुग्धकुन्देन्दुनिर्मला ॥ चतुर्दशसु विद्यासु रमते या सरस्वती । चतुर्दशसु लोकेषु यैवैका पूज्यपादुका ॥ आवाहनं० इत्यादि प्रार्थयेत् । यस्य स्मृत्या० । अनेन मया कृतेन पूजनेन श्रीसरस्वती प्रीयताम् ।

तत: विप्राग्रे चतुर्दशलङ्डुकान् तुतसंपृक्तान् दक्षिणाताम्बूलसहितान् निधाय वायनं दद्यात् । पूजासाङ्गतासिध्यर्थं ब्राह्मणाय लड्‍डुकवायनदानं ब्राह्मणपूजनं च करिष्ये । गन्धा: पान्तु०, स्वस्त्यस्तु दीर्घ० । सरस्वति नमस्तुभ्यं वरदे भक्तवत्सले । उपायनं प्रदास्यामि विद्यावृद्धिं कुरुष्व मे ॥ भारती प्रतिगृह्लाति भारतीयं ददाति च । भारती तारकोभाभ्यां भारत्यै ते नमो नम: ॥ इदं चतुर्दशसङ्ख्याकलड्‍डुकवायनं सघृतं सदक्षिणाकं सताम्बूलं अमु० ब्राह्म० तुभ्य० । प्रति०, प्रति० । अनेन वायनदानेन श्रीसरस्वती प्रीयताम् ॥

तत: उत्तराषाढासु बलिदानं तदङ्गत्वेन पूजनं करिष्ये । पञ्चोपचारै: सम्पूज्य, सरस्वत्यै साङ्गायै सपरिवारायै सायुधायै सशक्तिकायै इमं यथासोपस्करबलिं समर्पयामि । तेन श्रीसरस्वती प्रीयताम् ॥

तत: श्रवणे विसर्जनं कर्तुं आदौ तदङ्गत्वेन पूजनं करिष्ये । पञ्चोपचारै: सम्पूज्य, उतिष्ठब्रह्मण० इति उत्थापयेत् ॥ इति सरस्वतीपूजाविधि: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP