संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - नृसिंहशनिहनुमतां पूजनप्रकार:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


कुडये हरिद्रायुकचन्दनेन लक्ष्मीसहितं नृसिंहंविलिख्य, सुवासिनीब्राह्मणांश्च तैलेनाभ्यज्य स्वयमपि कुटुम्बसहितोऽभ्यज्य स्नायात्‌ । तत: देशकालौ० मम सर्वापच्छान्तिपूर्वकपुत्रपौत्राद्यभिवृध्यर्थं श्रीलक्ष्मीनृसिंहपूजनं करिष्ये । श्रीलक्ष्मीनृसिंहाभ्यां नम इति नाममन्त्रेण ध्यानादिषोडशोपचारैर्नीलपीतपुष्पै: कुञ्जरसंज्ञकशाकसहितकृसरान्नस्य नैवेद्येन च सम्पूज्य, श्रीनृसिंह रमाकान्त भक्तानां भयनाशन । क्षीराम्बुधिनिवास त्वं चक्रपाणे जनार्दन ॥ इति सम्प्रार्थयेत्‌ । यस्य० अनेन लक्ष्मीनृसिंहपूजनेन लक्ष्मीनृसिंहौ प्रीयेताम्‌ ॥ साङ्गता० सुवासिनीब्राह्मणांश्च कृसरान्नेन माषान्नेन च सम्भोज्य स्वयमपि भुञ्जीत ॥
अथ शनिपूजाविधि: । लोहमय्यां शनिप्रतिमायां, अश्वत्थवृक्षे वा पूजयेत्‌ । प्रात: खञ्जं ब्राह्मणं तिलतैलेनाभ्यज्य स्नापयित्वा स्वयमपि तथैव स्नात्वा, आचम्य देश० मम समस्तरोगपरिहारार्थं द्दष्टयुदरलत्तागतशनिकृतपीडानिरासार्थं श्रावणशनिवासरे शनैश्चरपूजनमहं करिष्ये । नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्‌ । छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्‌ ॥ इति ध्यात्वा श्रीशनैश्वराय नम इति षोडशोपचारैस्तिलमाषाक्षतै: कृसरान्ननैवेद्येन च सम्पूजयेत्‌ । तिलतैलेनाभिषेकं कुर्यात्‌ । य: पुनर्नष्टराज्याय नीलाय परितोषित: । ददौ निजं महाराज्यं स मे सौरि:प्रसीदतु ॥ कोणस्थ: पिङ्गलो बभ्रु: कृष्णो रौद्रोऽन्तको यम: । सौरि:शनैश्चरो मन्द: पिप्पलादनसंस्तुत: ॥ एतानि शनिनामानि जपेदश्वत्थसन्निधौ । शनैश्वरकृतापीडा न कदाचिद भविष्यति ॥ इति प्रार्थयित्वा, सप्त नमस्कारान्‌ सप्त प्रदक्षिणांश्च कुर्यात्‌ । अनेन पूजनेन शनैश्चर: प्रीयताम्‌ । साङ्गता० खञ्जं ब्राह्मणं भोजयेत्‌ ॥
अथ हनुमत्पूजनविधि: । तैलमिश्रितसिन्दूरेण हनुमन्तं लेपयित्वा, देशकालौ० मम सर्वसम्पत्प्राप्तिपूर्वकश्रीहनुमत्प्रीत्यर्थं हनुमत्पूजनमहं करिष्ये । श्रीहनुमते नम इति षोडशोपचारैर्जपापुष्पमालाभिरर्कमालाभिर्वटकानां मालाभिर्मन्दारमालाभिश्च सम्पूज्य द्वादशनामानि जपेत्‌ । हनुमानञ्जनीसूनुर्वायुपुत्रो महाबल: । रामेष्ट: फाल्गुनसख: पिङ्गाक्षोऽमितविक्रम: ॥ उदधिक्रमणश्चैव सीताशोकनिवारण: । लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ एवं द्वादशनामानि प्रातरुत्थाय य: पठेत्‌ । नाशुभं जायते तस्य सर्वसम्पत्प्रजायते ॥ अनेन हनुमत्पूजनेन श्रीहनुमान्‌ प्रीयताम्‌ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP