मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
अथ ऐंद्री शान्तिः ।

अथ ऐंद्री शान्तिः ।

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


( पञ्चाधिकसप्ततितमे वर्षे (७५) क्रियमाणा । )
अथ कर्ता यजमानः जन्मनः सकाशात्‍ पञ्चाधिकसप्ततितमे वर्षे प्राप्ते, जन्मदिने, जन्मनक्षत्रे, चंद्रानुकूल्ये शुभेऽहनि वा कृताभ्यंगः, कृतनित्यक्रियः, कृताग्निसिद्धिः, शुभे सवस्त्रपीठासने उपविश्य, यज्ञोपवीती, आचम्य, पवित्रपाणिः प्राणानायम्य, पंचगव्यप्राशनादिना शरीरशुद्धिं विधाय, सुवासिन्या कृतमंगलतिलकः देवतागुर्वादींश्चाभिवाद्य, ब्राह्मणैर्दत्तानुज्ञः स्वासने उपविश्य, पुनः आचम्य, प्राणानायम्य, देशकालौ संकीर्त्य, श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रः अमुकशर्माऽहं मम जन्मतः सकाशात्‍ पञ्चाधिकसप्ततितमे वर्षे प्राप्ते सूचित - संभाव्यमान - नानाविधरोग - दृष्टिमान्द्य - छायावैकृत्य - भार्यापुत्रादिवियोग - धनधान्यपशुक्षयादि - अरिष्ट - निरसनार्थं जन्मराशिजन्मलग्नाभ्यां सकाशात्‍ गोचरेण अनिष्टस्थानस्थित - आदित्यादि - नवग्रहाणां उत्पन्नोत्पत्स्यमान - पीडापरिहारपूर्वकं सर्वसुखावाप्तिधनधान्याद्यभिवृद्धयर्थं समस्तमंगलप्रात्प्यर्थं देशकालाद्यनुसारतः विद्वदुपदिष्टेन विधिना यथा - संभृत - संभारैः यथाशक्ति यथाज्ञानतः सग्रहमखां शौनकोक्तां ऐंद्री शांतिं करिष्ये । तदंगं स्वस्तिपुण्याहवाचनं, मातृकापूजननांदीश्राद्धं, आचार्यवरणं च करिष्ये । तत्रादौ निर्विघ्नतासिद्धयर्थं महागणपतिपूजनं च करिष्ये । इति संकल्प्य, तानि कृत्वा, वृताचार्यः, स्थंडिलसमीपमुपविश्य, आचम्येत्यादि० श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रोत्पन्नेन अमुकशर्मणा यजमानेन संकल्पित - ऐंन्द्री - शांति - कर्मणि वृतोऽहं यथाज्ञानतः देशकालाद्यनुसारेण एभिर्ब्राह्मणैः सह आचार्यकर्म करिष्ये । तदंगं शरीरशुद्धयर्थं पुरुषसूक्तजप - पूर्वकम्‍ भू - शुद्धयादि करिष्ये । आदौ निर्विघ्नार्थं महागणपतिस्मरणं च करिष्ये । इत्यादि गौरसर्षपविकिरणादि प्रादेशान्तं कर्म कृत्वा, स्थण्डिलात्‍ पूर्वभागे वेदीं प्रकल्प्य, ( अत्र केचन - सर्वतोभद्रस्य ( लिंगतोभद्रस्य वा ) सर्वसाधारणत्वात्‍ पीठे सर्वतोभद्रं विरच्य, तत्र ब्रह्मादि - मंडल - देवताः आवाह्य, संपूज्य, तण्डुलैराच्छाद्य, तदुपरि कलशं संस्थाप्य, वरुणं संपूज्य, कर्णिकायां देवतास्थापनमिच्छन्ति । ) सवस्त्रपीठासने तण्डुलराश्युपरि महीद्यौरित्यादिना कलशं प्रतिष्ठाप्य, वरुणप्रार्थनान्तं कृत्वा, पूर्णपात्रे अष्टदलमध्ये कर्णिकायां कृताग्न्युत्तारणपूर्विकायां सुवर्णप्रतिमायां - इंद्रकौशिकम्‍ आ तू न इंद्र कौशिक इति मंत्रेण प्रधानदेवं इंद्रकौशिकम्‍ आवाहयेत्‍ । तद्यथा - आ तू न इंद्र कौशिकेत्यस्य मधुच्छंदावैश्वामित्र इंद्रोनुष्टुप्‍ इंद्रकौशिकावाहने विनियोगः ।

आ तू न इन्द्र कौशिक
मन्दसानः सुतं पिब ।
नव्यमायुः प्र सू तिर
कृधी सहस्रसामृषिम्‍ ॥
( अ - १, अ - १, वर्ग - २० )


अस्यां सुवर्णमय्यां मूर्तौ प्रधानदेवतां इंद्रकौशिकम्‍ साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि । ॐ भूः इंद्रकौशिकम्‍ आवा० । ॐ भुवः इंद्रकौशिकम्‍ आवा० । ॐ स्वः इंद्रकौशिकम्‍ आवा० । ॐ भूर्भुवः स्वः इंद्रकौशिकम्‍ आवा० । इंद्रकौशिकपरितः पूर्वादिअष्टदिक्षु पूगीफले सहस्राक्षादीन्‍ आवाहयेत्‍ । तद्यथा पूर्वादि - अष्टदिक्षु सर्वत्र ओंकारः सहस्राक्षाय नमः । सहस्राक्षं आवाहयामि । शतक्रतवे नमः । शतक्रतुं आवाहयामि । वज्रपाणये नमः । वज्रपाणिमावाहयामि । पुरंदराय नमः । पुरंदरं आवाहयामि । अभयंकराय नमः । अभयंकरं आवाहयामि । शचीपतये नमः । शचीपतिम्‍ आवाहयामि । स्वर्गधिपाय नमः । स्वर्गाधिंपं आवाहयामि । इंद्राय नमः । इंद्रं आवाहयामि इति क्रमेण । तदुत्तरतः त्र्यंबकेति मंत्रेण त्र्यंबकं आवाह्य, तदुत्तरतः नक्षत्रदेवतां नाममंत्रेणावाह्य, काण्डानुसमयेन पदार्थानुसमयेन वा सर्वान्‍ संपूज्य, प्रधानदेवतासमीपे तन्मंत्रं ( ध्रुवासु त्वा ‘ आ तू न इन्द्र कौशिक ’ इति ) अष्टोत्तरशतं अष्टाविंशतिवारं वा जप्त्वा, स्थंडिलान्तिकमेत्य, अद्येत्यादि० संकल्पित - ऐन्द्री - शांतिकर्मणि स्थंडिलादिसकलं कर्म करिष्ये । वरदनामानमग्निं प्रतिष्ठाप्य, ध्यात्वा, ध्यानान्ते देवतोत्तरवेद्यां आदित्यदिनवग्रहानावाह्य, संपूज्य, देवदानवसंवादे० इति वरुणप्रार्थनान्तं कृत्वा, स्थंडिलसमीपमेत्य, समिद्‍ द्वयेत्यन्वादध्यात्‍ । चक्षुष्यन्तं उक्त्वा ग्रहानन्वादध्यात्‍ । अत्र ग्रहहोमे चत्वारि द्रव्याणि । अत्र प्रधानदेवतां ‘ इन्द्रकौशिकं तन्मंत्रेण समिध्‍ - आज्य - चरु - पायस - द्रव्यैः चतुर्भिः प्रतिद्रव्यं ( अष्टोत्तरसहस्र ) / अष्टोत्तरशतसंख्याकाभिराहुतिभिर्वा, मृत्युंजयं त्र्यंबकं त्र्यंबकेतिमंत्रेण घृताक्ततिलद्रव्येण सहस्रसंख्याकाहुतिभिः, नक्षत्रदेवतां नाममंत्रेण अष्टविंशतिअष्टसंख्याकाभिर्वाज्यद्रव्येण सहस्राक्षादिपरिवारदेवताः घृताक्ततिलद्रव्यैः अष्टाष्टसंख्याभिः यक्ष्ये । शेषेण स्विष्टकृतमिति चक्षुष्यन्तं कर्म कृत्वा यजमानेन द्रव्यत्यागे कृते, ग्रहहोमं प्रधानादिहोमं विधाय, स्विष्टकृतात्‍ प्राक्‍ विविधसूक्तपाठजपः कार्यः । तानि च सूक्तानि - श्रीसूक्तं, रुद्राध्यायं, आयुष्यमंत्रान्‍ - जपेत्‍ । ते च ऋक्‍ द्वयं एष वां देव, परावतो सप्तदशर्चं, आ नो भद्रा दशर्चं, इति वा इति आयुषमिति च सूक्तं पठेत्‍ । ततः स्विष्टकृतादि प्रायश्चित्त - होमान्ते बलिदानं पूर्णाहुतिं च कृत्वा संस्रावादिहोमशेषं समाप्य, स्थापितकलशोदकैः सकुटुंबं बंधुवर्गयुतं यजमानं अभिषिंचेत्‍ । तत्र अभिषेकमंत्राः - समुद्रजेष्ठा० शं न इंद्राग्नी० परं मृत्यो० एष वां देवा ऋग्द्वयं० परावतो सप्तदशर्चं, स्वादिष्टयेति दशर्चं, अक्षिभ्यां षटभिः, यज्जाग्रत इति षण्णाम्‍ । ग्रहमंत्र - मुख्यदेवतामंत्रेत्यादीनां सर्वेषां अभिषेके विनियोगः ।

( अभिषेकमंत्राणां बाहुल्यात्‍ यथावकाशं यथाशक्ति पाठः । )

ततो यजमानः अभिषेकवस्त्रं परित्यज्य, धृतशुक्लांबरः, अभिषेकवस्त्रं आचार्याय दद्यात्‍ । विभूतिं धृत्वा आ नो भद्रा इति महाशांतिजपपूर्वकं देवतोत्तरपूजने कृते, मार्कण्डेयादीन्‍ प्रार्थयेत । ततः आयुर्वृद्धयै सतिलगुडसंमिश्रं दुग्धं प्राशयेत्‍ । तत्र मंत्रः ‘ सतिलं गुडसंमिश्रं अंजल्यर्धमितं पयः । मार्कंडेयात्‍ वरं लब्ध्वा पिबाम्यायुर्विवृद्धये । ’ इति पिबेत्‍ । ततः कांस्यपात्रे घृतमासिच्य, तत्र ‘ रुपं रुपं ’ इति मंत्रेण आज्यावलोकनं कृत्वा, तत्पात्रं सदक्षिणाकं ब्राह्मणाय दत्त्वा, गो - भू - तिल - हिरण्यादि दशदानानि, कानिचित्‍ प्रत्यक्षाणि, कानिचित्‍ निष्क्रयद्वारा, सर्वाणि वा निष्क्रयरुपेण ब्राह्मणेभ्यो दत्त्वा, तथा शतगुंजापरिमितं सुवर्णं, तन्निष्क्रयं वा विभज्य विभज्य ब्राह्मणेभ्यो दत्त्वा, अशक्तौ शतसर्षपतुलितं वा ततः विसर्जितदेवतापीठदानान्ते तिलदानं च कृत्वा, तत्र मंत्रः ‘ तिलाः कश्यपसंभूतास्तिलाः पापहराः शुभाः । तिलपात्रप्रदानेन अतः शान्तिं प्रयच्छ में ॥ ’ इति । पुत्रादिकैः पुष्पमालावस्त्रादिना यजमानं ( अहेर ) सत्कृत्य पुरंध्रीभिः ( सुवासिनीभिः ) आचारात्‍ यजमानस्य यावन्ति वयोवर्षाणि तावद्भिर्वा नीराजनैः ( दीपैः ) नीराजयित्वा, ब्राह्मणेभ्यो दक्षिणां दत्त्वा, तेभ्यः आशीर्वचनं गृहीत्वा, ब्राह्मणभोजनसंकल्पं कृत्वा, देवानभिवाद्य, कर्म परमेश्वरार्पणं कुर्यात्‍ । द्विराचम्य, त्रिवारं विष्णुस्मरणं कुर्यात्‍ इति ।
॥ इति प्राचीनग्रंथानुसारं नारायणशास्त्री जोशी - विरचिता
॥ ऐन्द्री - शान्तिः समाप्ता ॥
॥ श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP