मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
अथ उग्ररथ शान्तेः प्रयोगदर्शनम् ।

अथ उग्ररथ शान्तेः प्रयोगदर्शनम् ।

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


प्रधानदेवता   :  मार्कंडेयः ।
प्रतिष्ठा - पूजन - हवन - मंत्रः   :  मार्कंडेयमहाभागः ।
हवनीयद्रव्याणि   :  समिध् - आज्य - चरु - दूर्वा - पायसानि ।
हवनसंख्या प्रतिद्रव्यं   :  १००८ वा १०८ वा यथाशक्ति ।
उपदेवता   :  मृत्युंजयः त्र्यंबकः ।
प्रतिष्ठा - पूजन - हवन - मंत्रः   :  त्र्यंबकं यजामहे ।
हवनीयद्रव्याणि   :  दूर्वाः तिलाः च ।
हवनसंख्या ( तिलमिश्रितदूर्वा )   
:  अयुतं, पञ्चसहस्र, सहस्राणि ।
 :  पृथक्‍ ५०० ( प्रत्येकम् ) ।
हवनमंत्रः   :  त्र्यंबकं यजामहे ।
उपदेवता   :  अश्वत्थामादिसप्तचिरंजीवाः ।
हवनीयद्रव्यं   :  लाजाः ।
हवनसंख्या   :  २८ वा ८ वा यथाशक्ति ।
प्रतिष्ठा - पूजन - हवन - मंत्रः   :  नाममंत्रः ।
नक्षत्रदेवता   :  यजामानस्य यद्‍ जन्मनक्षत्रं तद्‍ देवता ।
प्रतिष्ठा - पूजन - हवन - मंत्रः   :  नाममंत्रः ।
हवनीयद्रव्यं   : आज्यम् ।
हवनसंख्या   : २८ वा ८ वा यथाशक्ति ।

सर्वशांतीनां संकल्पस्वरुपं एकमेव । केवलं वयः संख्याभेदः । सर्वासु शान्तिषु हवनसमाप्तौ स्विष्टकृतात् पूर्वं विविधसूक्तानि यजमानाय श्रावयेत् । अनन्तरम् स्विष्टकृतादि - प्रायश्चित्तहोमान्ते बलिदानम् पूर्णाहुतिं संस्रावादिहोमशेषं समाप्य कलशोदकैः यजमानं अभिषिंचेत् । नूतनवस्त्रान्ते विभूतिं धृत्वा देवतां सप्तचिरंजीवांश्च प्रार्थयेत । देवतोत्तरपूजनम्, दुग्धप्राशनम्, आज्यावलोकनम्, पीठदानम्, दशदानम्, शतगुंजासुवर्णदानम्, ब्राह्मणभोजनदक्षिणादानम् इत्यादीनां संकल्पः । यजमानं सत्कृत्य ( अहेर ) नीराजनविधिः, आशीर्वादः । त्रिवारं विष्णुस्मरणेन कर्मसमाप्तिं वाचयेत् इति । अयम् उत्तरांगविधिः सर्वत्र समानः ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP