मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
अथ उग्ररथशान्तेर्मूलवचनानि

अथ उग्ररथशान्तेर्मूलवचनानि

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


॥ अथ उग्ररथशान्तेर्मूलवचनानि ॥
( षष्टितमेवर्षे (६०) प्राप्ते क्रियमाणा । )
अथाह शौनकः - शांतिकमलाकरे

" अथातः संप्रवक्ष्यामि शांतिं चोग्ररथस्य तु ।
ब्रह्मक्षत्रियवैश्यानां शूद्राणां चैव योषिताम् ॥१॥
यदि स्यात्षष्टिवर्षं तु तदा मृत्युर्भवेत् ध्रुवम् ।
दुःस्वप्नानि च जायन्ते मातापित्रोर्मृतिस्तथा ॥२॥
भार्यापुत्रवियोगश्च रोगव्याधिभयं तथा ।
गृहपीडा राजभयं रोगाश्च विविधाश्च ये ॥३॥
दन्तरोगा दृष्टिमान्द्यं छायाया विकृतिस्तथा ।
नक्षत्राणि न दृश्यन्ते ध्रुवादीन्यस्फुटानि च ॥४॥
भूतप्रेतपिशाचाद्या दृश्यन्ते विविधाश्च ये ।
एते चान्ये महोत्पाताः जायन्ते षष्टिवत्सरे ॥५॥
तद्दोषपरिहारार्थं शान्तिं वक्ष्यामि शौनक ।
लोभादनादरो यस्तु शान्तिकर्म न कारयेत् ॥६॥
तस्मिन्‍ वर्षे भवेन्मृत्युः सत्यमेव न संशयः ।
तस्मिन्‍ वर्षे जन्मदिने जन्मर्क्षं वा यदा भवेत् ॥७॥
तस्मिन्‍ दिने तु संप्राप्ते मङ्गलं स्नानमाचरेत् ।
दैवज्ञोक्ते शुभे काले चन्द्रताराबलान्विते ॥८॥
नित्यकर्माणि निर्वर्त्य ब्राह्मणानभिमन्त्र्य च ।
आचार्यं वरयेदादौ वेदवेदाङ्गपारगम् ॥९॥
आचारवन्तं धर्मज्ञं शान्तिकर्मणि कोविदम् ।
कामक्रोधविहीनञ्च रागद्वेषविवर्जितम् ॥१०॥
गणेशं पूजयेदादौ ततः पुण्याहवाचनम् ।
मातृकाः पूजयित्वा तु नान्दीश्राद्धमतः परम् ॥११॥
आचार्यब्रह्मवरणमन्वाधानमतः परम् ।
सर्वौषधीः समानीय पञ्चत्वक्‍ पञ्चपल्लबम् ॥१२॥
पञ्चरत्नं पञ्चगव्यं पञ्चामृतमतः परम् ।
कलशञ्च समानीय ग्रहातिथ्यपुरस्सरम् ॥१३॥
नवग्रहं समाराध्य मार्कण्डेयं प्रधानकम् ।
पलेन वा तदर्धेन तदर्धार्धेन वा पुनः ॥१४॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP