मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
गणेशमन्त्रस्तोत्रम्

गणेशमन्त्रस्तोत्रम्

गणपती स्तोत्र पठण केल्याने ज्ञान, धनप्राप्ती होते शिवाय सर्व इच्छा पूर्ण होतात.
Praying of Ganapati Stotram will help to get knowledge, wealth, get salvation and all wishes fulfilled.


उद्दालक उवाच ।
श्रृणु पुत्र महाभाग योगशान्तिप्रदायकम् ।
येन त्वं सर्वयोगङ्य़ो ब्रह्मभूतो भविष्यसि  ॥१॥
चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामते ।
विक्षिप्तं च तथैकाग्रं निरोधं भूमिसङ्य़कम् ॥२॥
तत्र प्रकाशकर्ताऽसौ चिन्तामणिहृदि स्थितः  ।
साक्षाद्योगेश योगेङ्य़ैर्लभ्यते भूमिनाशनात् ॥३॥
चित्तरूपा स्वयंबुद्धिश्चित्तभ्रान्तिकरी मता ।
सिद्धिर्माया गणेशस्य मायाखेलक उच्यते ॥४॥
अतो गणेशमन्त्रेण गणेशं भज पुत्रक ।
तेन त्वं ब्रह्मभूतस्तं शन्तियोगमवापस्यसि ॥५॥
इत्युक्त्वा गणराजस्य ददौ मन्त्रं तथारुणिः ।
एकाक्षरं स्वपुत्राय ध्यनादिभ्यः सुसंयुतम् ॥६॥
तेन तं साधयति स्म गणेशं सर्वसिद्धिदम् ।
क्रमेण शान्तिमापन्नो योगिवन्द्योऽभवत्ततः ॥७॥
इति मुद्गलपुराणोक्तं गणेशमन्त्रस्तोत्रं समाप्तम् ।

N/A

References :

http://sanskritworld.in/unicode-sanskrit-books/

Last Updated : February 28, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP