चन्द्रालोकः - दशमो मयूखः

‘चंद्रलोक’ कवी जयदेव यांची एक सुमधुर रचना आहे.


धर्मं कंचित्पुरस्कृत्य प्रायः शब्दः प्रवर्तते ।
ययार्थं स्पष्टं आचष्टे शब्दस्तां अभिधां विदुः ॥१॥

जात्या गुणेन क्रियया वस्तुयोगेन संज्ञया ।
निर्देशेन तथा प्राहुः षड्विधां अभिधां बुधाः ॥२॥

गौर्नीलः पाचको दण्डी डित्थः कंस इति क्रमात् ।
कं संहिनस्ति कंसारिर्नरं च कं समाश्रितम् ॥३॥

न योगादेरायतनं न सङ्केतनिकेतनम् ।
वृत्त्या निर्देशशब्दोऽयं मुख्यया स्वाभिधेयया ॥४॥

पीयूषवर्षप्रभवं चन्द्रालोकमनोहरम् ।
सुधानिधानं आसाद्य श्रयध्वं विबुधा मुदम् ॥५॥

जयन्ति याज्ञिकश्रीमन्-महादेवाङ्गजन्मनः ।
सूक्तिपीयूषवर्षस्य जयदेवकवेर्गिरः ॥६॥

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति दशसंख्यः सुखयतु ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP