पूर्वार्धम् - अध्यायः ३१

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


अध्यायः ३१
॥सूत उवाच॥
इत्येषा समनुज्ञाता कथा पापप्रणाशिनी।
या दक्षमधिकृत्येह कथा शर्वादुपागता ॥१॥

पितृवंशप्रसङ्गेन कथा ह्येषा प्रकीर्तिता।
पितॄणामानुपूर्व्येण देवान् वक्ष्याम्यतः परम् ॥२॥

त्रेतायुगमुखे पूर्वमासन् स्वायम्भुवेऽन्तरे ।
देवा यामा इति ख्याताः पूर्वं ये यज्ञसूनवः ॥३॥

अजिता ब्रह्मणः पुत्रा जिता जिदजिताश्च ये।
पुत्राः स्वायम्भुवस्यैते शुक्रनाम्ना मानसाः ॥४॥

तृप्तिमन्तो गणा ह्येते देवानान्तु त्रयः स्मृताः ।
छन्दोगास्तु त्रयस्त्रिंशत्सर्वे स्वायम्भुवस्य ह ॥५॥

यदुर्ययातिर्द्वौ देवौ दीधयः स्रवसो मतिः।
विभासश्च क्रतुश्चैव प्रजातिर्विशतो द्युतिः ॥६॥

वायसो मङ्गलश्चैव यामा द्वादश कीर्तिताः।
अभिमन्युरुग्रदृष्टिः समयोऽथ शुचिश्रवाः।
केवलो विश्वरूपश्च सुपक्षो मधुपस्तथा ॥७॥

तुरीयो निर्हपुश्चैव युक्तो ग्रावाजिनस्तु ते।
यमिनो विश्वदेवाद्यं यविष्ठोऽमृतवानपि ॥८॥

अजिरो विभुर्विभावश्च मृलिकोऽथ दिदेहकः।
श्रुतिश्रृणो बृहच्छुक्रो देवा द्वादश कीर्तिताः ॥९॥

आसन् स्वायम्भुवस्यैते अन्तरे सोमपायिनः।
त्विषिमन्तो गणा ह्येते वीर्यवन्तो महाबलाः ॥१०॥

तेषामिन्द्रः सदा ह्यासीद्विश्वभुक् प्रथमो विभुः।
असुरा येतदा तेषामासन् दायादबान्धवाः ॥११॥

सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः।
अष्टौ ते पितृभिः सार्द्धं नासत्या देवयोनयः ॥१२॥

स्वायम्भुवेऽन्तरेऽतीताः प्रजास्त्वासां सहस्रशः।
प्रभावरूपसम्पन्ना आयुषा च बलेन च ॥१३॥

विस्तरादिह नोच्यन्ते मा प्रसङ्गो भवत्विह।
स्वायम्भुवो निसर्गश्च विज्ञेयः साम्प्रतं मनुः ॥१४॥

अतीते वर्त्तमानेन दृष्टो वैवस्वतेन सः।
प्रजाभिर्देवताभिश्च ऋषिभिः पितृभिः सह ॥१५॥

तेषां सप्तर्षयः पूर्वमासन्ये तान् निबोधत।
भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः ॥१६॥

अत्रिश्चैव वसिष्ठश्च सप्त स्वायम्भुवेऽन्तरे।
अग्नीध्रश्चातिबाहुश्च मेधा मेधातिथिर्वसुः ॥१७॥

ज्योतिष्मान् द्युतिमान् हव्यः सवनः पुत्र एव च॥
मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ॥१८॥

वायुप्रोक्ता महासत्त्वा राजानः प्रथमेऽन्तरे।
सासुरन्तत्सगन्धर्वं सयक्षोरगराक्षसम्।
सपिशाचमनुष्यञ्च सुपर्णाप्सरसाङ्गणम् ॥१९॥

नो शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि।
बहुत्वान्नामधेयानां सङ्ख्या तेषां कुले तथा ॥२०॥

या वै व्रजकुलाख्यास्तु आसन् स्वायम्बुवेऽन्तरे।
कालेन बहुनातीता अयनाब्दयुगक्रमैः ॥२१॥

॥ऋषय ऊचुः॥
क एष भगवान् कालः सर्वभूतापहारकः।
कस्य योनिः किमादिश्च किन्तत्त्वं स किमात्मजः ॥२२॥

किमस्य चक्षुः का मूर्तिः के चास्यावयवाः स्मृताः।
किंनामधेयः कोऽस्यात्मा एतत् प्रब्रूहि पृच्छताम् ॥२३॥

॥सूत उवाच॥
श्रूयतां कालसद्भावः श्रुत्वा चैवावधार्यताम्।
सूर्ययोनिर्निमेषादिः सङ्ख्याचक्षुः स उच्यते ॥२४॥

मूर्त्तिरस्य त्वहोरात्रे निमेषावयवश्च सः।
संवत्सरशतं त्वस्य नाम चास्य कलात्मकम्।
साम्प्रतानागतातीतकालात्मा स प्रजापतिः ॥२५॥

पञ्चानां प्रविभक्तानां कालावस्थां निभोधत।
दिनार्द्धमासमासैस्तु ऋतुभिस्त्वयनैस्तथा ॥२६॥

संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः।
इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः ॥२७॥

वत्सरः पञ्चमस्तेषां कालः स युगसंज्ञितः।
तेषान्तु तत्त्वं वक्ष्यामि कीर्त्त्यमानं निबोधत ॥२८॥

ऋतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः।
आदित्ये यस्त्वसौ सारः कालाग्निः परिवत्सरः ॥२९॥

शुक्लकृष्णा गतिश्चापि अपां सारमयः खगः।
स इडावत्सरः सोमः पुराणे निश्चयो मतः ॥३०॥

यश्चायं तपते लोकांस्तनुभिः सप्तसप्तभिः।
आशुकर्त्ता च लोकस्य सवायुरिति वत्सरः ॥३१॥

अहङ्कारात् रुदन् रुद्रः सद्भूतो ब्रह्मणस्त्रयः।
स रुद्रो वत्सरस्तेषां विजज्ञे नीललोहितः।
तेषां हि तत्त्वं वक्ष्यामि कीर्त्यमानं निबोधत ॥३२॥

अङ्गप्रत्यङ्गसंयोगात् कालात्मा प्रपितामहः।
ऋक्साम यजुषां योनिः पञ्चानां पतिरीश्वरः ॥३३॥

सोऽग्निर्यजुश्च सोमश्च स भूतः स प्रजापतिः।
प्रोक्तः संवत्सरश्चेति सूर्यो योऽग्निर्मनीषिभिः ॥३४॥

यस्मात् कालविभागानां मासर्त्वयनयोरपि।
ग्रहनक्षत्रशीतोष्णवर्षायुःकर्मणां तथा।
योजितः प्रविभागानां दिवसानाञ्च भास्करः ॥३५॥

वैकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः।
एकेनैकोऽथ दिवसो मासोऽथर्तुः पितामहः ॥३६॥

आदित्यः सविता भानुर्जीवनो ब्रह्मसत्कृतः।
प्रभवश्चात्य यश्चैव भूतानां तेन भास्करः ॥३७॥

ताराभिमानी विज्ञेयस्तृतीयः परिवत्सरः।
सोमः सर्वौषधिपतिर्यस्मात्स प्रपितामहः ॥३८॥

आजीवः सर्वभूतानां योगक्षेमकृदीश्वरः।
अवेक्षणाणः सततं बिभर्ति जगदंशुभिः ॥३९॥

तिथीनां पर्वसन्धीनां पूर्णिमादर्शयोरपि।
योनिर्निशाकरो यश्च योऽमृतात्मा प्रजापतिः ॥४०॥

तस्मात् स पितृमान् सोम ऋग्यजुश्छन्दआत्मकः।
प्राणापानसमानाद्यैर्व्यानोदानात्मकैरपि ॥४१॥

कर्मभिः प्राणिनां लोके सर्वचेष्टाप्रवर्त्तकः।
प्राणापानसमानानां वायूनाञ्च प्रवर्त्तकः ॥४२॥

पञ्चानाञ्चेन्द्रियमनोबुद्धिस्मृति जलात्मनाम्।
समानकालकरणः क्रियाः सम्पादयन्निव ॥४३॥

सर्वात्मा सर्वलोकानामावहः प्रवहादिभिः।
विधाता सर्वभूतानां क्षमी नित्यं प्रभञ्जनः ॥४४॥

योनिरग्नेरपां भूमे रवेश्चन्द्रमसश्चयः।
वायुः प्रजापिर्भूतं लोकात्मा प्रपितामहः ॥४५॥

प्रजापति मुखैर्देवैः सम्यगिष्टफलार्थिभिः।
त्रिभिरेव कपालैस्तु अम्बकैरोषधिक्षये।
इज्यते भगवान् यस्मात्तस्मात्र्र्यम्बक उच्यते ॥४६॥

गायत्री चैव त्रिष्टुप् च जगती चैव या स्मृता।
त्र्यम्बका नामतः प्रोक्ता योनयः सवनस्य ताः ॥४७॥

ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः।
त्रिसाधनपुरोडाशस्त्रि कपालः स वै स्मृतः ॥४८॥

इत्येतत्पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः।
यच्चैव पञ्चधात्मा वै प्रोक्तः संवत्सरो द्विजैः।
सैकं षट्कं विजज्ञेऽथ मध्वादीनृतवःकिल ॥४९॥

ऋतुपुत्रार्त्तवः पञ्च इति सर्गः समासतः।
इत्येष पवमानो वै प्राणिनां जीवितानि तु ॥५०॥

नदी वेगसमायुक्तं कालो धावति संहरन्।
अहोरात्रकरस्तस्मात् स वायुरभवत्पुनः ॥५१॥

एते प्रजानां पतयः प्रधानाः सर्वदेहिनाम् ।
पितरः सर्व लोकानां लोकात्मानः प्रकीर्तिताः ॥५२॥

ध्यायतो ब्रह्मणो वक्रादुद्यन् समभवद्भवः।
ऋषिर्विप्रो महादेवो भूतात्मा प्रपितामहः ॥५३॥

ईश्वरः सर्वभूतानां प्रणवायोपपद्यते।
आत्मवेशेन भूतानामङ्गप्रत्यङ्गसम्भवः ॥५४॥

अग्निः संवत्सरः सूर्यश्चन्द्रमा वायुरेव च।
युगाभिमानी कालात्मा नित्यं संक्षेपकृद्विभुः।
उन्मादकोऽनुग्रहकृत्स इद्वत्सर उच्यते ॥५५॥

रुद्राविष्टो भगवता जगत्यस्मिन् स्वतेजसा।
आश्रयाश्रयसंयोगात्तनुभिर्नामभिस्तथा ॥५६॥

ततस्तस्य तु वीर्येण लोकानुग्रहकारकम्।
द्वितीयं भद्रसंयोगं सन्ततस्यैककारकम् ॥५७॥

देवत्वञ्च पितृत्वञ्च कालत्वञ्चास्य यत्परम्।
तस्माद्वै सर्वथा भद्रस्तद्वद्भिरभिपूज्यते ॥५८॥

पतिः पतीनां भगवान् प्रजेशानां प्रजापतिः।
भवनः सर्वभूतानां सर्वेषां नीललोहितः।
ओषधीः प्रतिसन्धत्ते रुद्रः क्षीणाः पुनः पुनः ॥५९॥

इत्येषां यदपत्यं वै न तच्छक्यं प्रमाणतः।
बहुत्वात् परिसङ्ख्यातुं पुत्रपौत्रमनन्तकम् ॥.६०॥

इमं वंशं प्रजेशानां महतां पुण्यकर्मणाम्।
कीर्त्तयन् स्थिरकीर्त्तीनां महतीं सिद्धिमाप्नुयात् ॥६१॥

इति श्रीमहापुराणे वायुप्रोक्ते देववंशवर्णनं नामै कत्रिंशोऽध्यायः ॥३१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:59.8800000