स्मरदीपिका - सूत्र ३

स्मरदीपिका श्री मीनानाथ द्वारा संस्कृत भाषा में रचित एक अद्भुत कामशास्त्रीय काव्य है।


शशकः पद्मिनीं चैव चित्रिणीं च मृगस्तथा ॥५१॥
शङ्खिनीं वृषभश्चैव हस्तिनीं तु हयस्तथा ।
रमते तुल्यभावेन तदा समरतं भवेत् ॥५२॥
उच्चनीचातिनीचं च तथात्युच्चं च वर्जितम् ॥५३॥
ख्यातं समरतं चैव तद्विरहत्यन्यथा स्त्रियः ॥५४॥
इति स्त्रीणां जातिचतुष्टयम्  ।
अथ ध्वजलक्षणप्रकरणम्  ।
मुसलं रङ्गवीरं च द्विविधं ध्वजलक्षणम्  ।
स्थूलं मुसलं इत्याहुर्दीर्घं तद्रङ्गवीरकम् ॥५५॥
नातिह्रस्वं नातिदीर्घं स्थूलं स्थूलान्तिकं वरम्  ।
क्षत्रशीर्षे प्रसन्नं च लिङ्गानि स्युः शुभानि षट् ॥५६॥
अथ भगलक्षणप्रकरणम्  ।
कूर्मपृष्ठा गजस्कन्धा पद्मनाभिसमा तथा ।
अलोमा मृदुविस्तीर्णा षडेते सुभगा भगाः ॥५७॥
शीतलं चोष्णं अत्युष्णं गोजिह्वासदृशं खरम्  ।
इत्युक्तं कामशास्त्रज्ञैर्भगचिह्नचतुष्टयम् ॥५८॥
शीतलं सुखदं प्रोक्तं उष्णं च मध्यमं स्मृतम्  ।
अत्युष्णं असुखं चैव खरं प्राणहरं स्मृतम् ॥५९॥
अथ कामचालनप्रकरणम्  ।
अङ्गुष्ठे चरणे गुल्फे भगे नाभौ कुचे हृदि ।
कक्षे कण्ठेऽधरे नेत्रे कपोले च श्रुतावपि ।
शीर्षे सर्वशरीरे तु वसेत्कामस्तिथिक्रमात् ॥६०॥
सव्ये पुंसः स्त्रियो वामे कृष्णे शुक्ले विपर्ययः ।
ऊर्द्ध्वं प्रतिपदादौ च कृष्णे चाधः प्रचक्षते ॥६१॥
एवं चैव वसेत्कामः स्थाने चैव विशेषतः ।
पादे जङ्घे ऊरुदेशे स्तने कक्षे गले श्रुतौ ॥६२॥
नखक्षतं प्रदातव्यं भगे नाभौ च मर्दनम्  ।
गण्डे नेत्रे ललाटे च चुम्बनं कामुकैरिह ।
हृदये ताडनं हस्ताद्दन्तेनाधरपीडनम् ॥६३॥
आत्मास्येन्दुशरद्विसप्ततिथयः ख्यातं नलिन्या रते पौलस्त्याब्धिरसाष्टभास्करतिथौ प्रीता भवेच्चित्रिणी ।
रुद्रानङ्गगणेशशम्भुतिथयः स्युः शङ्खिनीभुक्तये शेषाः स्युः सुरतोत्सवेषु करिणां जातां स्त्रियः प्रीतये ॥६४॥
अङ्गुष्ठे चरणे च गुल्फनिचये जानुद्वये बास्तिके नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोलेऽधरे ।
नेत्रे कर्णयुगे ललाटफलके धौतं च वामभ्रुवां ऊर्ध्वाधश्चलनक्रमेण तिथयश्चान्द्रीकलापक्षये ॥६५॥
सीमन्ते नयनेऽधरे च गलके कक्षातटे चूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटे पिण्डके ।
गुल्फे पादतले तदङ्गुलितलेऽङ्गुष्ठे च तिष्ठत्यसौ वृद्धक्षीणसमं तदा शशिकलापक्षद्वये योषिताम् ॥६६॥
मौलौ कुन्तलकर्षणं नयनयोराचुम्बनं गण्डयोः दन्तेनाधरपीडनं हृदि हतिं मुष्ट्या च नाभौ शनैः ।
कक्षाकण्ठकपोलमण्डलकुचश्रोणीषु देया नखाः सीमन्ते शिखरं नखैरुरसिजौ गृह्णीत गाढं ततः ॥६७॥
कुर्वाणो विरतिं मनोभवगृहे मातङ्गलीलायितं जान्वङ्गुष्ठपदोरुगुल्फहननं चान्योन्यतः कामिनाम्  ।
इत्येवं गदितं प्रदेशकलनादिन्दोः कलारोपणं कर्तव्यं च नरैस्तु स्त्रीषु रभसादुक्तः प्रबोधाधिकः ॥६८॥
इति कामुकसंघातैः कर्तव्यं कामचालनम्  ।
द्रवत्यनेन कामो हि घृतभाण्डं इवाग्निना ॥६९॥
आलिङ्गनं चुम्बनं च दन्तक्षतनखक्षते ।
मर्दनं नखचाटुश्चाधरपानं कुचग्रहः ॥७०॥
चुम्बनं संप्रहरणं नारीक्षोभणं एव च ।
एतद्बाह्यरतं कुर्यात्कामप्रकटहेतवे ॥७१॥
अधरे गण्डयोर्भाले कपोले गलके हृदि ।
स्तने च कक्षयोर्हस्ते नाभिमूले भगस्थले ॥७२॥
कुक्षौ जघनयोर्मूले हृदयोर्नेत्रयोर्मुखे ।
कट्यां च चुम्बनं दन्तक्षतं नेत्रे तु वर्जितम् ॥७३॥
भगे मर्दनं आपूर्य ततो मैथुनं आचरेत् ।
कृत्वा विवस्त्रां कान्तां तु मेढ्रं तत्र प्रवेशयेत् ॥७४॥
वक्षसा स्तनयुग्मं तु सम्पीड्य बाहुबन्धनम्  ।
अन्योन्यं दृढं आक्रम्य कुर्यादालिङ्गनं स्त्रियः ॥७५॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP