स्मरदीपिका - सूत्र १

स्मरदीपिका श्री मीनानाथ द्वारा संस्कृत भाषा में रचित एक अद्भुत कामशास्त्रीय काव्य है।


अर्द्धं नारीशरीरं हि यश्च तस्मै नमोऽस्तु ते ॥१॥
सम्यगाराधितः कामः सुगन्धिकुसुमादिभिः ।
विदधाति वरस्त्रीणां मानग्रन्थिविमोचनम् ॥२॥
स्मरन्निर्जित्य रुद्रेण पश्चादुद्दीपितः स्मरः ।
तेन तन्नामधेयेन निर्मिता स्मरदीपिका ॥३॥
अनेककामशास्त्राणां सारं आकृष्य यत्नतः ।
बालव्युत्पत्तये स्त्रीणां चित्तसन्तोषणाय च ।
प्रबोधाय वरस्त्रीणां तुष्ट्यै रतिसुखाय च ॥४॥
गर्गेणाभाषितां सम्यग्वक्ष्यामि स्मरदीपिकाम्  ।
यस्य विज्ञानमात्रेण मूर्खोऽपि रतिरङ्गधीः ॥५॥
बालिका तरुणी प्रौढा वृद्धा चेति विशेषतः ।
ज्ञातव्यो ह्यन्वितः कामो ध्रुवं शृङ्गारं इच्छता ॥६॥
कामशास्त्रस्य तत्त्वज्ञा जायन्ते सुन्दरीप्रियाः ।
कामशास्त्रं अजानन्तो रमन्ते पशुवत्स्त्रियम् ॥७॥
नानानिबन्धैः सुरतोपचारैः क्रीडासुखं जन्मफलं नराणाम्  ।
किं सौरभेयीशतमध्यवर्ती वृषोऽपि संभोगसुखं न भुङ्क्ते ॥८॥
स्वनारीरक्षणं पुंसां परनार्यनुरञ्जनम्  ।
बन्धभेदेङ्गितज्ञानं एतत्फलं उदाहृतम् ॥९॥
येन संवत्सरो दृष्टः सकृत्कामः सुसेवितः ।
तेन सर्वं इदं दृष्टं पुनरावर्तितं जगत् ॥१०॥
प्रथमं लक्षणं पुंसां स्त्रीणां च तदनन्तरम्  ।
ध्वजस्य लक्षणं प्रोक्तं भगलक्षणसंयुतम् ॥११॥
कामस्थानानि संलक्ष्य पुनः सम्यक्प्रचालनम्  ।
पुनः षोडश बन्धाश्च तथैवाधोमुखाश्च षट् ॥१२॥
द्वौ बन्धौ सुन्दरीणां च पश्चान्मुखरतं तथा ।
बाह्यं रतं ततः कुर्याद्रतं देशविशेषजम् ॥१३॥
इङ्गितस्य परिज्ञानं दूत्याश्च तदनन्तरम्  ।
तथाष्टनायिकायाश्च मन्त्रौषधिसुतोदयः ॥१४॥
शशो मृगो वृषश्चैव चतुर्थस्तु हयस्तथा ।
कथयामि क्रमात्पुंसां एतज्जातिचतुष्टयम् ॥१५॥
मृदुचपलसुशीलः कोमलाङ्गः सुवेषः सकलगुणनिधानं सत्यवादी शशोऽसौ ॥१६॥
वदति मधुरवाणीं नृत्यगीतानुरक्तः ।
द्विजसुरगुरुभक्तो बन्धुयुक्तो धनाढ्यः ॥१७॥
स्त्रीजितो गायनश्चैव नारीसत्त्वपरः सुखी ।
षडङ्गुलो भवेन्मेढ्रः श्रीमांश्च शशको मतः ॥१८॥
वदति मधुरवाणीं रक्तनेत्रः सुशीलः चलमतिरतिभीरुः शीघ्रगामी मृगोऽसौ ॥१९॥
उदरकटिकृशः स्याद्दीर्घबिम्बाधरौष्ठो दशनवदनदीर्घो दीर्घबाहुः प्रतापी ॥२०॥
अल्पभुग्धार्मिकश्चैव सत्यवादी प्रियंवदः ।
अष्टाङ्गुलो भवेन्मेढ्रो रूपयुक्तो मृगो मतः ॥२१॥
वृषो यथा उदरकटिकृशास्यः शीघ्रगामी नतांसः कनकरुचिरदेहः कष्टवादी वृषोऽसौ ॥२२॥
व्यसनकृपणबुद्धिः स्त्रीवशः स्त्रीविलासो बहुगुणबहुतेजाः दीर्घनेत्रोऽभिमानी ॥२३॥
उपकारपरो नित्यं स्त्रीवशी श्लेष्मलस्तथा ।
लुब्धश्च कृपणश्चैव मिथ्यावादी च निर्भयः ।
दशाङ्गुलशरीरस्तु मेदस्वी वृषभो मतः ॥२४॥
हयो यथा उदरकटिकृशास्यो दीर्घकण्ठाधरोष्ठः ।
दशनवदननेत्रं तस्य दीर्घोऽपि नाभिः ॥२५॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP