स्वच्छन्दभैरवतन्त्र - चतुर्दशः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


श्रीभैरव उवाच
मुद्राणं लक्षणं वक्ष्ये अस्मिंस्तन्त्रे यथास्थितं ।
उत्तानमञ्जलिं कृत्वा कपालं परिकीर्तितं ॥१॥
तिर्यक्कृत्वा करं वामं कनिष्ठाद्यङ्गुलित्रयं ।
अङ्गुष्ठेनाक्रमेद्देवि ऋज्वीं कृत्वा प्रदेशिनीं ॥२॥
पराङ्मुखं करं कृत्वा स्कन्धदेशे निवेशयेथ् ।
खट्वाङ्गं कीर्तितं ह्येतत्खड्गमुद्रां निबोध मे ॥३॥
अङ्गुष्ठेनाक्रमेद्देवि सकनिष्ठामनामिकां ।
मध्यमां तर्जनीं चोर्ध्वं खड्गमुद्रा प्रकीर्तिता ॥४॥
मुष्टिं बद्ध्वा कनिष्ठां च प्रसार्येत वरानने ।
आत्मनः सम्मुखं कृत्वा स्फरस्ते कथितो मया ॥५॥
मुष्टिं बद्ध्वा तु देवेशि तर्जन्यूर्ध्वं तु कुञ्चयेथ् ।
अङ्कुशः कथितो ह्येष पाशमुद्रां निबोध मे ॥६॥
तर्जनीं वर्तुलां कृत्वा मूलेऽङ्गुष्ठस्य योजयेथ् ।
पाशस्तु कथितो ह्येष दुष्टजालनिबन्धकः ॥७॥
मुष्टिं बद्ध्वा वरारोहे सम्प्रसार्य प्रदेशिनीं ।
नाराचस्तु समाख्यातः समासात्तव भैरवि ॥८॥
मुष्टिं बद्ध्वा प्रसार्येत तर्जन्यङ्गुष्ठकं प्रिये ।
अग्रे निकुञ्चयेत्किञ्चित्पिनाकं परिकीर्तितं ॥९॥
अग्रप्रसारितो हस्तः श्लिष्टशाखो वरानने ।
पराङ्मुखं तु तं कृत्वा त्वभयः परिकीर्तितः ॥१०॥
वामं भुजं प्रसार्यैव जानूपरि निवेशयेथ् ।
प्रसृतं दर्शयेद्देवि वरः सर्वार्थसाधकः ॥११॥
घण्टाकारं करं वामं कृत्वा चैव त्वधोमुखं ।
दक्षहस्तस्य तर्जन्या घृषेद्घण्टा प्रकीर्तिता ॥१२॥
कनिष्ठिकां समाक्रामेदङ्गुष्ठेन समाहितः ।
प्रसार्य चाङ्गुलीस्तिस्रस्त्रिशूलं परिकीर्तितं ॥१३॥
दण्डो वै मुष्टिबन्धेन वज्रमुद्रं निबोध मे ।
वामहस्तमधः कृत्वा उत्तानं तु समाहितः ॥१४॥
दक्षं चाधोमुखं कृत्वा त्वङ्गुष्ठं च कनिष्ठिकां ।
उभयोरपि सङ्घृष्य वज्रमुद्रां प्रदर्शयेथ् ॥१५॥
डमरुं मुष्टिबन्धेन दक्षहस्तस्य सुव्रते ।
सुषिरेण समायुक्तं दर्शयेत्तु वरानने ॥१६॥
मुद्गरं तु प्रवक्ष्यामि हस्तौ द्वौ सम्प्रसारयेथ् ।
मुद्गरः कथितो ह्येष वल्लकीं च निबोध मे ॥१७॥
हस्तौ प्रसारयेद्देवि उत्तानौ तु समाहितः ।
अनामे कुञ्चयित्वा तु वीणामुद्रा प्रकीर्तिता ॥१८॥
प्रसारयेदङ्गुलीस्तु कनिष्ठानाममध्यमाः ।
अङ्गुष्ठेनाक्रमेदाद्यां परशुः समुदाहृताः ॥१९॥
एता मुद्रा महादेवि भैरवस्य प्रदर्शयेथ् ।
आवाहने निरोधे च तथा चैव विसर्जने ॥२०॥
कपालं चैव खट्वाङ्गं अनुक्तेषु प्रदर्शयेथ् ।
कपालं धवलं ज्ञेयं खट्वाङ्गं च तथैव हि ॥२१॥
त्रिशूलं चैव नाराचं खड्गो नीलोत्पलप्रभः ।
स्फरं रक्तं पिनाकं च कृष्णं सम्परिकीर्तितं ॥२२॥
घण्टा हेमप्रभा ज्ञेयाङ्कुशो मरकतप्रभः ।
पाशो भिन्नाञ्जननिभः स्फटिकाभोऽभयः स्मृतः ॥२३॥
वरश्चित्तप्रसादेन ध्यातव्यो वरवर्णिनि ।
डमरुं हेमसङ्काशं वीणां चैतत्समप्रभां ॥२४॥
दण्डं रक्तं विजानीयाद्वज्रं पीतं विचिन्तयेथ् ।
राजावर्तनिभो देवि मुद्गरः परशुस्तथा ॥२५॥
मुद्रापीठं समाख्यातं चतुर्वर्गफलोदयं ।
प्रणवासनमारूढा ओंकाराद्या वरानने ॥२६॥
स्वनामकृतविन्यासा नमस्कारावसानिकाः ।
साधयन्ति महादेवि फलानि विविधानि तु ॥२७॥
निर्विघ्नकरणं ख्यातं मुद्राणां लक्षणं प्रिये ।
वेदितव्यं प्रयत्नेन साधितव्यं महात्मना ॥२८॥

इति स्वच्छन्दतन्त्रे चतुर्दशः पटलः

N/A

References : N/A
Last Updated : June 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP