अधिकरणम् ७ - अध्यायः १

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


व्याख्यातं च कामसूत्रम् ॥१॥

तत्रोक्तेस्तु विधिभिरभिप्रेतं अर्थं अनःअधिगच्छनौपनिषदिकं आचरेत् ॥२॥

रूपं गुणो वयस्त्याग इति सुभगंकरणम् ॥३॥

तगरकुष्ठतालीसपत्त्रकानुलेपनं सुभगंकरणम् ॥४॥

एतैरेव सुःपिष्टैर्वर्तिं आलिप्याक्षतैलेन नरकपाले साधितं अञ्जनं च ॥५॥

पुनर्नवासहदेवीसारिवाकुरण्टोत्पलपत्त्रैश्च सिद्धं तैलं अभ्यञ्जनम् ॥६॥

तद्युक्ता एव स्रजश्च ॥७॥

पद्मोत्पलनागकेसराणां शोषितानां चूर्णं मधुघृताभ्यां अवलिह्य सुभगो भवति ॥८॥

तान्येव नगरतालीसतमालपत्त्रयुक्तान्यनुलिप्य ॥९॥

मयूरस्याक्षि तरक्षोर्वा सुवर्णेनावलिप्य दक्षिणहस्तेन धारयेद् ॥१०॥

इति सुभगंकरणम्((१८४)) ॥१०॥

तथा बादरमणिं शङ्खमणिं च तथैव तेषु चाथर्वणान्योगान्गमयेत् ॥११॥

विद्यातन्त्राच्च विद्यायोगात्प्राप्तयौवनां परिचारिकां स्वामी संवत्सरमात्रं अन्यतो वारयेत् । ततो वातितां बालां वामत्वाल्लालसीःभूतेषु गम्येषु योऽस्यै संघर्षेण बहु दद्यात्तस्मै विसृजेदिति सौभाग्यवर्धनम् ॥१२॥

गणिका प्राप्तयौवनां स्वां दुहितरं तस्या विज्ञानशीलरूपानुरूप्येण तानभिनिमन्त्र्य सारेण योऽस्या इदं इदं च दद्यात्स पाणिं गृह्णीयादिति संभाष्य रक्षयेदिति ॥१३॥

सा च मातुरःविदिता नाम नागरिकपुत्रैर्धनिभिरत्यःअर्थं प्रीयेत ॥१४॥

तेषां कलाग्रहणे गन्धर्वशालायां भीक्षुकीभवने तत्र तत्र च संदर्शनयोगाः ॥१५॥

तेषां यथोक्तदायिनां माता पाणिं ग्राहयेत् ॥१६॥

तावदर्थं अःलभमाना तु स्वेनाप्येकदेशेन दुहित्र एतद्दत्तं अनेनेति ख्यापयेत् ॥१७॥

ऊढाया वा कन्याभावं विमोचयेत् ॥१८॥

प्रच्छन्नं वा तैः संयोज्य स्वयं अःजानती भूत्वा ततो विदितेष्वेतं धर्मस्थेषु((१८५)) निवेदयेत् ॥१९॥

सख्यैव तु दास्या वा मोचितकन्याभावां सुःगृहीतकामसूत्रां आभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते वयसि सौभाग्ये च दुहितरं अवसृजन्ति गणिका इति प्राच्योपचाराः ॥२०॥

पाणिग्रहश्च संवत्सरं अःव्यभिचार्यस्ततो यथा कामिनी स्यात् ॥२१॥

ऊर्ध्वं अपि संवत्सरात्परिणीतेन निमन्त्र्यमाणा लाभं अप्युत्सृज्य तां रात्रिं तस्यागच्छेत् ॥२२॥

इति वेश्यायाः पाणिग्रहणविधिः सौभाग्यवर्धनं च ॥२२॥

एतेन रङ्गोपजीविनां कन्या व्याख्याताः ॥२३॥

तस्मै तु तां दद्युर्य एषां तूर्ये विशिष्टं उपकुर्यात् ॥२४॥

५९इति सुःभगंकरणम्((१८६)) ।

(प्रकरण)६०

धत्तूरकमरिचपिप्पलीचूर्णैर्मधुमिश्रैर्लिप्तलिङ्गस्य सम्प्रयोगो वशीकरणम् ॥२५॥

वातोद्भान्तपत्त्रं मृतकनिर्माल्यं मयूरास्थिचूर्णावचूर्णं वशीकरणम् ॥२६॥

स्वयं मृताया मण्डलकारिकायाश्चूर्णं मधुसंयुक्तं सहामलकैः स्नानं वशीकरणम् ॥२७॥

वज्रस्नुहीगण्डकानि खण्डशः कृतानि मनःशिलागन्धपाषाणचूर्णेनाभ्यज्य सप्तकृत्वः शोषितानि चूर्णयित्वा मधुना लिप्तलिङ्गस्य संप्रयोगो वशीकरणम् ॥२८॥

एतेनैव रात्रौ धूमं कृत्वा तद्धूमतिरसःकृतं सौवर्णं चन्द्रमसं दर्शयति ॥२९॥

एतैरेव चूर्णितैर्वानरपुरीषमिश्रितैर्यां कन्यां अवकिरेत्शान्यस्मै न दीयते ॥३०॥

वचागण्डकानि सहकारतैललिप्तानि शिशपावृक्षस्कन्धं उत्कीर्य षण्मासं निदध्यात्ततः षड्भिर्मासैरपनीतानि देवकान्तं अनुलेपनं वशीकरणं चेत्याचक्षते ॥३१॥

तथा खदिरसारजानि शकलानि तनूनि यं वृक्षं उत्कीर्य षण्मासं निदध्यात्तत्पुष्पगन्धानि भवन्ति गन्धर्वकान्तं अनुलेपनं वशीकरणं चेत्याचक्षते ॥३२॥

प्रियङ्गवस्तगरमिश्राः सहकारतैलदिग्धा नागवृक्षं उत्कीर्य षण्मासं निहिता नागकान्तं अनुलेपनं वशीकरणं इत्याचक्षते ॥३४॥
उष्ट्रास्थि भृगराजरसेन भावितं दग्धं अञ्जनं नलिकायां निहितं उष्ट्रास्थिशलाकयैव स्नातोऽञ्जनसहितं पुण्यं चक्षुष्यं वशीकरणं चेत्याचक्षते ॥३३॥

एतेन श्येनभासमयूरास्थिमयान्यञ्जनानि व्याख्यातानि((१८७)) ॥३५॥

(प्रकरण)६१

उच्चटाकन्दश्चव्या यष्ठीमधुकं च सःशर्करेण पयसा पीत्वा वृषीभवति ॥३६॥

मेषवस्तमुष्कसिद्धस्य पयसः सःस्शर्करस्य पानं वृषत्वयोगः ॥३७॥

तथा विदार्याः क्षीरिकायाः स्वयंगुप्तायाश्च क्षीरेण पानम् ॥३८॥

तथा प्रियालबीजानां मोरटाविदार्योश्च क्षीरेणैव ॥३९॥

शृङ्गाटककसेरुकामधूलिकानि क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्दाग्निनोत्करिकां पक्त्वा यावदर्थं भक्षितवाननःअन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ॥४०॥

माषकमलिनीं पयसा धौतां उष्णेन घृतेन मृदुकृत्योद्धृतां वृद्धवत्सायाः गोः पयःसिद्धं पायसं मधुसर्पिर्भ्यां अशित्वानःअन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ॥४१॥

विदारी स्वयंगुप्ता शर्करा मधुसर्पिर्भ्यां गोधूमचूर्णेन पोलिकां कृत्वा यावदर्थं भक्षितवाननःअन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ॥४२॥

चटकाण्डरसभावितैस्तण्डुलैः पायसं सिद्धं मधुसर्पिर्भ्यां प्लावितं यावदर्थं इति समानं पूर्वेण ॥४३॥

चाटकाण्डरसभावितानपगतत्वचस्तिलाञ् शृगाटककसेरुकस्वयंगुप्ताफलानि गोधूममाषचूर्णैः सःशर्करेण पयसा सर्पिषा च पक्वं संयावं यावदर्थं प्राशितवानिति समानं पूर्वेण ॥४४॥

सर्पिषो मधुनः शर्कराया मधुकस्य च द्वे द्वे पले मधुरसायाः कर्षः प्रस्थं पयस इति षडङ्गं अःमृतं मेध्यं वृष्यं आयुष्यं युक्तरसं इत्याचार्याः प्रचक्षते ॥४५॥

शतावरीश्वदंष्ट्रागुडकषाये पिप्पलीमधुकल्के गोक्षीरच्छागघृते पक्वे तस्य पुष्यारम्भेणान्वःअहं प्राशनं मेध्यं वृष्यं आयुष्यं युक्तरसं इत्याचार्याः प्रचक्षते ॥४६॥

शतावर्याः श्वदंष्ट्रायाः श्रीपर्णीफलानां च क्षुण्णानां चतुर्गुणितजलेन पाक आ प्रकृत्यवस्थानात्तस्य पुष्यारम्भेण प्रातः प्राशनं मेध्यं वृष्यं आयुष्यं युक्तरसं इत्याचार्याः प्रचक्षते ॥४७॥

श्वदंष्त्राचूर्णसमन्वितं तत्समं एव यवचूर्णं प्रातरुत्थाय द्विपलकं अनुःदिनं प्राश्नीयान्मेध्यं वृष्यं युक्तरसं इत्याचार्याः प्रचक्षते ॥४८॥

वायुर्वेदाच्च वेदाच्च विद्यात्तन्त्रेभ्य एव च । आप्तेभ्यश्चावबोद्धव्या योगा ये प्रीतिकारकाः ॥४९॥

व्न प्रयुञ्जीत संदिग्धान्न शरीरात्ययावहान् । न जीवघातसंबद्धान्नाःशुचिद्रव्यसंयुतान् ॥५०॥

व्तपोयुक्तः प्रयुञ्जीत शिष्टैरनुगतान्विधीन् । ब्राह्मणैश्च सुहृद्भिश्च मङ्गलैरभिनन्दितान्((१८८)) ॥५१॥

इति श्रीवात्स्यायनीये कामसूत्रे औपनिषदिके सप्तमेऽधिकरणे सुभगंकरणं वशीकरणं वृष्ययोगाः प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP