रसप्रकाशसुधाकर - अध्याय १३

आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.


-वीर्यस्तम्भकरी वटी-
श्रीवासमस्तकीनाग केसरं च लवंगकम् ।
कंकोलं तुलसीबीजं खुरासान्यहीफेनकम् ॥१॥
जावित्रिकाब्धिशोषं च करभागुरुकुंकुमम् ।
कङ्कोलकतुगाक्षीरी जातीफलसमांशकान् ॥२॥
सर्वाण्येवं विचूर्ण्याथ नालिकेरोदरे क्षिपेत् ।
दुग्धमध्ये विपाच्यैनं दिनान्येवं हि पञ्च च ॥३॥
नालिकेरफलाद्ग्राह्यं मर्दयेन्मधुना सह ।
गुटिका कोलमात्रा हि भक्षणीया निशामुखे ॥४॥
वीर्यस्तंभं करोत्युग्रं चतुर्यामावधिं तथा ॥५॥
-शुक्रस्तम्भकरी वटी-
लवंगं शुद्धकर्पूरं जातीपत्रं फलं तथा ।
कुङ्कुमं स्वर्णबीजं च धूर्तपर्णं प्रसूनकम् ॥६॥
मूलं त्वक्चाब्धिशोषस्य सर्वाण्येकत्र मर्दयेत् ।
गोदुग्धे शोधनीयं च भागमेकं प्रकल्पयेत् ॥७॥
भृङ्गीपत्त्रभवं चूर्णं भागैकं स्वर्णगैरिकम् ।
भावनां पोस्ततोयेन एकविंशतिसंख्यया ॥८॥
कारयेन्मतिमान्वैद्य शुक्रस्तंभकरीं वटीम् ॥९॥
-रेतस्तम्भकरी वटी-
जातीफलार्ककरहाटलवङ्गशुण्ठीकङ्कोलकेशरकणाहरिचन्दनानि एतै समानमहिफेनमनेन चाभ्रं श्वेतं निधाय मधुना वटकान्विदध्यात् ।
माषद्वयोन्मितममुं निशि भक्षयित्वा मृष्टं पयस्तदनु माहिषमाशु पीत्वा कुर्वन्तु कामुकजना प्रतिरुद्धपाताश्चेतांसि तानि चकितानि कलावतीनाम् ॥१०॥
-वीर्यस्तम्भकरी लेपवटी-
स्कन्धदेशाच्च संजातं वीर्यं दर्दुरसंभवम् ।
घनसारेण संयुक्तं करहाटस्य चूर्णकम् ॥११॥
संमर्द्य कारयेच्चूर्णं वटीं मुद्गप्रमाणकाम् ।
संघर्ष्य मुखतोयेन लिंगलेपं प्रकारयेत् ॥१२॥
यामार्धं धारयेद्बिन्दुं सत्यं गुरुवचो यथा ॥१३॥
-शुक्रस्तम्भकचूर्णम्-
पोस्तकं पलमेकं वै शुंठीकर्ष सिता पलैका च ।
कर्षमिता त्वक्पयसा पीतं रेतो ध्रुवं धत्ते ॥१४॥
श्रीगङ्गाधरभक्तिसक्तमनसो विद्याविनोदाम्बुधे श्रीगोडान्वयपद्मनाभसुधियस्तस्यात्मजेनाप्ययम् ।
सद्वैद्येन यशोधरेण कविना विद्वज्जनानन्दकृद्ग्रन्थोऽयं ग्रथित करोतु सततं सौख्यं सतां मानसे ॥१५॥
देशानां सुरराष्ट्रं उत्तमतमं तत्रापि जीर्णाभिध प्राकारोऽस्ति स वेदशास्त्रनिरतैर्विप्रैश्च संशोभित ।
तस्मिन्शंभुपदारविन्दरतिकृच्छ्रीपद्मनाभ स्वयं तत्पुत्रेण यशोधरेण कविना ग्रंथ स्वयं निर्मित ॥१६॥
संबोधाय सतां सुखाय सरुजां शिष्यार्थसंसिद्धये वैद्यानामुपजीवनाय विदुषां उद्वेगनाशाय वै ।
श्रीमद्दुर्गपुरातनेऽतिनिपुण श्रीपद्मनाभात्मज श्रीमद्भट्टयशोधर कविवरो ग्रन्थ स्वयं निर्ममे ॥१७॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP