संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|उत्तरभागः|
अध्यायः ४९

उत्तरभागः - अध्यायः ४९

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे.


ऋषय ऊचुः ॥
अघोरेशस्य महात्म्यं भवता कथितं पुरा ॥
पूजां प्रतिष्ठां देवस्य भगवन्वक्तुमर्हसि ॥१॥

सूत उवाच ॥
अघोरेणांग युक्तेन विधिवच्च विशेषतः ॥
प्रतिष्ठालिंगविधिना नान्यता मुनिपुंगवाः ॥२॥

तथाग्निपूजां वै कुर्याद्यथा पूजा तथैव च ॥
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥३॥

तिलैर्होमः प्रकर्तव्यो दधिमध्वाज्यसंयुतैः ॥
घृतसक्तुमदूनां च सर्वदुःखप्रमार्जनम् ॥४॥

व्याधीनां नाशनं चैव तिलहोमस्तु भूतिदः ॥
सहस्रेण महाभूतिः शतेन व्याधिनाशनम् ॥५॥

सर्वदुःखविनिर्मुक्तो जपेन च न संशयः ॥
अष्टोत्तरशतेनैव त्रिकाले च यथाविधि ॥६॥

अष्टोत्तरसहस्रेण षण्मासाज्जायते ध्रुवम् ॥
सिद्धयो नैव संदेहो राज्यमंडालिनामपि ॥७॥

सहस्रेण ज्वरो याति क्षीरेण च जुहोति यम् ॥
त्रिकालं मासमेकं तु सहस्रं जुहुयात्पयः ॥८॥

मासेन सिद्ध्यते तस्य महासौभाग्यमुत्तमम् ॥
सिद्ध्यते चाब्दहोमेन क्षौद्राज्यदधिसंयुतम् ॥९॥

यवक्षीराज्यहोमेन जातितंडुलकेन वा ॥
प्रीयेत भगवानीशो ह्यघोरः परमेश्वरः ॥१०॥

दध्ना पुष्टिर्नृपाणां च क्षीरहोमेन शांतिकम् ॥
षण्मासं तु घृतं हुत्वा सर्वव्याधिविनाशनम् ॥११॥

राजयक्ष्मा तिलैर्होमान्नश्यते वत्सरेण तु ॥
यवहोमेन चायुष्यं घृतेन च जयस्तदा ॥१२॥

सर्वकुष्ठक्षयार्थं च मधुनाक्तैश्च तंडुलैः ॥
जुहुयादयुतं नित्यं षण्मासान्नियतः सदा ॥१३॥

आज्यंक्षीरं मधुश्चैव मधुरत्रयमुच्यते ॥
समस्तं तुष्यते तस्य नाशयेद्वै भगंदरम् ॥१४॥

केवलं घृतहोमेन सर्वरोगक्षयः स्मृतः ॥
सर्वव्याधि हरं ध्यानं स्थापनं विधिनार्चनम् ॥१५॥

एवं संक्षेपतः प्रोक्तमघोरस्य महात्मनः ॥
प्रतिष्ठा यजनं सर्वं नंदिना कथितं पुरा ॥१६॥

ब्रह्मपुत्राय शिष्याय तेन व्यासाय सुव्रताः ॥१७॥

श्रीलींगमहापुराणे उत्तरभागे एकोनपंचाशत्तमोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP