जातकपारिजात - ग्रहनामस्वरूपगुणभेदाध्शाशः

दैवज्ञश्रीवैद्यानाथरचित जातक पारिजात या संस्कृत ग्रंथात सूर्य फल, नवग्रह फल, योग पिहित, भाव विचार, विषाख्य कन्या, राज्ययोग, आयुर्बल, व्यत्ययविचार, अरिष्टादि योग आणि सर्व प्रकारचे अरिष्ट नाश होणारे उपाय वर्णन केले आहेत.


तत्रादौ सूर्यादीनां कालात्मत्वादिनिरूपणम् ।

कालस्यात्मा भास्कतश्चित्तमिन्दुः सत्वं भौमः स्याद्वचश्चन्द्रसूनुः ।
देवाचार्यः सौख्यविङ्य़ानसारः कामः शुक्रे दुखभेवार्कसूनुः ॥१॥

अथ र्व्यादीनां राजत्वादिनिरूपणं

दिनेशचन्द्रौ राजानौ सचिवौ जीवभार्गवौ ।
कुमारे वित् कुजो नेता प्रेष्यस्तपननन्दनः ॥२॥

अथ सूर्यदीनां नामान्तराणि ।

द्देलिः सूर्यस्तपनदिनकृद्भानुपूषारुणार्काः
सोमः शीतद्युतिरुडुपतिग्लैर्मृगाङ्केन्दुचन्द्राः ।
आरो वक्रक्षितिजरुधिराङ्गारक्कूरनेत्राः
सौम्यस्तारातनयबुधविद्वोधनाश्चेन्दुपुत्रः ॥३॥

मन्त्री वाचस्पतिगुरुसुराचार्यदेवेज्यजीवाः
शुक्रः काव्यः सितभृगुसुताच्छास्फुजिद्दानवेज्याः ।
छायासूनुस्तरणितनयः कोणशन्यर्किमन्दाः
राहुः सर्पासुरफणितमः सैहिकेयागवश्च ॥४॥

ध्वजः शिखी केतुरिति प्रसिद्धा वदन्ति तज्ङ्य़ा गुलिकश्च मान्दिः ॥४ १/२॥

अथरव्यादीनामुपग्रहाः ।

उप्रग्रहा भानुसुखग्ररांशाः कालादयः कष्टफलप्रदाः सुयः ॥५॥
क्रमशः कालपरिधिधूमार्द्धप्रहराह्वयाः ।
यमकण्टककोदण्डमान्दिपातोपकेतवः ॥६॥


अथ रव्यदीनां स्वरूपम् ।

भानुः शामललोहितद्युतितनुश्चन्द्रः सिताङ्गो युवा
दूर्वाश्यमलकान्तिरिन्दुतनयः, संरक्तगौरः कुजः ।
मन्त्री गौरकलेवरःः, केतुर्विचित्रद्युति ॥७॥

अथ ग्रहाणां शुभाशुभत्वानिरूपणम् ।

प्रकाशकौ शीतकरप्रभाकरौ, ताराग्रहाः पङ्च धरासुतादयः ।
तमः स्वरूपौ शिखिसिंहिकासुतौ, शुभाः शशिङ्य़ामरवन्द्यभार्गवाः ॥८॥

क्षीणेन्दुमन्दरविराद्दुशिखिक्षमाजाः पापास्तु पापयुतचन्द्रसुतश्च पापः ।
तेयामतीच शुभदौ गुरुदानवेज्यौ, क्रूरौ दिवाकरसुतक्षितिजौ भवेताम् ॥९॥

शुक्लादिरात्रिदशकेऽहनि मध्यवीर्यशाली द्वितीयदशकेऽतिशुभप्रदोऽसौ ।
चन्द्रस्तृटीयदशके बलवर्जितस्तु सौम्येक्षणादिसहितो यदि शोभनः स्यात् ॥१०॥

अथ रव्यादिनामुदयप्रकारः ।

रव्यारराहुमन्दाश्च पृष्टेनोद्यन्ति सर्वदा ।
शरिसा शुक्रचन्द्रङ्य़ा जीवस्तूभयतो व्रजेत् ॥११॥

अथ रव्यादीनामाकारविशेषाः ।

दिवाकरङ्य़ौ विहगस्वरूपौ सरीसृपाकारयुतः शशाङ्कः ।
पुरन्दरार्चायसितौ द्विपादौ चतुष्पदौ भानुसुतक्षमाजौ ॥१२॥

अथ रव्यादीनां सङ्चारदेशाः ।

जलाशयु चन्द्रसुरारिवन्द्यौ बुधालयग्नामचरौ गुरुङ्य़ौ ।
कुजाहिमन्दध्वजवासरेशा भवन्ति शैलाटविसङ्चरन्तः ॥१३॥

अथ रव्यादीनां बाल्यादिवयोनिरूपणम् ।

बालो धराजः कुमारकस्त्रिंशद्गुरुः षोडशवत्सरः सितः ।
पङ्चाशदर्को विधुरब्दसप्ततिः शताब्दसङ्ख्याः शनिराहुकेतवः ॥१४॥

अथ ग्रहाणां शास्त्राधिपत्यनिरूपणं धातुमूलासिसंङ्य़ाश्च ।

शाखाधिपा जीवसितारबोधना धानुस्वरूपद्युचरौ कुजारुणौ ।
मूलप्रधानौ तुहिनाकरार्कजौ जीवौ सितार्थौ तु विमिश्र इन्दुजः ॥१५॥

अथ ग्रहाणामवस्थेयत्ता ।

दीप्तः प्रमुदितः स्वस्थः शान्तः शक्तः प्रपीडितः ।
दीनः खलस्तु विकलो भीतोऽवस्था दश क्रमात् ॥१६॥

अथ स्थानविशेषादवस्थाविशेषाः ।

स्वोच्चत्रिकोणोपगतः प्रदीप्तः स्वस्थः स्वहेगे मुदितः सुहृद्भे ।
शान्तस्तु सौम्यग्रहवर्गयातः शक्तोऽतिशुद्दः स्फुटरश्मिजालैः ॥१७॥

ग्रहाभिभूतस्त्वतिपीडितः स्यादरातिराश्यंशगतोऽतिदीनः ।
खलस्तु पापग्रहवर्गयोगान्नी वेऽतिभीतो विकलोऽस्तयातः ॥१८॥

अथ ग्रहणां वर्णविशेषाः ।

वर्णास्ताम्रसितारक्तहरितापीतकर्बुराः ।
कृष्णकान्तिरिनादीणां नष्टादौ च प्रकीर्तिताः ॥१९॥

अथ रव्यादीनां द्रव्याणि अधिदेवताश्च ।

द्रव्याणि ताम्रमणिकाङ्चनशुक्तिरौष्यमुक्तान्ययश्च दिननाथमुखग्र्हाणाम् ।
वह्निअम्बुषण्मुखहरीन्द्रशचीविरङ्चिमुख्या दिवाकरमुखादधिदेवताः स्युः ॥२०॥

अथ रव्यादीनां रत्नानि ।

माणिक्यं दिननायकस्य, विमलं मुक्ताफलं शीतगोः
माहेयस्य च विद्रुमं मरकटं सौम्यस्य गारुत्मकम् ।
देवेज्यस्य च पुष्परागमसुराचार्यस्य गारुत्मकम्
नीलं निर्मलमन्ययोश्च गदिते गोमेदवैडूर्यके ॥२१॥

अथ ग्रहाणां वस्त्रादिनिरूपणम् ।

स्यूलाम्बरं नृतनचारुचेलं कृशानुतोयाहतम्ध्यमानि ।
दृढांशुकं जीर्णमिनादिकानां वस्त्राणि सर्वे मुनयो वदन्ति ॥२२॥

प्रागादिका भानुसितारराहुमन्देन्दुविद्देवपुगोहिताः स्युः ।
शुक्रारचन्द्रङ्य़ौरेज्यमन्दा वसन्तमुख्यर्त्वधिपा दृगाणैः ॥२३॥

देवतोयतटवह्निविहाराः कोशगेदृशयनोत्करदेशाः ।
भानुपूर्वनिलयाः परिकल्प्या वेश्मकोणनिलयावहिकेनू ॥२४॥

अथ पर्देशविभाग इनाहीनाम् ।

लङ्कादीकृष्णासरिदन्तमारः सितस्ततो गौतभिकान्तभूमिः ।
विन्ध्यान्तमार्यः सुरनिग्नगान्तं बुधः शनिः स्यात्तुहिनाचकान्तः ॥२५॥

अथ ग्रहाणां जातयो गुणाश्च ।

विप्रौ जीबसितौ दिनेशरुधिरौ भूपालकौ वैश्यराड्
इन्दुः शूद्रकुलाधिपः शशिसुतो मन्दोऽवराणां पतिः ।
आदित्यामरमन्त्रिशीतकिरणाः सत्त्वप्रधानग्रहाः
शुक्रङ्य़ौ सरजोगुणौ शनिधरापुत्रौ तमःस्वामिनौ ॥२६॥

अथ ग्रहाणां नरादिसंङ्य़ा महाभूताधिपत्यश्च ।

नराकारा भानुक्षितिजगुरवः शुक्रशशिनौ
वधूरूपौ षण्ढप्रकृतिपुरुषौ मन्दशशिजौ ।
वियत्क्षोणीतेजपवनपयसामेव पतयः
सुराचार्यङ्य़ारधुमणिसुतदेवारिसचिवाः ॥२७॥

अथ ग्रहाणां कक्षाक्रम ।

कक्षायां क्रमओ दिनेशतयाज्ज्योतिर्भचक्राश्रिताः
छायासुनुगुरुक्षमाजदिनकृच्छुकेन्दुपुत्रेन्दवः ॥२७ १/२॥

अथ सुर्यादीनां धतुविशेषादि ।

भज्जास्नायुवसाऽस्थिशुक्ररुधिरत्वग्धातुनाथा क्रमाद् ।
आरार्किज्यदिनेशशुक्रशशभृत्तारासुताः कीर्तिताः ॥२८॥

लवणकटुकपायस्वादुतिक्ताम्लमिश्राः शशिरविशनिजीवारासुरेज्यङ्य़नाथाः ।
अयनदिवसपक्षर्त्वब्दमासक्षणेशा रविकुजसितसौम्या मन्दजीवेन्दवश्च ॥२९॥

अथ रव्यादीनां स्थानविशेषे दृष्टयः ॥

पादेक्षणं भवति सोदरमानराश्योरर्धं त्रिकोणयुगलेऽखिलखेचराणाम् ।
पादोनदृष्तिनचयश्चतुरस्त्रयुग्मे सम्पूर्णदृग्बलम्नङ्गगृहे वदन्ति ॥३०॥

अथ रव्यादीनां दृष्टिविशेषे बलित्वम् ।

शनिरतिबलशाली पाददृग्वीर्ययोगे सुरकुलपतिमन्त्री कोणदृष्टौ सुभः स्यात् ।
त्रितयचरणदृष्टया भूकुमारः समर्थः सकलगगनवाआः सप्तमे दृग्बलाढ्याः ॥३१॥

अथ ग्रहाणामृध्वार्दिदृष्टयः ।

अथोर्वदृष्टी दिननाथभौमौ दृष्टिः कटाक्षेण कवीन्दुसून्वोः ।
शशाङ्कगुर्वोः गमभागदृष्टिरधोऽक्षिपानस्त्यदिनाथशन्योः ॥३२॥

अथ ग्रहाणां स्थानबलम् ।

स्वोच्चत्रिकोणस्वसुहृद्दृगाणराश्यंशवैशेषिकवर्गवन्तः ।
आरोहवीर्याधिकविन्दुकास्ते खेचारिणः स्थानबलाधिकाः स्युः ॥३३॥

नीचारिपापस्वगयोगनिरीक्ष्यमाणास्तद्वर्गसन्धिलघुबिन्दुदुरंशकाश्च ।
आदित्यरश्मिपरिभूतपराजितास्ते दृष्टयादिशक्त्यसहिताश्च न शोभनाः स्युः ॥३४॥

अथ ग्रहाणां दिग्बलम् ।

विलग्नपातालबधूनभोगा बुधामरेज्यौ भृगुसूनुचन्द्रौ ।
मन्दो धरासूनुदिवाकरौ चेत् क्रमेण ते दिग्बलशालिनः स्युः ॥३५॥

अथ कालबलम् ।

निशीन्दुमन्दावनिजाः परेऽहनि स्वकीयहोरासममासवासराः ।
सितादिपक्षद्वयगाः शुभाशुभा बुधः सदा कालजवीर्यशालिनः ॥३६॥

अथ चेष्टाबलम् ।

जैत्रा व्क्रसमागमोपगसितङ्य़ारामरेज्यासिताः,
दिव्याशायनगेन्दुतिग्मकिरणौ चेष्टाबलांशाधिकाः ॥३६ १/२॥

अथ ग्रहानां निसर्गबलम् ।

सौम्यक्षेपयुता महीसुतभुस्वा(खा)श्चेष्टाबलाढ्याः क्रमान्
नैसर्गस्य बलाधिकाः शनिकुजङ्य़ाचार्यशुक्रेन्द्वनाः ॥३७॥

क्रमेण दृक्स्थाननिसर्गचेष्टादिक्कालवीर्याणि च षड्बलानि ।
सुधाकरेष्विन्दुशरेन्दुशैलभेदानि तानि प्रवदन्ति सन्तः ॥३८॥

स्वरूपषष्ट्यंशविषष्टिकांशा मृगादिवीर्योपगषड्बलाढ्याः ।
क्रमेण तद्योगभवं बलं हि पूर्ण त्रिपदं दलं वा ॥३९॥

अथ बलप्रमाणम् ।

अर्धाधिकं षट्कमिनस्य सूरेः शुक्रस्य पङ्चाधिकमर्धरूपम् ।
सप्तेन्दुपुत्रस्य बलं षडिन्दोः सौरारयोः सायकरूपसंख्या ॥४०॥

अथ ग्रहाणां तात्कालिक-मैत्रीविनारः ।

अन्योन्यतः सोदरलाभमानपातालवित्तव्ययराशिसंस्थाः ।
तत्कालमित्राणि स्वगा भवन्ति तदन्ययाता यदि शत्रवस्ते ॥४१॥

अथ सूर्यादीनां नैसर्गिकाः शत्रुमित्रोदासीनाः ।

मित्राणि भानोः कुजचन्द्रजीवाः शत्रू सितार्की शशिजः समानः ।
चन्द्रस्य मित्रे दिननायकङ्य़े समा गुरुक्ष्माजसितासिताः स्युः ॥४२॥

आरस्य मित्राणि रवीन्दुजीवाश्चान्द्री रिपुः शुक्रशनी समानौ ।
सूर्यासुरेज्यौ बुधस्य समाः शनीज्यावनिजास्त्वरीण्दुः ॥४३॥

सूर्यारचन्द्राः सुहृदस्तु सूरेः शत्रू सितङ्य़ौ रविजः समानः ।
मित्रे शनिङ्य़ौ भृगुन्दनस्येन्द्वनावरी जीवकुजौ समानौ ॥४४॥

मन्दस्य सूर्येन्दुकुजाश्च शत्रवः समः सुरेज्यः सुहृदौ सितेन्दुजौ ॥१/२॥

अथ सूर्यादिभ्यः फलविशेषचिन्ता ।

सूर्यादात्मपितृप्रभावनिरुजाशक्तिश्रियश्चिन्तयेत्
चेतोबुद्धिनृपप्रसादजननीसम्पत्करश्चन्द्रमाः ।
सत्त्वं रोगगुणानुजावनिसुतङ्य़ातीर्धरासूनुना
विद्याबन्धुविवेकमातुलसुहृत्त्वक्कर्मकृद्धोधनः ॥४९॥

प्र्ङ्य़ानित्यशरीरपुष्टितनयङ्य़ानानि वागीश्वरात्
पत्नीवाहनभूषणनि मदनव्यऽपारसौम्ख्यं भृगोः ।
आयुर्जीवनमृत्युकारणविपत्सम्पत्प्रदाता शनिः
सर्पेणैव पितामहं तु शिखिना मातामहं चिन्तयेत् ॥५०॥

अथ ग्रहाणां भावकारकत्वम् ।

द्युमणिरमरम्न्त्री भूसुतः सोमसौम्यौ गुरुरिनतनयारौ भार्गवो भानुपुत्रः ।
दिनकरदिविजेज्यौ जीवभानुङ्य़मन्दाः सुरगुरुरिनसूनुः कारकाः स्युर्विलग्नात् ॥५१॥

अथ ग्रहाणां स्थाननविशेषे शुभाशुभप्रदता ।

कामावनीनन्दनराशियाताः सितेन्दुपुत्रामरवन्द्यमानाः ।
अरिष्ट्दास्तेऽखिलजातकेषु सदाऽष्टमस्थः शनिरिष्टदः स्यात् ॥५२॥

अथ सूर्यादीनां स्वरूपाणि ।

प्रतापशाली चतुरस्रदेहः श्यामारुणाङ्गो मधुपिङ्गलाक्षः ।
पित्तात्मकः स्वल्पकचाभिरामो देवाकरः सत्त्वगुणप्रधानः ॥५३॥

सङ्जारशीलो मृदुवाग्विवेकी शुभेक्षणश्चारुतरस्थिराङ्गः ।
सदैव धीमांस्थनुवृत्तकायः कफानिलात्मा च सुधाकरः स्यात् ॥५४॥

क्रूरेक्षणस्तरूणमूर्त्तिरुदारशीलः पित्तात्मकः सुचपलः कृशमध्यदेशः ।
संरक्तगौररुचिरावयवः प्रतापी कामी तमोगुणरतस्तु धराकुमारः ॥५५॥

दूर्वादलद्युतितनुः स्फुटवाक् कृशाङ्गः स्वामी रजोगुणवतामतिहास्यलोलः ।
हानिप्रियो विपुलपित्तकफानिलात्मा सद्यः प्रतापविभवः शशिजश्च विद्वान् ॥५६॥

बृहदुदरशरीरः पीतवर्णः कफात्मा सकलगुणसमेतः सर्वशास्त्राधिकारी ।
कपिलरुचिकचाक्षः सात्त्विकोऽतिव धीमान् अलधुनृपतिचिह्नः श्रीधरो देवमन्त्री ॥५७॥

असितकुटिलकेशः श्यामसौन्दर्यशाली समततरुचिराङ्गः सौम्यदृक् कामशीलः ।
अतिपवनकफात्मा राजसः श्रीनिधानः सुखबलसुगुणानामाकरश्चासुरेज्यः ॥५८॥

काठीन्यरोमावयवः कृशात्मा दूर्वासिताङ्गः कफमारुतात्मा ।
पीनद्विजश्चारुपिशङ्गदृष्टिः सौरिस्तमो बुद्धिरतोऽलसः स्यात् ॥५९॥

इतरयोगे ग्रहाणां वृद्धिमत्ता ।

अर्केण मन्दः, शनिना महिसुतः, कुजेन जीवो गुरुणा निशाकरः ।
सोमेन शुक्रोऽसुरमन्त्रिणा बुधो बुधेन चन्द्रः खलु वर्द्धते सदा ॥६०॥

अथ ग्रहाणां स्थानबलविशेषः ।

स्वोच्चस्वकीयभवनस्वदृगाणद्दोरावारांशकोदगयनेषु दिन्स्य मध्ये ।
राशिप्रवेशसमये सुहृदंशकादौ मेषूरणे दिनमणिर्बलवानजस्रम् ॥६१॥

चन्द्रः कर्किणि गोपतौ निजदिनद्रेक्काणहोरांशके
राश्यन्ते शुभवीक्षणे निशि सुखे याम्यायने वीर्यवान् ।
इन्दुः सर्वकलाधरो यदि बली सर्वत्र सन्धि विना
सर्वव्योमचरेक्षितस्तु कुरुते भूपालयोगं नृणाम् ॥६२॥

आरः स्ववारनवभागदृगाणवर्गे मीनालिकन्भमृगसुन्बुरुयामिनीषु ।
वक्रे च याम्यदिशे राशिमुखे बलाढ्यो मीने कुलिरभवने च ददाति ॥६३॥

अन्यानृयुग्मभवने निजवारवर्गे चापे विना रविमहुर्निशमिन्दुसूनुः ।
सौम्यायने च बलवानपि राशिमध्ये लग्ने सदा यदि यशोबलवृद्धिदः स्यात् ॥६४॥

मीनालिचापकटके निजवर्गवारे मध्यन्दिनोदगयने यदि राशिमध्ये ।
कुम्भे च नीचभवनेऽपि बली सुरेज्यो लग्ने सुखे च दशमे बहुवित्तदः स्यात् ॥६५॥

स्वोच्चस्ववर्गदिवसे यदि राशिमध्ये शत्रुव्ययानुजगृहे हिबुकेऽपराह्ण ।
युद्धे च शीतकरसङ्गमवक्रचारे शुकोऽरुणस्य पुरतो यदि शोभनः स्यात् ॥६६॥

मन्दस्तुलामकरकुम्भगृहे कलत्रे याम्यायने निजदृगाणदिने दशायाम् ।
अन्ते गृहस्य समरे कृष्णपक्षे वक्रः समस्तभवनेषु बलाधिकः स्यात् ॥६७॥

मेषालिकुम्भतरुणिवृषकर्कटेषु मेषूरणे च बलवानुरगाधिपः यात् ।
कन्यावसानवृषचापधरे निशायामुत्पातकेतुजनने च शिखी बली स्यात् ॥६८॥

प्रोक्तप्रकारप्रबलान्विता ये मूलं विबला भवन्ति ।
भावेषु योगेषु दशाकलषु न सम्यगुक्तानि फलानि सन्ति ॥६९॥

अथ ग्रहाणामधिमुखत्वादि ।

अधोमुखा दिनेशस्य पूर्वषट्कस्थिता ग्रहाः ।
अपरार्द्धस्थिताः भानोरूर्ध्वास्याः सुखवित्तदाः ॥७०॥

भानामवस्थानगताः क्रमेण मदार्यभौमार्किसितङ्य़चन्द्राः ।
तेषामधःस्थानगतो बलीयान् राहुर्भहीमण्डलमूर्धि संस्थः ॥७१॥

स्थानविशेषे स्थितिक्रमविशेषे च ग्रहाणां विफलता ।
सभानुरिन्धुः शशिजश्चतुर्थे गुरुः सुते भूमिसुतः कुतुम्बे ।
भृगुः सपत्ने रविजः कलत्रे विलग्नतस्ते विफला भवन्ति ॥७२॥

अथ दोषापहरणम् ।

राहुदोषम्बुधो हन्यादुभयोस्तु शनैश्चरः ।
त्रयाणां भूमिजो हन्ति चतुर्णा दानवार्चितः ॥७३॥

पङ्चानां देवमन्त्री च षण्णां दोषं तु चन्द्रमाः ।
सप्तदोषं रविर्हन्याद्विशेषादुत्तरायणे ॥७४॥

अथ ग्रहाणां पीडाकरणप्रकारः ।

सदाऽग्निरोगज्वरवृद्धिदीपनक्षयातिसागदिकरोगसङ्कुलम् ।
नृपालदेवावनिदेवकिङ्करैः करोति चित्तव्यसनं देवाकरः ॥७५॥

पाण्डुदोषजलदोषकामलापीनसादिरमणीकृतामयैः ।
कालिकासुरसुवासिनीगणैराकुलं च कुरुते तु चन्द्रमाः ॥७६॥

पीनबीजकफशास्त्रपावकग्रन्थिरुग्व्रणदरिद्रजामयैः ।
वीरशैवगणभैरवादिभिर्भीतिमाशु कुरुते धरासुतः ॥७७॥

गुह्योदरादृश्यसमीरकुष्ठमन्दाग्निशूलग्रहणीरुगाद्यैः ।
बुधादिविष्णुप्रियदासभूतैरतीव दुःखं शशिजः करोति ॥७८॥

आचार्यदेवगुरुभूसुरशापदोषैः शोकं च गुल्मरुजमिन्द्रगुरुः करोति ।
अन्ताविकारजनिमेहरुजा सुराद्यैः स्वेष्टाङ्गनाजनकृतैर्भयमासुरेज्यः ॥७९॥

दारिद्यदोषनिजकर्मपिशाचचौरेः क्लेशं करोति रविजः सह सन्धिरोगैः ।
कण्डूमसूरिरोपुकृत्रिमकर्मरोगैः स्वाचारहीनलघुजातिगणैश्च केतुः ॥८०॥

करोत्यपस्मारमसूरिरज्जूक्षुद्दृक्कृमिप्रेतपिशाचभूतैः ।
उद्वन्घनेनारुचिकुष्ठरोगैर्विधुन्तुदश्चातिभयं नराणाम् ॥४१॥

अथ राशौ ग्रहफलपरिपाककालः ।

आद्यन्तमध्यभवनोपगता नभोगाश्चादित्यभूमितनयौ शनिशीतरश्मी ।
जीवासुरेन्द्रसचिवौ फलदाःक्रमेण तारासुतः सकलकालफलप्रदः स्यात् ॥४२॥

अथ धातुजरोगे धातुनाथोपासना ।

यद्धातुकोपजनिताखिलरोगशान्त्यै तन्नाथमाशु उपतर्पणहोमदानैः ।
सम्पूज्य रोगभयशोकविमुक्तचित्ताः सर्वे नराः सुखयशोबलशालिनः स्युः ॥४३॥

अथ ग्रहाणां बाल्याद्यवस्थानिरूपणम् ।

बालः कुमारोऽथ युवा च वृद्धो मृतश्च राशावयुजि क्रमेण ।
त्रिंशल्जवैर्ष्यत्ययतः समे स्युरेकैकशोऽशाः पुनरेव कार्याः ॥८४॥

अथ जाग्रदाद्यावस्थाः ।

उच्चांशे स्वनवांशे च जागरूकं वदन्ति हि ।
सुहृन्नवांशकं स्वप्नं सुप्तं नाचारिभांशकम् ॥८५॥

अथ ग्रहाणां फलदानकालः ।

शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् ।
पृष्ठोदयस्थः पाकान्ते सदा चोभयराशिगः ॥८६॥

समस्तहोराफलसारसान्द्रविराजिते जातकपारिजाते ।
ग्रहक्रियारूपगुणप्रभेदः सङ्कीर्र्तितः खेटकृपाकटाक्षात् ॥८७॥

इति नवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते
ग्रहनामस्वरूपगुणमेदाध्यायः ॥२॥

N/A

References : N/A
Last Updated : December 12, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP