पूर्वखण्डः - अध्याय ३७

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


सूर्य विना रात्रिपतेर्व्ययस्थो
यदा ग्रहः स्याद्बहवोऽथवा स्युः ।
स्यातामथ द्वौ त्वनफाख्ययोग
उत्पद्यते रूपगुणप्रमाणः ॥१॥
भौमे व्ययस्थे शशिनः प्रचण्डो
भवेन्मनुष्यः परवित्तहारी ।
परेषमतिपुष्तकायः
सौर्यान्वितः प्राणधरो गुरुश्च ॥२॥
चन्द्रस्य सौम्ये व्ययगे प्रसन्नो
विद्याधिकः शास्त्रपरः सदैव ।
विभुः प्रतापी प्रमदानुकुलः
प्रभूतमित्रः प्रणतारिपक्षः ॥३॥
चन्द्रस्य जीवे व्ययगे विनितो
नरो भवेद्धर्मपरः कृतज्ञः ।
प्रभावयुक्तो ललनास्वभीष्टः
सुरूपकायो नृपवल्लभश्च ॥४॥
शुक्रे व्ययस्थे शशिनो निरीहो
गुणप्रधानः प्रणयेन हृष्तः ।
भवेन्मनुष्यः सुरतानुकुलः
प्रियंवदः कामविशारदश्च ॥५॥
करोति चन्द्राद्व्ययगोऽर्कपुत्रो
नरं नितान्तं प्र्कटस्वभावम् ।
स्थूलं प्रभूताभरणैः समेतं
जितारिपक्षं क्षमयान्वितं च ॥६॥
व्ययस्थितौ रात्रिपतेर्ज्ञभौमौ
नरं प्रसूते प्रणतं सुरूपम् ।
विद्वेषहीनं सुतखिन्नयुक्तं
नयानुरक्तं प्रियसङ्गमं च ॥७॥
जीवावनेयौ कुरुते मनुष्यं
व्ययस्थितो रात्रिपतेः प्रगल्भम् ।
सुवाजिसारं जितशत्रुसंघं
नतं गुरूणां सततं विधिज्ञम् ॥८॥
सौरावनेयौ दधतो मनुष्यं
व्ययाश्रितौ नै नृपतेः क्षतारिम् ।
प्रभूतकोशं सुतसत्ययुक्तं
विनीतवेषाभरणं सदैव ॥९॥
चन्द्राद्व्ययस्थौ यदि जीवससौम्यौ
नरं दधाते प्रथितं नृलोके ।
दयाधिकं शास्त्रकथानुरक्तं
ससंमतं साधुजनस्य नित्यम् ॥१०॥
चन्द्राद्व्ययस्थौ यदि शुक्रसौम्यौ
नरं दधाते प्रियविप्रकृत्यम् ।
स्वदाररक्तं नृपमानभाजं
जितेन्द्रियं शौचपरं सुविज्ञम् ॥११॥
चन्द्राद्व्ययस्थौ यदि सौरसौम्यौ
नरं प्रसूते प्रभुतासमेतम् ।
प्रभूतमित्रं प्रथिताभिमान्
गुणाधिकं देवगुरुर्प्रभक्तम् ॥१२॥
चन्द्राद्व्ययस्थौ यदिजीवशुक्रौ
नरं प्रसूतेऽद्भुतरूपगात्रम् ।
कृतानुरक्तं पितृमातृभकतं
शास्त्रप्रियं प्राणभृतं वरिष्ठम् ॥१३॥
चन्द्राद्व्ययस्थौ यदि जीवसौरौ
रनं दधाते सुतवित्ततुष्टम् ।
गुणानुरक्तं नृपकार्यदक्षं
विनीतवाक्यं रणकोविदं च ॥१४॥
चन्द्राद्व्ययस्थौ यदि  शुक्रसौरौ
नरं प्रसूते स्थिरतासमेतम् ।
प्रभूतदारं गतरोगवित्तं
महाव्ययं शास्त्रपरं सदैव ॥१५॥
जीवारसौम्या व्ययगा यदा स्यु
श्चन्द्रस्य कुर्युः प्रणतं मनुष्यम् ।
नृपप्रियं सर्वकुलप्रधानं
प्रजधिकं कीर्तिसमन्वितं च ॥१६॥
शुक्रारसौम्या व्ययगा यदा स्युः
कुर्युर्नरं सत्यपरं दयालुम् ।
हस्त्यश्चयानासन्भोजनाढ्यं
विहीनशत्रुं गुणसङ्गहं च ॥१७॥
सौरारसौम्या व्ययगा यदा स्यु
श्चन्द्रस्य कुर्युर्दृढतासमेतम् ।
नरं प्रशस्तं नितरां प्रग्ल्भं
ख्यातं प्रियं बान्धववल्लभं च ॥१८॥
शुक्रारजीवा व्ययगा यदा स्यु
श्चन्द्रस्य कुर्यर्व्रतिनं मनुष्यम् ।
मातापितृभ्यां प्रणतं च शूरं
नीरोगधं  नृपतेरभीष्टम् ॥१९॥
सौरारजीवा व्ययगा यदा स्यु
चन्द्रय कुर्युः कृपया समेतम् ।
नरं सतां प्रीतिकरं विधिज्ञं
प्रभूतसस्यं द्रविणं सुसत्यम् ॥२०॥
सौरारशुक्रा व्ययगा यदा स्यु
श्चन्द्रस्य कुर्युः सुभगं मनुष्यम् ।
यज्ञानुरक्तं हयवाहनज्ञं
प्रभूतकीर्तिं सुतरां सुरूपम् ॥२१॥
शुक्रज्ञजीवा व्ययगा यदा स्यु
श्चन्द्रस्य कुर्युः सुतलालसं च ।
नरं सदा दानपरं हयाढ्यं
प्रियातिथिं सर्वसमं सुसत्यम् ॥२२॥
सौरज्ञजीवा व्ययगा यदा स्यु
श्चन्द्रस्य कुर्युः प्रवरं मनुष्यम् ।
रोगैर्विहीनं शुभचक्षुःश्रोत्रं
नानायुधानां प्रविचक्षणं च ॥२३॥
सौरज्ञशुक्रा व्ययगा यदा स्यु
श्चन्द्रस्य कुर्युर्विनयप्रधानम् ।
नरेन्द्रयानं विविधान्नपानं
भोगान्वितं सर्वकलासु दक्षम् ॥२४॥
सुरेज्यशुक्रार्कसुता व्ययस्थाः
कुर्युर्नरं भूरिधनं विनीतम् ।
श्रियान्वितं प्राणपरं सलज्जं
जितेन्द्रियं विप्रपरं नयज्ञम् ॥२५॥
सुरेज्यशुक्रज्ञकुजा व्ययय्स्था
श्चन्द्रस्य कुर्युर्बहुवाहनाढ्यम् ।
नरं प्रसन्नं विनयप्रधानं
सुसंमतं सर्वकलासु दक्षम् ॥२६॥
सुरेज्यसौरज्ञकुजा व्यय्स्थाः
कुर्युर्नरं पुण्यप्रं क्षतारिम् ।
नृपप्रसादेन सुतुष्टचिन्तं
वुख्यातक्र्माणमलोलुपं च ॥२७॥
सुरेज्यशुक्रारदिनेशपुत्रा ॥
व्ययस्थिता रात्रिपतेर्यदा स्युः ।
कुर्युस्तदा भूरिसुतं मनुष्यं
विद्याधिकं रोगविवर्जितं च ॥२८॥
शुक्रारसौम्यार्कसुता व्ययस्थाः
कुर्युः शशाङ्कस्य सतामभीष्तम् ।
नरं प्रचण्डं प्रभुतासमेतं
गजाश्चवस्त्राभरणैः समेतम् ॥२९॥
शुक्रज्ञजीवार्कसुता व्ययस्था
श्चन्द्रस्य कुर्युर्व्यसनैर्विमुक्तम् ।
नरं प्रसूते प्रियवाक्यदक्षं
विदग्धनारीसहितं सदैव ॥३०॥
सुरेज्यशुक्रज्ञशनैश्चरारा
श्चन्द्राद्व्ययस्थाः सततं च कुर्युः ।
प्रभूतभावं हतशत्रुदर्पं
नरं नितान्तं जनसंमतं च ॥३१॥
इति श्रीवृद्धयवनेऽनफायोगाध्यायः ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP