पूर्वखण्डः - अध्याय २८

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


तुङ्गश्रितो वासरपः सुतस्थः
सुतान् विधत्तेऽल्पतरान् नृशंसान् ।
तुङ्गांशकस्यः सकलार्थसिद्धिम्
षड्वर्गशुद्धः सुभगं मनोज्ञम् ॥१॥
निचाश्रयथो दिनपः सुतस्थः
सुतान् प्रसूते च हि जातनष्टान् ।
नीचांशकस्थो विकलाङ्गभागान्
पापस्य वर्गे त्वथ गभिनष्टान् ॥२॥
मित्राश्रयस्थो यदि तीक्ष्णरश्मिः
सुतान् प्रसूते पुरतः सुताव्रान् ।
मित्रांशकस्थस्तु सुशीलवृत्तान्
वर्गोत्तमस्थो व्यसनाधिकांश्च ॥३॥
सुताश्रितः शत्रुगृहे दिनेशः
सुतान् विधत्ते परदेशजातान् ।
शत्रोर्विभागे त्वथ जारजातान्
मूलत्रिकोणे गुणवर्जितांश्च ॥४॥
सुताश्रितः शितकरः
कन्याः प्रसूते विपुलायताक्ष्याः ।
तुङ्गांशकस्थस्तु सुरूपयुक्ताः
षड्वर्गशुद्धः सुभगा मनोज्ञाः ॥५॥
नीचाश्रितो रात्रिपतिः
कन्याः प्रसूते च सुरूपयुक्ताः ।
नीचांशकस्थश्च कुबुद्धियुक्ता
गतायुषाश्चैव हि पीतलाश्च ॥६॥
मित्राश्रयस्थः सुतगश्च चन्द्रः
कन्याः प्रसूते शुभशीलयुक्ताः ।
मित्रांशके शौचपराः सुदान्ता
वर्गोत्तमे भर्तृपराः सदैव ॥७॥
शत्र्वास्त्रयस्थः सुतगस्तु चन्द्रः
कन्या प्रसूतेऽतिखलस्वभावाः ।
शत्रोर्विभागे तु सुकुत्सिताङ्गा
मूलत्रिकोणे नितरां प्रगल्भाः ॥८॥
भौमः सुतस्थस्तनयान् विधत्ते
स्वतुङ्गसंस्थोऽल्पसुजिवितांश्च ।
तुङ्गस्य भागे बहुरोगभाजान्
षड्वर्गशुद्धः क्षतजार्द्रदेहान् ॥९॥
नीचाश्रितो भूतनयः सुतस्थः
सुतान् विधत्ते परदाररक्तान् ।
अदीर्घजीवांश्च तदंशकस्थः
पापस्य वर्गे बहुपापरक्तान् ॥१०॥
मित्राश्रयस्थः क्षितिजः सुतस्थः
सुतान् विधत्ते कृपणस्वभावान् ।
मित्रांशकस्थः कुविधिप्रसक्तान्
वर्गोत्तमस्थो विजितारिपक्षान् ॥११॥
शत्र्वाश्रयस्थः सुतगो महीजः
करोति पुत्रान् व्रणरु॥
तदंशकस्थः सततं  कुचैलान्
मूलत्रिकोणे परतर्ककांश्च ॥१२॥
बुधः स्वतुङ्गे यदि पंचमस्थः
सुतान् विधत्ते सुभगान् मनोज्ञान् ।
उच्चांशके वा विनयेन युक्तन्
षड्वर्गशुद्धो विनयेन हीनान् ॥१३॥
नीचाश्रितः सोमसुतः सुतस्थः
सुतान् विधत्ते बहुदुःखयुक्तान् ।
नीचांशकस्थ कन्यकां च
पापस्य वर्गे विकृतान् नृशंसान् ॥१४॥
मित्राश्रयस्थो यदि पंचमस्थः
करोति सौम्यो निरुजान् सुपुत्रान् ।
मित्रांशकस्थो बहुशास्त्ररक्तान्
वर्गोत्तमस्थो नयसारदक्षान् ॥१५॥
शत्र्वाश्रयस्था यदि सोमपुत्रः
सुतान् विधत्ते बहुबन्धुपक्षान् ।
तदंशकस्थः पिशुनस्वभावान्
मूलत्रिकोणे गुरुदेवभक्तान् ॥१६॥
नीजः स्वतुञ्ग यदि पंचमस्थः
पुत्रान् विधत्ते बहुजीवभाजान् ।
तदंशकस्थः सुभगान् भनोज्ञान्
षड्वर्गशुद्धः प्रियदर्शनाश्च ॥१७॥
नीचाश्रयस्थः खलु पंचमस्थो
जीवो विधत्ते तनयान् सुदुःखान् ।
तस्यैव भागे वृजिनैः समेतान्
पॉअस्य वर्गे गतसौहृदाम्श्च ॥१८॥
मित्राश्रयस्यः सुतगः सुरेज्यः
सुतान् विधत्ते पतितान् सुरक्तान् ।
द्यूतप्रियान् तस्य विभागसंस्थो
मूलत्रिकोणेऽद्भुतविक्रमांश्च ॥१९॥
२०॥
शुक्रः सुतस्थो निजतुङ्गसंस्थः
कन्याः प्रऊते सुभगा मनोज्ञाः ।
तुङ्गांशकस्थो बहुपुत्रयुक्ताः
षड्वर्गशुद्धः शुभरूपयुक्ताः ॥२१॥
नीचाश्रितो दैत्यगुरुः सुतस्थः
कन्या प्रसूते विविधाः सुरूपः ।
नीचांशकस्थः परर्कचिन्ताः
पापसुअ वर्गे कृपणस्वभावाः ॥२२॥
मित्राश्रयस्थो भृगुजः सुतस्थः
सुता प्रसूते पतिभक्तियुक्ताः ।
मित्रांशके वा वतसत्ययुक्ता
वर्गोत्तमस्थः प्रभया समेताः ॥२३॥
शत्र्वाश्रयस्थो भृगुजः सुतस्थः
सुताः सुवाते बहुपापयुक्ताः ।
तदंशके नष्टसुखाः कृतघ्ना
मूलत्रिकोणे हतशत्रपक्षाः ॥२४॥
शनैश्चरः पंचमगः स्वतुङ्गे
पुत्रान् प्रसूते बहुशत्रुपक्षान् ।
तदंशके वा बहुयोगयुक्तान्
षड्वर्गशुद्धः सुतरां कृतघ्नान् ॥२५॥
नीचाश्रितः सूर्यसुतः सुतस्यः
सुतान् विधत्ते च स्वभावन।आन् ।
तदंशके वा ग
पापस्य वर्गे बहुरोगभाजान् ॥२६॥
मित्राश्रयस्थो रविजः सुतस्थः
पुत्रान् विधत्ते कृषिकर्मसक्तान् ।
तदंशके वा पशपालनोत्थान्
वर्गोत्तमस्थो बहुलोकपांश्च ॥२७॥
शत्र्वाश्रयस्थो रविजः प्रसूते
सुतस्थितः कापुरुषांश्च पुत्रान् ।
तदंशके भूततमानतीव
मूलत्रिकोणे बहुपानभाजान् ॥२८॥
यदि भवति सुतर्क्षं युग्ममेवाबलानां
विषममथ नराणां प्रायशोजन्मदं स्यात् ।
युवतिपुरुषषण्ढा दृष्टितुल्या ग्रहेन्द्रा
बलमितपरिपाकं सन्ततेर्धारयन्ति ॥२९॥
क्लीबोपमे पंचमगे तथाभे
षण्ढग्रहाः षण्ढनरं प्रसूते ।
षण्टाश्रितो स्यात् पुरुषः प्रशस्तः
ंअहीनो यदि वाबलाश्च ॥३०॥
इति श्रीवृद्धयवने सुतस्थानचिन्ता ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP