सुभाषितावलि - सुभाषित १ - ५०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०००१-१ तां भवानीं भवानीतक्लेशनाशविशारदां  ।
०००१-२ शारदां शारदां भोदसितंसिहासनां नुमः  ॥
०००२-१ अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक् ।
०००२-२ प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति  ॥
०००३-१ दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये  ।
०००३-२ स्वानुभूत्येकमानाय नमः शान्ताय तेजसे  ॥
०००४-१ जगत्सिसृक्षाप्रलयक्रियाविधौ
०००४-२ प्रयत्नमुन्मेषनिमेषविभ्रमं  ।
०००४-३ वदन्ति यस्येक्षणलोलपक्ष्मणां
०००४-४ पराय तस्मै परमेष्ठिने नमः  ॥
०००५-१ नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे  ।
०००५-२ विष्णवेपारसंसारपारोत्तरणसेतवे  ॥
०००६-१ सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये  ।
०००६-२ नमस्त्रिभुवनेशाय हरये सिंहरूपिणे  ॥
०००७-१ नमस्तस्मै वराहाय हेलयोद्धरते महीं  ।
०००७-२ खुरमध्यगतो यस्य मेरुः खुरखुरायते  ॥
०००८-१ नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे  ।
०००८-२ त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे  ॥
०००९-१ अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि  ।
०००९-२ सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः  ॥
००१०-१ नितम्बालसगामिन्यः पीनोन्नतपयोधराः  ।
००१०-२ मन्मथाय नमस्तस्मै यस्यायतनमङ्गनाः  ॥
००११-१ अनन्तमामधेयाय सर्वाकरविधायिने  ।
००११-२ समस्तमन्त्रवाच्याय विश्वैकपतये नमः  ॥
००१२-१ ॐ नमः परमार्थैकरूपाय परमात्मने  ।
००१२-२ स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे  ॥
००१३-१ कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकं  ।
००१३-२ नमोधितिष्ठतेनन्तनालं कमलविष्टरं  ॥
००१४-१ कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकं  ।
००१४-२ भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः  ॥
००१५-१ नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने  ।
००१५-२ त्रिगुणाष्टगुणानन्तगुणन्निर्गुणमूर्तये  ॥
००१६-१ नमः शिवाय निःशेषक्लेशप्रशमशालिने  ।
००१६-२ त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने  ॥
००१७-१ समस्तलक्षणायोग एव यस्योपलक्षणं  ।
००१७-२ तस्मै नमोस्तु देवाय कस्मैचिदपि शंभवे  ॥
००१८-१ संसारैकनिमित्ताय संसारैकविरोधिने  ।
००१८-२ नमः संसाररूपाय निःसंसाराय शंभवे  ॥
००१९-१ यथा तथापि यः पूज्यो यत्र तत्रापि योर्चितः  ।
००१९-२ योपि वा सोपि वा योसौ देवस्तस्मै नमोस्तु ते  ॥
००२०-१ सदसत्त्वेन भावानां युक्ता या द्वितयी स्थितिः  ।
००२०-२ तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शंभवे  ॥
००२१-१ नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये  ।
००२१-२ अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये  ॥
००२२-१ आसन्नाय सुदूराय गुप्ताय प्रकटात्मने  ।
००२२-२ सुलभायातिदुर्गाय नमश्चित्राय शंभवे  ॥
००२३-१ चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे  ।
००२३-२ दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः  ॥
००२४-१ विष्णुर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोथवा
००२४-२ भानुर्वा शशलक्षणोथ भगवान्बुद्धोथ सिद्धोथवा  ।
००२४-३ रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो
००२४-४ यः सर्वैः सह संस्कृतो गुणगुणैस्तस्मै नमः सर्वदा  ॥
००२५-१ श्लोकोयं स्वामिदत्तस्य तत्स्मृत्यै काव्यलक्षितः  ।
००२५-२ योकरोत्कविनामाङ्कं चक्रपाणिययाभिधं  ॥
००२६-१ भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य  ।
००२६-२ ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै  ॥
००२७-१ कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं
००२७-२ नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणं  ।
००२७-३ सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं
००२७-४ बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः  ॥
००२८-१ अविरताम्बुजसंगतिसंगलद्बहलकेसरसंवलितेव वः  ।
००२८-२ ललितवस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोवतात् ॥
००२९-१ लक्ष्मीकपोलसंक्रान्तकान्तपत्त्रलतोज्ज्वलाः  ।
००२९-२ दोर्द्रुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः  ॥
००३०-१ पातु वो मेदिनीदोला बलेन्दुद्युतितस्करी  ।
००३०-२ दंष्ट्रा महावराहस्य पातलगृहदीपका  ॥
००३१-१ मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः  ।
००३१-२ मम रतिममरतिरस्कृतिशमनपुरः स क्रियात्कृष्णः  ॥
००३२-१ स पातु वो यस्य हतावशेषास्
००३२-२ तत्तुल्यवर्णाञ्जनरञ्जितेषु  ।
००३२-३ वालण्ययुक्तेष्वपि वित्रसन्ति
००३२-४ दैत्याः स्वकान्तानयनोत्पलेषु  ॥
००३३-१ चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितं  ।
००३३-२ अव्याद्वो बालवेषस्य विष्णोर्गोपतनोर्वपुः  ॥
००३४-१ गोवर्धनोद्धरणहृष्टसमस्तगोप-
००३४-२ नानास्तुतिश्रवणलज्जितमानसस्य  ।
००३४-३ स्मृत्वा वराहवपुरिन्दुकलाप्रकाश-
००३४-४ दंष्ट्रोद्धृतक्षिति हरेरवतु स्मितं वः  ॥
००३५-१ मन्थक्ष्माधरघूर्णितार्णवपयः पूरान्तरालोल्लसल्-
००३५-२ लक्ष्मीकन्दलक्ॐअलाङ्गदलनप्रादुर्भवत्संभ्रमाः  ।
००३५-३ हर्षोत्कण्टकितत्वचो मधुरिपोर्देवासुराकर्षण-
००३५-४ व्यापारोपरमाय पान्तु जगतीमाबद्धवीप्सा गिरः  ॥
००३६-१ पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्-
००३६-२ निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः  ।
००३६-३ यत्संस्कारकलानुवर्तनवशाद्वेलानिभेनाम्भसो
००३६-४ यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति  ॥
००३७-१ किंचित्कुञ्चितलोचनस्य पिबतः पर्याप्तमेकं स्तेनं
००३७-२ सद्यःप्रस्रुतदुघविन्दुमपरं हस्तेन संमार्जतः  ।
००३७-३ मात्रैकाङ्गुलिलालितस्य चिबुके स्मेराननस्यानना-
००३७-४ च्छौरेः क्षीरकणावलीव पतिता दन्तद्युतिः पातु वः  ॥
००३८-१ कालिन्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं
००३८-२ तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा  ।
००३८-३ इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः
००३८-४ पायाद्वः स्वशिखां स्पृशन्प्रमुदितः क्षीरेर्धपीते हरिः  ॥
००३९-१ आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं
००३९-२ साशङ्कं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलं  ।
००३९-३ सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मितं
००३९-४ यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्रगोवर्धनः  ॥
००४०-१ कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
००४०-२ सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननं  ।
००४०-३ व्यादेहीति विकासितेथ वदने माता समस्तं जगद्-
००४०-४ दृष्ट्वा यस्य जगाम विस्मयवशं पायात्स वः केशवः  ॥
००४१-१ किं युक्तं बत मामनन्यमनसं वक्षःस्थलस्थायिनीं
००४१-२ भक्तामप्यवधूय कर्तुं अधुना कान्तासहस्रं तव  ।
००४१-३ इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनुं
००४१-४ निद्राछेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितं  ॥
००४२-१ स्वप्रासादितदर्शनामनुनयन्प्रानेश्वरीमादरा-
००४२-२ दंसेस्मिन्पतितैरपाङ्गवलितैर्यद्बोधितोप्यश्रुभिः  ।
००४२-३ प्रत्याय्यस्त्वमतो मया ननु हरे कोयं क्रमव्यत्ययः
००४२-४ पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकर्शार्ङ्गिणः  ॥
००४३-१ भक्तिप्रह्वविलोकनप्रणयिणी नीलोत्पलस्पर्धिनी
००४३-२ ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये  ।
००४३-३ लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
००४३-४ युष्माकं कुरुतां भवार्तिहरणं नेत्रे तनुर्वा हरेः  ॥
००४४-१ येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
००४४-२ यश्चोद्वृत्तभुजंगरहारवलयो गङ्गां च योधारयत् ।
००४४-३ यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
००४४-४ पापात्स स्वयमन्धकक्षयकरस्त्वां सर्वद्ॐआधवः  ॥
००४५-१ किंचिन्निर्मुच्यमाने गगन इव मुखे नाट्यनिद्रापयोदैर्-
००४५-२ न्यक्कुर्वाणे स्वभासा फणिपतिशिरसां रत्नदीपांशुजालं  ।
००४५-३ पायास्तां वो मुरोरेः शशितपनमये लोचने यद्विभासा
००४५-४ लक्ष्म्या कस्तस्थमर्धं विकसति कमलस्यार्धमभ्येति निद्रां  ॥
००४६-१ मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापोङ्गनाभिर्-
००४६-२ गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोप्रमेयः  ।
००४६-३ क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिर्-
००४६-४ दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥
००४७-१ भिन्दन्नरातिहृदयानि हरेः पुनातु
००४७-२ निःश्वासवातमुखरीकृतकोटरो वः  ।
००४७-३ संक्रान्तकुक्षिकुहरास्पदसप्तसिन्धु-
००४७-४ संघट्टघोरतरघोष इवाशु शङ्खः  ॥
००४८-१ पायात्स वः कुमुदकुन्दमृणालगौरः
००४८-२ शङ्खो हरेः करतलाम्बरपूर्णचन्द्रः  ।
००४८-३ नादेन यस्य सुरशत्रुविलासिनीनां
००४८-४ काञ्च्यो भवन्ति शिथिला जघनस्थलीषु  ॥
००४९-१ दृष्टस्य यस्य हरिणा रणमूर्ध्नि मूर्तिर्-
००४९-२ उद्भूतदुःसहमहःप्रसरा समन्तात् ।
००४९-३ तल्लोचनस्थितरविप्रतिबिम्बगर्भे-
००४९-४ वाभाति चक्रमरिचक्रनुदेस्तु तद्वः  ॥
००५०-१ उद्वृत्तदैत्यपृतनापतिकण्ठपीठ-
००५०-२ च्छेदोच्छलद्बहलशोणितशोणधारं  ।
००५०-३ चक्रं क्रियादभिमतानि हरेरुदार-
००५०-४ दिग्दाहदारुणनभःश्रियमुद्वहद्वः  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP