नवसाहसाङ्कचरितम्‌ - चतुर्दशः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


आकाशारोहणम्

अथाश्रमोपान्तमहीं विहाय नेमिस्वनोत्कण्ठितनीलकण्ठां  ।
रथोऽस्य विद्याधरमन्त्रशक्त्या रथाङ्गपणेः पदं आरुरोह ॥१४-१॥

ससंभ्रमोत्तंभितकर्णतालं आकर्णितो दिक्करिभिः सकंपैः ।
आध्मातशङ्खस्वनमांसलोऽग्रे तस्योदगान्मङ्गलतूर्यघोषः ॥१४-२॥

उदस्य वक्त्राणि नभस्थलेन यान्तं तं ऐक्षन्त तपस्विकन्याः ।
आकर्णविस्तारितमुग्धनेत्राः पत्रान्तरैराश्रमपादपानां॥ १४-३॥

व्रजन्स विद्याधरवाहिनीनां मध्ये बभौ मध्यमलोकपालः ।
अनल्पसौन्दर्यसुधैकसूतिः शशीव नक्षत्रपरम्पराणां॥ १४-४॥

कुतूहलोल्लोलासितपक्षलेखान्याकृष्टकर्णोत्पलविभ्रमाणि ।
तस्मिन्नमुञ्च्यन्त नितम्बिनीभिरपाङ्गवल्गीनि विलोचनानि ॥१४-५॥


_

रमाङ्गदकृतं वर्णनम्

अथान्तिकस्थेन सश्चाभ्यधायि रमाङ्गदेनेत्थं अवन्तिनाथः ।
सहस्रशः खे चलितानि पश्यन्विद्याधराणां पुरतो बलानि ॥१४-६॥

हैमं नृप स्यन्दनं उत्पताकं आकम्पि रत्नाङ्कितकेतुं एते ।
सहस्ररश्मेरिव वालखिल्या विध्याधरास्ते परिवारयन्ति ॥१४-७॥

व्रजन्नमर्त्यप्रमदाविमुक्त- मन्दारमालाजटिलांसकुटः ।
कुन्दच्छटापाण्डुसटाकलापः कात्यायनीसिंह इवावभासि ॥१४-८॥

प्रयाणतूर्यध्वनिरेष किं ते पातालकुक्षिप्रतिनादसान्द्रः ।
रवः प्रसर्पत्युत भैरवोऽयं अकालकल्पान्तपयोधराणां॥ १४-९॥

मूले भुवः कज्जलधूलिकल्पं आलक्ष्यते पश्य निलीनं एतथ् ।
नीरन्ध्रविद्याधरमौलिरत्न- प्रभाङ्कुरप्राशितं अन्धकारं॥ १४-१०॥

आयामिमालामणिकान्तिदण्डैरुत्सारयन्तः परितस्तमांसि ।
अमी मरुन्नर्तितचामरास्ते खं उल्लिखन्तीव खुरैस्तुरङ्गाः ॥१४-११॥

विहस्य विद्याधरबालिकाभिः समं विमुक्ता नयनत्रिभागैः ।
प्रस्थानलाजाञ्जलयस्तवैते रथे पताकास्खलिताः पतन्ति ॥१४-१२॥

नरेन्द्र विद्याधरपुङ्गवानां एते पुरः पश्य कृपाणपट्टाः ।
कालाञ्जनश्यामतयाश्रयन्ते तरङ्गतां व्य्ॐअमहार्णवस्य ॥१४-१३॥

वाचालयन्त्यः ककुभां मुखानि नादेन जाम्बूनदकिङ्किणीनां  ।
इमा विमानावलयः कथं चिदन्योन्यरुद्धप्रसराः प्रयान्ति ॥१४-१४॥


_

वातवर्णनम्

आधूतकार्तस्वरकेतुयष्तिरेनान्यशोकस्तबकारुणानि ।
आनर्तयत्येष पताकिनीनां वातः पताकांशुकपल्लवानि ॥१४-१५॥

नभश्चराणां व्रजतां अमीषां अन्योन्यपीनांसविघर्षणेन ।
उल्लासितः कुङ्कुमपांसुपूरः पिशङ्गयत्येष दिशां मुखानि ॥१४-१६॥


_

प्रेक्षकस्त्रीवर्णनम्

सरत्नकाञ्चीवलयैर्विलास- सिंहासनैर्मन्मथपार्थिवस्य ।
इतो नितम्बैरसितेक्षणानां व्याप्तान्तरं व्य्ॐअ समाप्तिं एति ॥१४-१७॥

अन्योन्यसङ्घट्टविसूत्रितानि कुमुद्वतीकान्तकरोपमानि ।
एतानि पश्याम्बरतः पतन्ति विमानमुक्ताफलजालकानि ॥१४-१८॥

एताः प्रयान्त्यः पुरतो विमानैर्विवर्त्य बाला मुखपङ्कजानि ।
अपाङ्गविश्रान्तविलोलतारैस्त्वां नाथ नेत्राञ्जलिभिः पिबन्ति ॥१४-१९॥

आसां इतः सत्वरगामिनीनां गतागताभ्यां मणिकुण्डलानि ।
भिन्दन्ति विद्याधरकामिनीनां कपोलकालागुरुपत्त्रकानि ॥१४-२०॥

इतो मिथः पार्श्वविघट्टितेषु जवाद्विमानेषु समापतत्सु ।
आसां इतः प्रेङ्खितमध्यरत्न- विसूत्रिता हारलताः स्फुटन्ति ॥१४-२१॥

एते गतिक्षोभवशाद्वधूनां पश्योन्मयूखा मणिकर्णपूराः ।
इतस्तले सञ्चरतां अहीनां निपत्य चूडामणिषु स्वनन्ति ॥१४-२२॥

पातालं एतन्नयनोत्सवेन विचिन्त्य शून्यं शशलाञ्छनेन ।
इहाङ्गनाभिः स्वमुखछलेन कृतोऽम्बरे चन्द्रमयीव सृष्टिः ॥१४-२३॥

इतो रसं पल्लवयन्ति वीरं विद्याधराणां करवालवल्ल्यः ।
एताश्च शृङ्गारं इतोऽङ्गनानां दृशो नवेन्दीवरदामदीर्घास्॥ १४-२४॥

झटित्यवाप्तप्रतिबिम्बं एतत्सैन्यं विलोक्य स्फटिकाङ्गणेषु ।
सविस्मयं नागपुराङ्गनाभिरितः क्रियन्ते नयनोत्पलानि ॥१४-२५॥

नरेन्द्र तस्माद्गगनावहगाहि- त्वद्दर्शनव्यग्रतपस्विपङ्क्तेः ।
दूरं हविर्धूमसुगन्धिसीम्नः स्थानाद्वयं वङ्कुमुनेः प्रवृत्ताः ॥१४-२६॥


_

वनवर्णनम्

यथायं अभ्येति पुरो नभस्वानाकृष्टनानाविधपुष्पगन्धः ।
अग्रे तथाभ्रंलिहभूरुहं नः शङ्के वनं दृक्पथं एष्यतीति ॥१४-२७॥

एभिर्महीपाल विमानरत्नैरग्रेसरैः सम्भ्रममुक्तमार्गः ।
निष्कम्पकेतुर्महतास्पदेन रथस्तवायं वियति प्रयाति ॥१४-२८॥
सितप्रसूनस्तबकैस्तरूणां एषा पुरस्तारिकान्तरिक्षा ।
झटित्यशेषैव निमेषमात्रादुन्मीलिता पश्य वनान्तलेखा ॥१४-२९॥

यदीश विद्याधरवाहिनीयं आकाशतः किञ्चिदधः प्रवृत्ता ।
अवैमि चित्ते निहितं तदस्याः पदं वनालोकनकौतुकेन ॥१४-३०॥

एषा तमालावलिनीलकान्तेरुपोढरामामुखहेमपद्मा ।
सेना वनस्याभिमुखं प्रयाति पश्याम्बुरासेरिव जह्नुकन्या ॥१४-३१॥


अस्याः क्षमापाल वनान्तराजेर्विमानपङ्क्तिः पुरतःस्थितेयं  ।
आलम्बते रत्नकिरीटलक्ष्मीं मणिप्रभोद्गीर्णमहेन्द्रचापा ॥१४-३२॥

एते खलीनक्षतशोणिताक्ताः पश्येन्द्रगोपश्रियं उद्वहन्तः ।
तुरङ्गलालाजलबिन्दवस्ते लुठन्ति हेमद्रुमपल्लवेषु ॥१४-३३॥

मन्दानिलान्दोलितपल्लवाग्राः समग्रपुष्पाहरणोद्यताभ्यः ।
इतो लताः पार्थिव संरभन्ते लावण्यं आदातुं इवाङ्गनाभ्यः ॥१४-३४॥

अमूनि पुष्पाणि महीरुहाणां आभान्ति लीनभ्रमरोदराणि ।
विद्याधरीविभ्रमदर्शनार्थं उत्तानितानीव विलोचनानि ॥१४-३५॥

पश्याग्रवातायनं एतदेत्य लताग्रपुष्पाण्यचिन्वतीनां  ।
नृपातिभारेण नितम्बिनीनां विमानरत्नानि पुरो नमन्ति ॥१४-३६॥

शाखाग्रलग्नासु महातरूणां विटङ्करत्नद्युतिश्र्ङ्खलासु ।
विलम्बमानैरिव चिम्बितेयं इतो विमानैर्मणिपञ्जरश्रीः ॥१४-३७॥

इमाः समं प्राणसमैर्वनेऽस्मिन्सर्वऋतुर्लक्ष्मीनिबिडोपगूढे ।
नभःस्थिता एव नरेन्द्र पश्य पुष्पोच्चये लोलदृशः प्रवृत्ताः ॥१४-३८॥

एताः करैः काञ्चनपद्मगौरैर्विलासवत्यः सनिबन्धनानि ।
हरन्ति पुष्पाणि महीरुहाणां मृदूनि यूनां इव मानसानि ॥१४-३९॥

आसां लताग्रस्तबकोत्थितानि शिखण्डरत्नद्युतिचुम्बितानि ।
पश्योपरिष्टादलिमण्डलानि नीलातपत्रभ्रमं आरभन्ते ॥१४-४०॥

मुञ्चत्यलिः पुष्पलतां इतोऽयं आघ्रातरामामुखपद्मगन्धः ।
गुणप्रकर्षे हि सदा मनांसि गुणान्तरज्ञावतां रमन्ते ॥१४-४१॥

लतैतया चूततरोः सलीलं आनीयमाना नतिं आनताङ्ग्या ।
पश्योत्पतत्पुष्पशिलीमुखेयं आभाति कन्दर्पधनुर्लतेव ॥१४-४२॥

भ्रमद्द्विरेफावलिलोलदृष्टिर्लीलावतंसक्रिययोन्मुखानि ।
विचेतुं एषा कुसुमानि नालं तरोस्तनालिङ्गनदोहदस्य ॥१४-४३॥

प्रियार्पितः कान्तनिपीतमुक्त- पुरन्ध्रिबिम्बाधरकान्तिचोरः ।
अस्याः सरत्नत्विषि कर्णपाशे किं अप्यशोकस्तबकश्चकास्ति ॥१४-४४॥

अस्या लताक्षेपविसूत्रितस्य हारस्य लग्नस्तनकुङ्कुमस्य ।
भ्रष्टाः क्षितौ दाडिमबीजमोहादाक्षिप्य मुक्ताः कपयः क्षिपन्ति ॥१४-४५॥

निदाघलक्ष्मीहसितछटेयं पर्याप्तकृष्णागुरुधूमगन्धे ।
बन्धे कचाना नवमल्लिकास्याः पश्यालिनीले परिभागं एति ॥१४-४६॥

असावितः पार्थिव दन्तपत्रं आपास्य हंसछदपाण्डु बाला ।
करोति कर्णे नवकर्णिकारं उत्तापिताष्टापदरत्नशोभि ॥१४-४७॥

स्थितोऽयं अन्तो नवपल्लवानां प्रवालताम्राङ्गुलिरायताक्ष्याः ।
व्यक्तिं शरच्चन्द्रकरोज्ज्वलाभिर्नखांशुरेखाभिरितः प्रयाति ॥१४-४८॥

धावत्करा कर्णशिरीषलोभादितस्ततः सम्पतति द्विरेफे ।
क्रीडां इव व्याकुलदृष्टिपाता बालेयं अभ्यस्यति कन्दुकस्य ॥१४-४९॥

प्रावृड्विलासस्मितं उद्वहन्ती कर्णे नवं केतकबर्हं एषा ।
प्रियावतंसीकृतचन्द्रलेखा चकास्ति कन्येव हिमाचलस्य ॥१४-५०॥

विलोकितालेख्यकपोलभागात्प्लवङ्गशावेऽधिगते विमानं  ।
इतः कदम्बादनिवृत्तहस्तं आस्ते भयादालिखितेव तन्वी ॥१४-५१॥

पुष्पाणि चिन्वत्यतिमुक्तकस्य पश्य श्लथं केशकलापं एषा ।
अंसे बिभर्तीव तमालनीलं विलासवालव्यजनं स्मरस्य ॥१४-५२॥

विमुञ्चती चक्षुषि पुष्पधूलिं एषा गते तं प्रति वल्लभस्य ।
चित्रं झटित्यश्रुलवावकीर्णे दृशौ सपत्न्याः कलुषीकरोति ॥१४-५३॥

मध्यच्युते बिभ्रति किंशुकेऽस्मिन्नस्रारुणस्याकृतिं अङ्कुशस्य ।
अस्याः स्तनाभ्यां अधुना धृतेयं अनङ्गमत्तद्विपकुम्भलक्ष्मीः ॥१४-५४॥

अभ्यागतायाः सहसामुनास्याः कन्दर्पसाम्राज्यधुरोद्वहेन ।
सुगन्धिभिः पाटलिपादपेन पुष्पैरितः कल्पितं आतिथेयं॥ १४-५५॥

आर्द्रागसेयं गमिता प्रसादं कृतप्रणामाञ्जलिना प्रियेण ।
प्रमृष्टबाष्पा सुमुखी नखाभ्यां चूताङ्कुरं मानं इवोच्छिनत्ति ॥१४-५६॥

अध्यासते कां अपि कान्तिं आसां एते सकुन्दाः कबरीकलापाः ।
कुमुद्वतीकान्तकरानुविद्धास्तमःप्रताना इव यामिनीनां॥ १४-५७॥

पुष्पाणि नानाविधवर्णभाञ्जि विमानवातायनतो विचित्य ।
युवायं इन्द्रायुधवर्णकान्तं उत्तंसं अस्याः सदृशः करोति ॥१४-५८॥

पश्येयं उद्बाहुलताहितश्रीर्मध्येन नश्यत्त्रिवली लतेव ।
विमानतः क्ॐअलं उच्चिनोति वधूर्मधूकं स्वकपोलकान्ति ॥१४-५९॥

अदः सुगन्धीकुरु मत्प्रसूनं मुखाब्जसौगन्ध्यकणार्पणेन ।
इत्यञ्चलासक्तलतो न याञ्चां अस्याः करोतीव सः कर्णिकारः ॥१४-६०॥

तथा न चूते नवमञ्जरीयं अवाप्तवत्यात्मगुणप्रकर्षं  ।
अस्याः सकालागरुपत्रलेखे यथा कपोले कमलेक्षणायाः ॥१४-६१॥

वहत्यशोकोऽयं अमर्त्यकान्ता- पदाहतः कान्तं अलक्तकाङ्गं  ।
कृत्वा जगत्यस्खलितां निजाज्ञां स्कन्धेऽर्पितं तूणां इव स्मरेण ॥१४-६२॥

चिरेण मन्ये बकुलद्रुमोऽयं अवाप्तपारःस्पृहणीयतायाः ।
अर्थी करोऽस्याः सुमनःसु यस्य जातो जितामर्त्यतरुप्रवालः ॥१४-६३॥

फलं शिरीषेण चिरादवाप्तं अस्याः समग्रं सुकुमारतायाः ।
निरस्य गीर्वाणतरुप्रसूनां यदेतदुत्तंसितं आयाताक्ष्या ॥१४-६४॥

अस्याः श्रुतौ चम्पकं आदधत्याः करेण मुक्तावलयाङ्कितेन ।
एष द्विजः स्वस्त्ययनं विरावैर्नास्याः करोतीति न मञ्जुकण्ठः ॥१४-६५॥

विन्यस्तबन्धूकदली मुखेऽस्याः स्वेदार्द्रकालागरुपत्रवल्ली ।
चकास्ति संध्यातपलेशशङ्कि कलङ्कलेखा शशलक्ष्मनीव ॥१४-६६॥

एता मिथो रुद्धविमानमार्गा लताग्रजं पुष्पं अनाप्नुवन्त्यः ।
भवन्ति भारानमिताङ्गकेषु बद्धाभ्यसूयाः स्तनमण्डलेषु ॥१४-६७॥

एतानि कान्तैः प्रमदाजनस्य नवप्रवालान्यवतंसितानि ।
पश्यन्ति पश्य स्वं इवाप्तकान्तिं कपोलपालीमणिदर्पणेषु ॥१४-६८॥

यद्यद्वनेऽभूत्कुसुमं सुगन्धि वधूजनैस्तत्तदितो गृहीतं  ।
कृत्स्नत्रिलोकीविजयावतंसं निर्मातुं इष्वासं इव स्मरस्य ॥१४-६९॥

कर्णावतंसीकृतपल्लवानां विचित्रपुष्पाभरणोज्ज्वलेषु ।
पश्याभितः पल्लवितेयं आसां अङ्गेषु सारङ्गदृशां ऋतुश्रीः ॥१४-७०॥

स्वेदोदबिन्दुछलतः कपोले वितीर्णमुक्तार्घ इव स्मरस्य ।
एणीदृशां कान्त इव प्रवृत्तः श्रमोऽयं आलिङ्गितुं अङ्गलेखां॥ १४-७१॥

आसां पृथुस्वेदकणाङ्कितानि वक्त्राणि नेत्रोत्सवं अर्पयन्ति ।
प्रत्युप्तमुक्ताफलदन्तुराणि हिरण्यमयानीव सरोरुहाणि ॥१४-७२॥

एतानि पश्य च्युतपुष्पधूलि- व्यालुप्तपक्ष्मावलिसौष्ठवानि ।
श्रमेण किं चिन्मुकुलीभवन्ति सीमन्तिनीनां नयनोत्पलानि ॥१४-७३॥

एतासु सीदन्मणिबन्धमूल- निलीनलीलामणिकङ्कणासु ।
विलोक्यतां व्यक्तिं उपैति खेदो विद्याधरस्त्रीजनदोर्लतासु ॥१४-७४॥

अनङ्गकल्पद्रुममञ्जरीणां अमोघमन्त्रं कुसुमायुधस्य ।
भृशं यथा पुष्पमयी विभूषा नासां तथा रत्नमयी विभाति ॥१४-७५॥

वनान्तं एता वनिता न मुक्तुं अनेकपुष्पं नृप शक्नुवन्ति ।
विमुच्यते केन नाम स देशो यत्रास्ति सान्द्रः सुमनःप्रचारः ॥१४-७६॥

इत्युज्ज्वले तस्य वचःप्रसूने नीतेऽपि कर्णातिथितां विहस्य ।
नृपो बभूवास्तमनाः सचित्रं स्मृताहिराजेन्द्रसुताविलासः ॥१४-७७॥

पुष्पप्रवालाङ्कुरमण्डलं तत्क्वणद्विमानावलिहेमघण्टं  ।
वनं विहायाथ समग्रं अग्रे चचाल विद्याधरराजसैन्यं॥ १४-७८॥


_

गङ्गावर्णनम्

अथ प्रवालाधरबिम्बचुम्बि- परिस्फुरत्फेनविलासहासा ।
वाचालहंसावलिकाञ्चिदाम- सनाथतीरोरुनितम्बबिम्बा ॥१४-७९॥

समीरवेल्लत्तटहेमवल्लि- लोलप्रभापिञ्जरितोर्मिलेखा ।
विलासमज्जत्फणिराजकन्या- सङ्क्रान्तकान्तस्तनकुङ्कुमेव ॥१४-८०॥

निमग्नदिङ्नागकपोलभित्ति- सन्ताननिर्यन्मदवेणिकृष्णा ।
तृतीयनेत्रानलधूमवल्लि- कलङ्कितेव त्रिपुरान्तकस्य ॥१४-८१॥

भारानमद्भोगिफणास्थितायाः स्थलोच्छलद्वीचिचयच्छलेन ।
उत्तम्भयन्तीव तले सतर्कं अर्कोपलस्तम्भशतानि भूमेः ॥१४-८२॥

तटोद्गतप्रांशु तमालराजि- छायाघनश्यामलितार्धभागा ।
मूर्तिस्तुषाराचलतुल्यकान्तिरुमापतिश्रीधरयोरिवैका ॥१४-८३॥

कादम्बचञ्चूद्धृतचक्रवाकी- पारिप्लवव्यक्तमृणालकाण्डा ।
चण्डीधवोन्नद्धजटाविटङ्क- कृष्टेन्दुलेखाङ्कुरदन्तुरेव ॥१४-८४॥

तरङ्गभङ्गोज्ज्वलचामरश्रीरुद्दण्डहेमाम्बुरुहातपत्रा ।
पुण्या पुरो दूरत एव तेन त्रिमार्गगादृश्यत पार्थिवेन ॥१४-८५॥

तस्यास्तटेऽथ कुसुमावचयश्रमार्त- सीमन्तिनीनिवहसस्मितवीक्षितायाः ।
विद्याधरेण विदधे धवलोर्मिधौत- पर्यन्तहेमसिकते पृतनानिवेशः ॥१४-८६॥

तदनु पुलिने सद्यो विद्याधरैः परिकल्पितं न्र्पतिरविशल्लीलागारं सः साहसलाञ्छनः ।
भ्रमं अजनयन्नेत्रोत्कीर्णा इति प्रतिबिम्बिताः सितमणिमये यस्मिन्नन्तो बहिश्च मृगीदृशः ॥१४-८७॥     


इति  श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पातालावलोकनो नाम चतुर्दशः सर्गः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP