नवसाहसाङ्कचरितम्‌ - दशमः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


नायकस्य रमाङ्गदं प्रति प्रश्नः

अथ मेकलाचलसुतातिरोहितौ अतिमात्रविस्मयरसार्द्रमानसः ।
दशनच्छविच्छुरितपाटलाधरः स रमाङ्गदं नृपतिरित्यवोचथ् ॥१०-१॥

अधिरोहति स्वयं अचिन्तिताप्यहो शुभसम्पदङ्कं अपराङ्मुखे विधौ ।
सवपुर्विलोचनपथं यदावयोरमृतांशुसूतिरियं आपदापगा ॥१०-२॥

इदं इन्द्रजालं इति मे समुत्थितां मतिं एतदर्पितं उदारया तया ।
विकसन्मरीचिरचितेन्द्रकार्मुकं करवर्ति रत्नवलयं विलुम्पति ॥१०-३॥

अयि मेकलाद्रितनयापुरःकृते क्रियते किं अत्र वद कृत्यवस्तुनि ।
तव यत्सदा नयरहस्यवेदिनो न धियश्चरन्त्यनयपांसुले पथि ॥१०-४॥


_

रमाङ्गदवाक्यम्

इति पार्थिवेन कथिते दधन्मनाक्पुलकेन चुम्बितकपोलं आननं  ।
इदं आत्तनीतिपथं आददे वचः स्मितपुष्पिताधरदलो रमाङ्गदः ॥१०-५॥

इह किं प्रतिस्फुरति मे तवाग्रतो नयशास्त्रनीरनिधिपारदृश्वनः ।
अवलीढविश्वतमसः पुरो रवेर्न हि जातु दिपकशिखा प्रकाशते ॥१०-६॥

विषयेऽत्र मौनं उचितं हि मादृशां अवशस्तथापि कथयामि किं चन ।
क्षितिपालमौलिमणिवेणिकातिथेस्तव केन शासनं इदं विलङ्घ्यते ॥१०-७॥

प्रथमं हि मण्डलं अखण्डशाक्तिभिर्विजिगीषुभिः स्वं अभितः प्रसाध्यते ।
परमण्डले तदनु नीतिपारगैरवनीपुरन्दर, करः प्रसार्यते ॥१०-८॥

तदपास्यं एवं अवितर्कितोत्थिते परिपन्थिनां इह विधेयवस्तुनि ।
यदि नाभविष्यदभिमानशालिनस्तव राज्यं उद्धृतसमस्तकण्टकं॥ १०-९॥

श्रुतशक्तिसङ्कलितमन्त्रनिश्चयैरुपलब्धषड्गुणविवेकवर्त्मभिः ।
तदुपायतत्त्वं अधिगम्य धूः क्षितेस्तव मन्त्रिभिर्नृप दुरुद्वहोह्यते ॥१०-१०॥

अतिसान्द्रकाञ्चनमरीचिपिङ्गलं दिगुपाहितप्रचुरपत्रशोभिनः ।
तव कोशं उत्सृजति न क्षणं रमा परमारवंशसरसीसरोरुह ॥१०-११॥

प्रियकीर्तयो जयपवित्रिताशयास्तरसा तृणीकृतजगत्त्रया युधि ।
जगतीविशेषक तवानुजीविनो निवसन्त्यवन्तिविषये सहस्रशः ॥१०-१२॥

पृथिवीभृतः प्रथितविक्रमेण ये गमितास्त्वया वशं उपायसम्पदा ।
नयवर्त्मगाः क्षितिपते तवान्यथा न भवन्ति भाविसमराभिशङ्कया ॥१०-१३॥

अपकर्तुं अत्र समये तवात्तभीर्मनसापि हूणनृपतिर्न वाञ्छति ।
इभकुम्भभित्तिदलनोद्यमे हरेर्न कपिः कदा चन सटां विकऋषति ॥१०-१४॥

असिकान्तिजालजटिलाग्रबाहुना रणसीम्नि नाथ निहतेषु भर्तृषु ।
भवतात्र वागडवधूजनः कृतो रतिसन्धिविग्रहकथापराङ्मुखः ॥१०-१५॥

अधुनापि देव मुरलाङ्गनाजनैस्विजयप्रशस्तिरिव लिख्यते तव ।
गलदञ्जनाश्रुपृषतावलिच्छलाल्लसदिन्दुपाण्डुषु कपोलभित्तिषु ॥१०-१६॥

रभसादपास्य मणिकङ्कणावलीः कनकारविन्दकतकेषु तेऽसिना ।
न किं अर्पितानि नृप लाटयोषिता स्फटिकाक्षसूत्रवलयानि पाणिषु ॥१०-१७॥

नयनाम्बुभिः स्नपितधूसराधराः प्रतिबद्धरूक्षमलिनैकवेणयः ।
निहिता न किं महति शोकसागरे जगतीन्द्र कोसलपतेः पुरन्ध्रयः ॥१०-१८॥

उदितेन वैरितिमिरद्रुहाभितस्तव नाथ विक्रममयूखमालिना ।
गमिताः प्रभावलयशून्यतां झटित्यपरान्तपार्थिववधूमुखेन्दवः ॥१०-१९॥

अतिवेलं उत्तरदिगन्तवर्तिना समरश्रमाभ्युदितघर्मबिन्दुना ।
शरदिन्दुनिर्मलं अपायि भूभृतां असिपत्रपात्रपतितं त्वया यशः ॥१०-२०॥

निजरन्ध्रगोपनपटीयसाभितः पररन्ध्रदृष्टिपटुचारचक्षुषा ।
नयभिन्नसाहसभुवा भुवस्तले भवता समं कथय को विरुद्ध्यते ॥१०-२१॥

नरदेव दैवं अधिकृत्य या विपत्निपतत्यवन्तिविषये कथं चन ।
शिखिमुक्तमन्त्रहविषा विहन्यते तव सा वसिष्ठमहसा पुरोधसा ॥१०-२२॥

नृप वासराणि निरुपप्लवाः प्रजाः सुखं आत्मकर्मणि रता नयन्ति यथ् ।
विजयं जयैकसुहृदोऽस्य सर्वदा ननु कार्मुकस्य तव तद्विजृम्भितं॥ १०-२३॥

इति किं चिदेव न तव स्वमण्डले नृप चिन्त्यं अस्त्युदितशक्तिसम्पदः ।
अधुना तु नीतिनिहितेन चेतसा फणिलोककृत्यं इदं एव चिन्त्यतां॥ १०-२४॥

प्रभुशाक्तिरुद्यमपरत्वं अर्पित- त्रिजगच्चमत्कृतिरहङ्कृतिश्च सा ।
असुरस्य तस्य कथिता नरेन्द्र ते नगरी च मेकलनगेन्द्रकन्यया ॥१०-२५॥

अभिगम्य एव सस्तवाधुना रिपुर्मरुतां उदारनिजकार्यसिद्धये ।
श्रुतिलग्नगन्धगजबृंहितः क्षणं नृप केसरी कथय किं विलम्बते ॥१०-२६॥

नवसाहसाङ्क, न तवासुरादहं कलयामि सम्प्रति किं अप्यतादृशं  ।
विधुतिः कदा चन विभो न भूभृतः कलविङ्कपक्षपवनेन शाङ्क्यते ॥१०-२७॥

भवता यदोच्चलित एष दक्षिणश्चरणस्तदैव सुरवैरियोषितां  ।
विगलन्ति देव नयनोदबिन्दवः शरदिन्दुपाण्डुनि कपोलमण्डले ॥१०-२८॥

विजयैकसद्मनि गुणः शरासने तव यावदत्र न नृपाधिरोहति ।
तुहिनच्छटाधवलचामरस्मिता विलसन्ति तावदसुरालये श्रियः ॥१०-२९॥

कनकारविन्दं अरविन्दलोचन प्रणयेन नैव सः समर्पयिष्यति ।
सुरनिर्जयार्जितमदावृतेऽन्तरं लभते न साम किल तादृशं हृदि ॥१०-३०॥

भवतः कुतोऽपि नृप यावदागमं न स वेत्ति तावदभियोक्तुं अर्हसि ।
सहसान्यथा रहसि मन्त्रिबोधितः परितः स्वदुर्घटने यतिष्यते ॥१०-३१॥

कृतनूतनार्गलकपाटसंपुटां सुभटैरुदायुधकरैरधिष्ठितां  ।
परितः सुखातपरिखां पुनः पुरीं रचितैकदुर्गं अपथां विधास्यति ॥१०-३२॥

वलितेऽपि किं चन धनुःपरिग्रहे भुवनत्रयप्रथितसाहसे त्वयि ।
अपि जायते धृतिविपर्ययो हरेरसुरेषु कैव गणना तपस्विषु ॥१०-३३॥

नियतं, नरेन्द्र, विदत्फणामणि- स्फुरदंशुसूत्रितनवातपं नभः ।
सुरवैरिवीर्यदृढमत्सरं पुरः फणिसैन्यं आजिभुवि ते भविष्यति ॥१०-३४॥

अधुनैव तेऽत्र निजतां व्रजन्ति वा सुभटाः स्वयं विधिवशेन के चन ।
कपयः पुरा रघुपतेर्यथा वने हनुमत्पतङ्गतनयाङ्गदादयः ॥१०-३५॥

यदुदीरितश्च पुरुकुत्सकान्तया सरितासि वङ्कुमुनिदर्शनं प्रति ।
प्रतिभाति किं चन ममैव तत्र ते किं उ निर्मुखेङ्गितविदस्तदिङ्गितं॥ १०-३६॥

अथवैक एव विभुरस्यरेर्वधे ननु धाम तत्स्फुरति शार्ङ्गिणस्त्वयि ।
उदितक्रुधस्त्रिपुरदाहडम्बरे शरतां अवाप किल यत्पिनाकिनः ॥१०-३७॥

अवलोकयामि शकुनं यथा तथा तदवैमि पक्ष्मलदृशः सभान्तरे ।
न चिरादुपोडःअपुलकेन पाणिना कनकारविन्दं अवतंसयिष्यसि ॥१०-३८॥

त्वं इहैव नाथ मणिधाम्नि तिष्ठ वा न हि नाम तादृशं इदं प्रयोजनं  ।
असुरं निहत्य सहसैव तत्क्षणादहं आनयामि तपनीयपङ्कजं॥ १०-३९॥

विजयी यदस्मि स्मरेषु जित्वराः प्रभवन्ति तत्र तव पादपांसवः ।
अरुणो यदन्धतमसं निषेधति स्फुरितं नराधिप तदर्कतेजसां॥ १०-४०॥


_

नायकवाक्यम्

मसृणोक्तिपल्लवितनीतिविक्रम- क्रमं इत्युदीर्य विरते रमाङ्गदे ।
सः सरस्वतीमुखररत्ननूपुर- ध्वनिपेशलं नृपतिराददे वचः ॥१०-४१॥

त्वदृते मुखात्सुखनिरस्तसंशय- प्रसरेयं भारती उल्लसति कस्य भारती ।
शशलक्ष्मणः परमखर्वशर्वरी- तिमिरछिदुच्छलति कान्तिकन्दलि ॥१०-४२॥

तव वेद्मि पौरुषं अहं त्वया विना न वपुःस्थितिं क्व चन कर्तुं उत्सहे ।
धनुषीव दीर्घगुणसङ्गते यतस्त्वयि मे दृढप्रणयवासितं मनः ॥१०-४३॥

गमने तदेहि सहितौ यतावहे झटिति त्रिविष्टपरिपोः पुरीं प्रति ।
अपदे यदुद्यमकथाविरोधिनी न हि सिद्धये भवति दीर्घसूत्रता ॥१०-४४॥


_
शुकवाक्यम्

इति पार्श्ववर्तिनं उदीर्य मौनवानभवत्स मालवकुरङ्गलाञ्छनः ।
त्वरयावतीर्य सश्च रत्नपञ्जरात्पुरतः शुकोऽस्य पुन इत्यभाषत ॥१०-४५॥

शृणु शङ्खचूडशुचिवंशभूरहं नृप, रत्नचूड इति नागरकः ।
उदपादि कण्वमुनिशिष्यशापतः शुकता ममेयं अनिमीलितस्मृतिः ॥१०-४६॥

प्रणयोक्तिभिर्मुनिरथ प्रसेदिवानिति मे सः शापतिमिरावधिं व्यधाथ् ।
वशिनां रुषो मतिषु नासते चिरं जलविपुषश्च, नृप, सस्यसूचिषु ॥१०-४७॥

त्वं अफल्गु नेष्यसि शशिप्रभान्तिकं नवसाहसाङ्कनृपतेर्यदा वचः ।
नियतं भविष्यति तदा कुमार ते शुकरूपरूपपरिवर्तनोत्सवः ॥१०-४८॥

तदनङ्गषष्ठशरं संदिश स्वयं शनकैः किं अप्युरगबालिकां प्रति ।
हृदि यन्निधाय सहसैव याम्यहं फणिनां अनम्रमणितोरणां पुरीं॥ १०-४९॥

अयि मौनं एतदवनीन्द्र, मुच्यतां द्रुतं उच्यतां च किं इयं मयि त्रपा ।
पृथगस्मि देव न हि ते परिच्छदातुचितं न तन्मयि रहस्यगोपनं॥ १०-५०॥


_

नायकवाक्यम्

इति वल्गु जल्पति शुकेऽथ विस्मयादपि विस्मयं परं अवाप पार्थिवः ।
अवदच्च पञ्जरं इवास्य कल्पयन्दशनांशुभिः स्फटिकसूचिक्ॐअलैः ॥१०-५१॥

विपदं विलोक्य तव दुःसहां इमां अयि रत्नचूड मम दूयते मनः ।
पतितं कुकूलदहने न कस्य वा मृदुमालतीमुकुलमाल्यमाधये ॥१०-५२॥


_

नायिकां प्रति संदेशः

घटितं विधेरिदं अजर्यं आवयोर्न रमाङ्गदान्मम सखेऽतिरिच्यसे ।
इदं आर्य तत्त्वयि विमुक्तयन्त्रणो ननु संदिशामि हरिणीदृशां प्रति ॥१०-५३॥

विरतेऽपि मेघतिमिरे नताङ्गि मे न गतासि लोचनपथं यदा तदा ।
फणिलोकभूमिं अतिदुर्गमां इमां अविशं तव अनुपदं एव सुद्नरि ॥१०-५४॥

नगरीं त्वदात्तहृदयोऽपि भोगिनां अहं आगतो न मृगदीर्घलोचने ।
श्रुतयेन्दुसूतिसरितान्यतो हृतः सहसैव हेमशतपत्रवार्तया ॥१०-५५॥

अतिपाटलाधरं अवाञ्चितं ह्रिया स्मितकान्तिमत्स्तिमितरत्नकुण्डलं  ।
तदपाङ्गसङ्कलितलोचनोत्पलं फणिलोकक्ॐउदि मुखं स्मरामि ते ॥१०-५६॥

द्वितये द्वयेन सहसोज्झितस्तदा शशिसूतिसिन्धुपुलिनोदरे शरः ।
जगदेकविभ्रमभ्वा भुवस्तले सुतनु त्वया मयि च पुष्पधन्वना ॥१०-५७॥

धृतं ऊर्मिहस्तनिवहेन रेवया ननु फेनकान्ति करभोरु मे पतथ् ।
विषये दृशोरुपदशं मनःशिला- लिखितैकहंसमिथुनं तवांशुकं॥ १०-५८॥

मणिकान्तिलुप्ततिमिरे रसातले भवतीं इहानुसरता तनूदरि ।
अवलोकितान्यथ मया पदानि ते सहसा सुवर्णसिकताङ्किते पथि ॥१०-५९॥

सरले जठित्युदितकार्श्यदोर्लता- गैल्तानि रत्नवलयानि ते मया ।
कथं अप्युदश्रुपृषतं पदे पदे चकितेन चन्द्रमुखि वीक्षितानि च ॥१०-६०॥

मनसा किं आलिखति किं समाचरत्यधुना किं इन्दुवदना च वक्ति सा ।
इति मेऽपदिश्य भवतीं प्रवृत्तया हृदयं सशल्यं इव हन्त चिन्तया ॥१०-६१॥

परितापवत्यविरलोच्छलत्प्रभा- तुहिनच्छटाभिरसिताब्जलोचने ।
शरदिन्दुदीधितिकलापसुन्दरस्तव हार एष हृदि सिञ्चतीव मां॥ १०-६२॥

कथय प्रिये निहितसान्द्रचन्दन- द्रवशीतलोज्ज्वलकरा कुचद्वये ।
मम हारयष्टिरपि सा सखीव किं मदनाभितापं अपटूकरोति ते ॥१०-६३॥

क्षणं अप्यहो पतसि मे शुचिस्मिते न समुत्सुकस्य तव विस्मृतेः पथि ।
झटिति प्रविश्य हृदये ममात्र किं लिखितासि पद्ममुखि पुष्पकेतुना ॥१०-६४॥

समुद्वहन्ती स्रवदञ्जनाश्रु- घोरोत्करश्यामितकङ्कणेन ।
करारविन्देन मुखेन्दुबिम्बं आपाण्डुरक्षामकपोलभित्ति ॥१०-६५॥

नवे नवे पङ्कजिनीपलाश- मृणालहारादिसनाथपार्श्वे ।
प्रवाललीलास्तरणे निषण्णा सिंहासने मन्मथपार्थिवस्य ॥१०-६६॥

बालप्रवालाङ्कुरपाटलस्य लावण्यरत्नाकरकौस्तुभस्य ।
उदूष्मणा निःश्वसितेन कान्तिं कदर्थयन्ती दशनच्छदस्य ॥१०-६७॥

अनल्पसङ्कल्पविकल्पजाल- विलोडनैर्न स्वं अपि स्मरन्ती ।
ससाध्वसेनाविरतं मया त्वं उत्प्रेक्ष्यसे पन्नगराजपुत्रि ॥१०-६८॥

ब्रूमः कियन्नय कथं चन कालं अल्पं अत्राब्जपत्रनयने नयने निमील्य ।
हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषोऽयं अहं आगत इत्यवेहि ॥१०-६९॥

भद्रैतद्व्रज रत्नचूडनिबिडप्रेमार्द्रं अस्मद्वचस्तस्यास्तत्र कुरङ्गशावकदृशः कर्णावतंसीकुरु ।
शापान्ते बत विस्मरिष्यसि भ्रातस्तदेकं किं अप्यादाय स्वयं एव तत्प्रतिवचः पार्श्वं ममाभ्येष्यसि ॥१०-७०॥

इति नृपतेः स्वान्ते कृत्वा मन्ॐऋगवागुरां गिरं उदकमन्निस्त्रिंशाभे नभस्यशनैः शुकः ।
चिरविनिहितां दृष्टिं तस्मान्निवर्त्य तथोत्सुको झटिति गमने देवोऽप्यसीत्सः साहसलाञ्छनः ॥१०-७१॥    

इति  श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये रत्नचूडसंप्रेषणो नाम दशमः सर्गः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP