नवसाहसाङ्कचरितम्‌ - अष्टमः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


नायिकातिरोधानम्

सापदेऽथ भुजगेन्द्रकन्यका खे पयोदपतलैस्तिरोहिते ।
नर्मदापुलिनपल्लवस्थिता हंसपङ्क्तिरिव कम्पं आददे ॥८-१॥

स्पर्धयेव निचयः पय्ॐउचां तारमन्द्रं अनदद्यथा यथा ।
सा नरेन्द्रतिलकं तं ऐक्षत मुग्धलोलनयना तथा तथा ॥८-२॥

उल्लसन्नवपयोधरालसां द्यां च तां च सुमुखीं विलोकयन्  ।
भूपतिः स नितरां अभूद्वशो विस्मयस्य च मनोभवस्य च ॥८-३॥

वामनत्वं अलिनत्वं अत्यजन्व्यञ्जितक्रम इव त्रिविक्रमः ।
क्रामति स्म सहसैव मेघभूरन्धकारनिकरोऽथ रोदसी ॥८-४॥

नेत्ररोधिनि तयोर्न केवलं मूर्च्छिते तमसि वैशसं हृदि ।
यावदास्यविगलद्बिसाङ्कुरे चक्रवाकमिथुनेऽप्यजृम्भत ॥८-५॥

कर्णभूषणमणिप्रभालवैस्तोकलक्षितकपोलपत्रया ।
कृष्यमाणनयनोऽथ पिप्रिये पन्नगेन्द्रसुतया तया नृपः ॥८-६॥

तेजसि स्फुरति ताडिते मुहुर्बिभ्यती कनकभङ्गपिङ्गले ।
तं हृदिस्थितं इवेशं ईक्षितुं सापि मीलितविलोचनाभवथ् ॥८-७॥


_

आकाशवाणी

एष ते न घटते मनोरथः पार्थिवाहिपतिकन्यकां प्रति ।
गच्छ विन्ध्यविपिनान्तदृष्टया वञ्चितोऽसि मृगतृष्णयैतया ॥८-८॥

साहसोदधिविलोडने स्वयं योऽंसं अंसलतयार्पयिष्यति ।
श्रीरिवोरसि मुरद्विषः पदं तस्य निश्चितं इयं विधास्यति ॥८-९॥

पश्य पश्य चपलेयं अन्तिकात्नीयते तव यथोचितं कुरु ।
एवं एव यदियं न लभ्यते जानकीव जनकप्रतिज्ञया ॥८-१०॥

कन्यकासि किं इदं शशिप्रभे युक्तं एहि पितुरन्तिकं व्रज ।
इत्यविग्रहवती नभस्तलातुल्ललास सहसा सरस्वती ॥८-११॥

तां निशम्य स निकामविस्मितः साचिकार्मुकलतां अलोकत ।
इन्दुमौलिगलकन्दलासितं तत्क्षणाच्च तिमिरं न्यवर्तत ॥८-१२॥

साचिरांशुतपनीयमेखला शक्रचापमणिकुण्डला ततः ।
क्वापि मुद्रितमयूरताण्डवा संहतिर्जलमुचां तिरोदधे ॥८-१३॥

सा पुरातनपथेन पावनी स्ॐअसूतिरपि निम्नगा वहथ् ।
स्वादुनिर्मलरसोर्मिनिर्भरा भारतीव मसृणं महाकवेः ॥८-१४॥

अप्यपाकृतरयः स नर्मदा- वीचिलास्यरचनाकुतूहली ।
आववौ शबरराजयोषितां नर्तितालकलतः समीरणः ॥८-१५॥

इत्यकालजलदादिवैकृते केन चिद्विरचिते गते शमं  ।
भूपतेः शशिमुखी सखीयुता नेत्रनिर्विषयतां अवाप सा ॥८-१६॥

क्वापि नूनं अपहृत्य तन्मनो नागराजदुहिता जगाम सा ।
उत्पलस्य सरसं लसत्स्पृहा चक्रवाकवनितेव केसरं॥ ८-१७॥

अग्रतः कृतपयोधरश्रिया धौततप्ततपनीयकान्तया ।
विद्युतेव सदृशा तयाकुलः स अभवज्झटिति दृष्टनष्टया ॥८-१८॥

सा पुरो मम हृतेति लज्जया चिन्तया किं इव सा चरेदिति ।
सा पुनो न सुलभेत्यसौ शुचा तप्यते स्म तिसृभिः क्षितीश्वरः ॥८-१९॥

तस्य तापजननेन मानसं तेन बालविरहेण विव्यथे ।
केतकच्छदकदर्थने परं यत्कणोऽपि शिशिरः प्रगल्भते ॥८-२०॥

जित्वरं जगति पुष्पकेतुना तद्विकृष्य तरसा शरासनं  ।
ताड्यते स्म हृदये पततृइणा सोऽथ मालवकुरङ्गलाञ्छनः ॥८-२१॥

लज्जया वलितकण्ठकन्दलं लोचनाञ्चलमिलद्वतंसकं  ।
तस्य वर्तितं इवाभवत्तदा तत्प्रियावदनं उन्नसं हृदि ॥८-२२॥

म्लानिं आप सस्तया विना नृपस्तत्र पन्नगपतेस्तनूजया ।
स्वां रुचिं न हि कदा चिदश्नुते शर्वरीविरहधूसरः शशी ॥८-२३॥

पाण्डुपक्ष्मलदृशः परिच्युतं सोऽथ माल्यशकलं व्यलोकत ।
तादृशि व्यतिकरे विनिर्गतं हासलेशं इव पुष्पधन्वनः ॥८-२४॥

शंसदुज्ज्वलकपोलसंगतं कुङ्कुमेन दलकोटिचुम्बिना ।
सम्भ्रमेण गलितं नतभ्रुवः कर्णतामरसं आददेऽथ स ॥८-२५॥

कार्मुके सति शरेषु सत्स्वपि प्रेयसी तव हृतान्तिकादिति ।
तेन सौरभहृतालिनिःस्वनैर्वाच्यतेव नृपतेर्व्यधीयत ॥८-२६॥

कोष्णनिःश्वसितवेपितच्छदं तन्निवेश्य वदने सः सादरः ।
अर्धनिमीलितलोचनोत्पलः पुस्तकल्पित इवाभवत्क्षणं॥ ८-२७॥

नर्मदोर्मिलुलिते तदंशुके पल्लवालिखितहंसहारिणि ।
आहृतस्तनविलेपने दृशा सोऽकृतप्रणयं इन्दुपाण्डुनि ॥८-२८॥

मा विषीद नवसाहसाङ्क, ते कान्तया गतं अनेन वर्त्मना ।
पश्य तत्पदं इतीव रेवया तस्य सारसरुतैरसूच्यत ॥८-२९॥

किं निमग्नं इह बालया तया भीतया भुजगराजकन्यया ।
नैवं अत्र नियतं रसातले विद्यते विवरं इत्यतर्कयथ् ॥८-३०॥

सोऽतिमात्रगहनेऽपि रंहसा पार्थिवः पतितुं ऐच्छदम्भसि ।
जीवितं तृणं इवावजानते साहसव्यसनिनोऽपि तादृशाः ॥८-३१॥

तत्समीहितं अवन्तिवासवस्तस्य नावददुपान्तवर्तिनः ।
एष विघ्नं इह साहसोत्सवे कल्पयिष्यति ममेति शङ्कितः ॥८-३२॥

उज्झति स्म सः शनैः समुच्छ्वसन्पल्लवासनं उपास्य शासनः ।
अग्रहीच्च सशरं करेण तद्व्यक्तराजककुदेन कार्मुकं॥ ८-३३॥

पन्नगेन्द्रदुहितुः करेण यः सख्यं आपदरविन्दबन्धुना ।
अर्पितं प्रणयिना तं अप्यसौ सायकं कनकपुङ्खं आददे ॥८-३४॥

सुभ्रुवः स्मरविलासदेशिकं तं शशंस सः शरं पतत्रिषु ।
पीतशीतकरमूर्तितानवं भानुमानिव मयूखं अंशुषु ॥८-३५॥

व्यक्ततच्चरणलक्ष्मणा ततः स्रस्तकेशकुसुमाकुलालिना ।
मेघसिक्तसिकतेनवर्त्मना नर्मदाजलसमीपं आप स ॥८-३६॥

एष जातु न विकत्थते क्व चिल्लक्ष्यतेऽस्य फलतः सदा क्रिया ।
तत्करिष्यति किं अत्र साहसं चेतसीति विदधे रमाङ्गदः ॥८-३७॥


_

नर्मदाप्रवेशः

अक्षिपत्तटशिलाविटङ्कतः पार्थिवः स्वं अथ नर्मदाम्भसि ।
वारिधेः पयसि विश्वदीपकः सायमद्रिशिखरादिवार्यमा ॥८-३८॥

तत्र मीनमकराकुले पतनाससाद स विलासं इश्वरः ।
यामुनाम्भसि निपातिनः पुरा गोपतां उपागतस्य शार्ङ्गिणः ॥८-३९॥

अम्भसस्तदवपातताडितादूर्ध्वं एत्य निपतत्सु बिन्दुषु ।
साहसेन परितोषितैः सुरैर्मौक्तिकार्घ इव तस्य चिक्षिपे ॥८-४०॥

किं चिदन्तरितमूर्तिभिः क्षणादन्वगच्छदथ तं रमाङ्गदः ।
येन यात्यरुणसारथिः पथा वासरस्तं अवलम्बते न किं ? ॥८-४१॥

कस्तुलाग्रं अधिरोप्य जीवितं स्वामिनं त्वं इव सेवतां इति ।
तस्य हंसनिनादेन वल्गुना साधुवादं इव नर्मदा ददौ ॥८-४२॥


_

बिलप्रवेशः

तौ मुहुर्जलचरैरदृश्यतां अग्रतश्चकितं उक्तवर्त्मभिः ।
ध्वान्तसन्ततिभिदे रसातलं प्रस्तितौ रविनिशाकराविव ॥८-४३॥

आश्रयत्यवनिमेघवाहने वारिगर्भं अभितो गरीयसि ।
प्राप मेकलसुता समानतां अन्तराहितनिधानया भुवा ॥८-४४॥

उज्झिता झटिति कार्यगौरवादीश्वरेण रुरुचे न मेदिनी ।
सोद्यमेन पुनोऽप्यवैष्यता भानुनेव पदवी पय्ॐउचां॥ ८-४५॥

आपपात सरमाङ्गदः क्षणात्सर्वतः सस्तमसाविले बिले ।
गूढमत्सरविषे विशेषवान्दुर्जनस्य मनसीव सद्गुणः ॥८-४६॥

यद्बभूव पुरतोऽस्य भूपतेरेककुण्डलपटासितं तमः ।
तस्य तद्दिनकरांशुभासुरैर्मौलिरत्नकिरणैरभज्यत ॥८-४७॥

सन्द्रहेमरजसा महौजसां अग्रणीरगरुधूपगन्धिना ।
सोऽथ तेन बिलवर्त्मना शनैः क्रोशमात्रं अगमन्नरेश्वरः ॥८-४८॥


_

सिंहदर्शनम्

लग्नसान्द्रगजशोणितच्छटैः शौर्यपावकशिखाङ्कुरैरिव ।
केसरैरतिकरालकन्धरो मार्गं अस्य रुरुधेऽथ केसरी ॥८-४९॥

मुक्तघर्घररवः स रंहसा तं विशामधिपं अभ्यधावत ।
व्यात्तदीर्घदशनास्यकन्दरः पूर्णं इन्दुं इव सिंहिकासुतः ॥८-५०॥

अर्धचन्द्रं अथ तज्जिघांसया संदधे धनुषि यावदीश्वरः ।
तावदस्फुटितकोरकं पुरो बालकुन्दविटपं तं ऐक्षत ॥८-५१॥

बिभ्रतो विकटदंष्ट्रं आननं कालमेघशकलासितत्विषः ।
आयतोऽभिमुखं ईर्ष्यया जवात्तेन वर्त्म मुमुचे न पोत्रिणः ॥८-५२॥


_

गजदर्शनम्

किं चिदस्य पुरतोऽथ गच्छतः कर्णतालविधुतालिपङ्क्तिना ।
रुद्ध्यते स्म समदेन पद्धतिर्दीर्घदन्तमुसलेन दन्तिना ॥८-५३॥

मन्द्रकण्ठनिनदोऽतिवेगवानूर्ध्ववालधिरुदग्रलोचनः ।
कुण्डलीकृतकरस्तं अभ्यगात्सः क्रुधा निभृतकर्णपल्लवः ॥८-५४॥

यावदङ्कुरितमत्सरोऽभवत्तस्य संमुखं अधिज्यकार्मुकः ।
तावदैक्षत न सः क्व चिद्द्विपं राजगन्धमदगन्धकेसरी ॥८-५५॥

उत्पतन्निपतदग्रतो मुहुर्मुञ्चदट्टहसितं सहार्चिषा ।
केवलं कपिलकुन्तलं शिरः पश्यतोऽस्य न चमत्कृतं मनः ॥८-५६॥

एवमादि यदभून्महीपतेरद्भुतं पथि बिभीषिकावहं  ।
तद्बिभेद निजसत्त्वसम्पदा तिग्मदीधितिरिव त्विषा तमः ॥८-५७॥


_

सरिदुत्तरणम्

तां ददर्श सरितं सुदुस्तरां अग्रतोऽथ बिलकल्पविन्नृपः ।
स्पर्शतः किल यदम्भसां झटित्यश्मभावं उपयान्त्यसूरयः ॥८-५८॥

मारुतैरपरपारनुन्नया प्रांशु वंशलतया सः सानुगः ।
तां अलङ्घयदथोपगूढया जन्मभीतिं इव योगविद्यया ॥८-५९॥


_
नगरदर्शनम्

प्रस्थितस्तदनु सोद्यमं पुरः स अथ साहसवतां पुरःसरः ।
निर्मितं मणिमयूखपल्लवैर्बालं आतपं इव व्यलोकत ॥८-६०॥

इन्द्रनीलकपिशीर्षकं ततः स अभितः स्फटिकसालं ऐक्षत ।
सावशेषजलनीलकोटिभिः शारदैर्घटितं अम्बुदैरिव ॥८-६१॥

उत्पताकमणितोरणाङ्कितं मण्दितं कनकपल्लवस्रजा ।
किं च काञ्चनकपाटसंपुटं तत्र गोपुरं अपश्यदीश्वरः ॥८-६२॥

विस्मयेन विषयीकृतः पुरं तेन स अविशदवन्तिवासवः ।
निर्वृतैः पदं इवोज्झितावनिः सूर्यमण्डलपथेन योगवान्॥ ८-६३॥

तत्र वैद्रुमगवाक्षं उच्छ्रितं हेमहर्म्यं अवलोकते स्म स ।
मेरुशृङ्गं इव धातुताम्रया सन्ध्यया कृतपदं क्व चित्क्व चिथ् ॥८-६४॥

अग्रतः सश्च यशोभटोऽविशत्सोऽथ कौतुकहृतस्तदङ्गणं  ।
इन्द्रनीलमणिकान्तिमेचकं व्य्ॐअ सारुण इवोष्णदीधितिः ॥८-६५॥

पद्मरागरचितालवालका वेदिकामणिविटङ्कविस्तृता ।
तेन तत्र ददृशे कुतूहलादन्तिके कनकमाधवीलता ॥८-६६॥


_

स्त्रीदर्शनम्

तत्तले स्थितिं उपेयुषा शमात्तेन का चिदबला व्यलोकत ।
निर्गता झटिति हेमवेश्मतः श्रीः सुवर्णकमलोदरादिव ॥८-६७॥

अंशुकेन शरदिन्दुबन्धुना त्यागितेव यशसावभासिता ।
कान्तिमत्यधरनीलवाससा यामुनेन पयसेव जाह्नवी ॥८-६८॥

बन्धुजीवकुमुदछवी मुखे बिभ्रतीव कुरुविन्दकुण्डले ।
शर्वरीव सितपक्षपर्वणः शीतदीधितिपतङ्गमण्डले ॥८-६९॥

शोभिता किं अपि हारलेखया भिन्नखेललोलयोरसि ।
तत्क्षणस्फुटितकुन्दशुद्धया गन्धवाहपदवीव गङ्गया ॥८-७०॥

आननेन ललिताक्षिपक्ष्मणा निर्यदुज्ज्वलकपोलकान्तिना ।
कुर्वतीव फणिलोकं अङ्कितं यामिनीतिलकबिन्दुनेन्दुना ॥८-७१॥

पुष्पदाम दधती सषट्पदं दक्षिणेन शशिपाण्डुपाणिना ।
साक्षतं सदधिदूर्वयाञ्चितं हेमपात्रं इतरेण बिभ्रती ॥८-७२॥

तन्निरीक्षणसविस्मयं ततः पार्थिवं जनितकौतुकः शुकः ।
इत्युवाच मणिपञ्जरे स्थितो बालचूतविटपावलम्बिनि ॥८-७३॥


_

शुकवाक्यम्

सत्क्रियां रचयितुं तवातिथेर्नर्मदा भगव्तीयं उद्यता ।
श्लाघनीयचरितो जगत्त्रये कस्य नासि बहुमानभाजनं॥ ८-७४॥

देव पन्नगवधूभिरुज्ज्वलं वल्लकीकलरवं प्रियैः सह ।
मल्लिकाधवलं अत्र गीयते केलिरत्नभवनेषु ते यशः ॥८-७५॥

दुर्मना नृप, पथामुना गता सा विलासवसतिः शशिप्रभा ।
तत्सखीजनकथान्वयश्रुतेर्युष्मदागमनं ऊहितं मया ॥८-७६॥

दुर्लभोऽयं अतिथिर्ममापि तद्गुह्यतां उचितया सपर्यया ।
पार्थिवो हि नवसाहसाङ्क इत्येष सीयकनरेन्द्रनन्दनः ॥८-७७॥

पेशलोक्तिनिपुणस्य पक्षिणस्तस्य गां इति निशम्य सस्मितः ।
तां अथ प्रणमति स्म निम्नगां इन्दुसूतिं अवनीन्दुरादृतः ॥८-७८॥


_

नर्मदाकृतः सत्कारः

कारितासनपरिग्रहे पुरो भूपतावपचितिं विधाय सा ।
आस्त मौक्तिकशिलातले ततश्चेतसीव सुकवेः सरस्वती ॥८-७९॥

स्थित्वाथ किं चित्तं अवन्तिनाथं अपृच्छदच्छन्नकुतूहला सा ।
निवेद्यतां मानवदेव कस्मादलङ्कृता भूमिरियं त्वयेति ॥८-८०॥

तस्यै शशंस निजं आ मृगयाविहाराद्वृत्तान्तं अन्तविरसं स विशुद्धवृत्तिः ।
कान्तास्मृतिप्रसभकण्टकिताङ्गजात- लज्जावनम्रवदनो नवसाहसाङ्कः ॥८-८१॥

इति परिमलापरनाम्नो मृगाङ्कदत्तसूनोः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते नागलोकावतारो नामाष्टमः सर्गः समाप्तः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP