चतुर्थप्रपाठकः - दशमी दशतिः

यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे.


इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यं ।
विदे वृधस्य दक्षस्य महां हि षः ॥३८१॥
तमु अभि प्र गायत पुरुहूतं पुरुष्टुतं ।
इन्द्रं गीर्भिस्तविषमा विवासत ॥३८२॥
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिं ।
उ लोककृत्नुमद्रिवो हरिश्रियं ॥३८३॥
यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।
यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥३८४॥
एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः ।
एवा हि वीरस्तवते सदावृधः ॥३८५॥
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
प्र राधांसि चोदयते महित्वना ॥३८६॥
एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरं ।
कृष्टीर्यो विश्वा अभ्यस्त्येक इथ् ॥३८७॥
इन्द्राय साम गायत विप्राय बृहते बृहत् ।
ब्रह्मकृते विपश्चिते पनस्यवे ॥३८८॥
य एक इद्विदयते वसु मर्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥३८९॥
सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे ।
स्तुष ऊ षु वो नृतमाय धृष्णवे ॥३९०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP