रसरत्नाकर - प्रकरण ३.१

रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी  एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात  मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे  वर्णन आहे.


येन सृष्टं विदा चिदात्मस्वमरुत्तेजोजलोर्वीगणाः सत्संविच्छिवशक्तिभैरवकलाः श्रीकण्ठपञ्चाननः ।
ईशो रुद्रमुरारिधातृविबुधाश्चन्द्रार्कतारागणाः सोऽयं पातु चराचरं जगदिदं निर्नामनामाधिपः ॥१.१॥
सूते सूतवरो वरं च कनकं शब्दात्परं स्पर्शनाद्धूमाद्विध्यति तत्क्षणादघहरं संख्यां सखर्वांशतः ।
संख्यां अर्बुदकोटिलक्षमयुतं युक्त्या सहस्रं शतं दत्ते खेगतिमक्षयं शिवपदं तस्मै परस्मै नमः ॥१.२॥
नत्वा श्रीपार्वतीं देवीं भैरवं सिद्धसंततिम् ।
रसरत्नाकरं वक्ष्ये देहे लोहे शिवंकरम् ॥१.३॥
{रसनामानि}
शिवबीजः सूतराजः पारदश्च रसेन्द्रकः ।
एतानि रसनामानि तथान्यानि शिवे यथा ॥१.४॥
दत्ते शिवपदं सिद्धिं साधकानां महोत्तमाम् ।
शिवबीजं तदाख्यातं सर्वसिद्धिप्रदायकम् ॥१.५॥
{मेर्चुर्यः: निरुक्ति}
यतः परशिवात्सूतस्तेन सूतः स चोदितः ।
संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः ॥१.६॥
रसीभवन्ति लोहानि देहा अपि सुसेवनात् ।
रसेन्द्रस्तेन विख्यातो द्रवत्वाच्च रसः स्मृतः ॥१.७॥
रसशास्त्रेषु सर्वेषु शम्भुना सूचितं पुरा ।
रसो रसायनं दिव्यं सूचनान्नैव बुध्यते ॥१.८॥
सिद्धैः शिवमुखात्प्राप्तं तेषां सिद्धिस्तु साधनात् ।
सम्प्रदायक्रमो युक्तिस्तैः स्वशास्त्रेषु गोपिता ॥१.९॥
मयापि तन्मुखात्प्राप्तं साधितं बहुधा ततः ।
रसशास्त्राणि सर्वाणि समालोक्य यथाक्रमम् ॥१.१०॥
साधकानां हितार्थाय प्रकटीक्रियतेऽधुना ।
न क्रमेण विना शास्त्रं न शास्त्रेण विना क्रमः ॥१.११॥
शास्त्रं क्रमयुतं ज्ञात्वा यः करोति स सिद्धिभाक् ।
{आचार्य}
आचार्यो ज्ञानवान्दक्षो रसशास्त्रविशारदः ॥१.१२॥
मन्त्रसिद्धो महावीरो निश्चलः शिववत्सलः ।
देवीभक्तः सदा धीरो देवतायागतत्परः ॥१.१३॥
सर्वाम्नायविशेषज्ञः कुशलो रसकर्मणि ।
एवं लक्षणसंयुक्तो रसविद्यागुरुर्भवेत् ॥१.१४॥
{शिष्य}
गुरुभक्ताः सदाचाराः सत्यवन्तो दृढव्रताः ।
निरालसाः स्वधर्मज्ञाः सदाज्ञापरिपालकाः ॥१.१५॥
दम्भमात्सर्यनिर्मुक्ताः कुलाचारेषु दीक्षिताः ।
अत्यन्तसाधकाः शान्ता मन्त्राराधनतत्पराः ॥१.१६॥
इत्येवं लक्षणैर्युक्ताः शिष्याः स्यू रससिद्धये ।
{अनुचराः}
सहायाः सोद्यमाः सर्वे यथा शिष्यास्ततोऽधिकाः ॥१.१७॥
कुलीनाः स्वामिभक्ताश्च कर्तव्या रसकर्मणि ।
{बदल्छेमिस्त्स्}
नास्तिका ये दुराचाराश्चुम्बका गुरुतल्पगाः ॥१.१८॥
विद्यां गृहीतुमिच्छन्ति चौर्येण च बलाच्छलात् ।
न तेषां सिध्यते किंचिन्मणिमन्त्रौषधादिकम् ॥१.१९॥
कुर्वन्ति यदि मोहेन नाशयन्ति स्वकं धनम् ।
इह लोके सुखं नास्ति परलोके तथैव च ॥१.२०॥
तस्माद्भक्तिबलादेव संतुष्यति यथा गुरुः ।
तथा शिष्येण सा ग्राह्या रसविद्यात्मसिद्धये ॥१.२१॥
हस्तमस्तकयोगेन वरं लब्ध्वा सुसाधयेत् ।
{रसशाला}
आतङ्करहिते देशे धर्मराज्ये मनोरमे ॥१.२२॥
उमामहेश्वरोपेते समृद्धे नगरे शुभे ।
कर्तव्यं साधनं तत्र रसराजस्य धीमता ॥१.२३॥
अत्यन्तोपवने रम्ये चतुर्द्वारोपशोभिते ।
तत्र शाला प्रकर्तव्या सुविस्तीर्णा मनोरमा ॥१.२४॥
सम्यग्वातायनोपेता दिव्यचित्रैर्विचित्रिता ।
{रसमण्डप}
तत्समीपे समे दीर्घे कर्तव्यं रसमण्डपम् ॥१.२५॥
अतिगुप्तं सुविस्तीर्णकपाटार्गलभूषितम् ।
ध्वजछत्त्रवितानाढ्यं पुष्पमालाविलम्बितम् ॥१.२६॥
भेरीकाकलघण्टादिशृङ्गिनादविनादितम् ।
भूः समा तत्र कर्तव्या सुदृढा दर्पणोपमा ॥१.२७॥
तन्मध्ये वेदिका रम्या कर्तव्या लक्षणान्विता ।
{रसलिङ्ग}
निष्कत्रयं हेमपत्त्रं रसेन्द्रो नवनिष्ककम् ॥१.२८॥
अम्लेन मर्दयेद्यामं तेन लिङ्गं तु कारयेत् ।
दोलायन्त्रे सारनाले जम्बीरस्थं दिनं पचेत् ॥१.२९॥
{रसलिङ्गः: wओर्शिप्}
तल्लिङ्गं पूजयेत्तत्र सुशुभैरुपचारकैः ।
लिङ्गकोटिसहस्रस्य यत्फलं सम्यगर्चनात् ॥१.३०॥
तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ।
ब्रह्महत्यासहस्राणि गोहत्याप्रयुतान्यपि ॥१.३१॥
तत्क्षणाद्विलयं यान्ति रसलिङ्गस्य दर्शनात् ।
स्पर्शनात्प्राप्यते मुक्तिरिति सत्यं शिवोदितम् ।
वाङ्मायां श्रीमद्घोरेण मन्त्रराजेन वार्चयेत् ॥१.३२॥
अष्टादशभुजं शुभ्रं पञ्चवक्त्रं त्रिलोचनम् ॥१.३३॥
प्रेतारूढं नीलकण्ठं रसलिङ्गं विचिन्तयेत् ।
तस्योत्सङ्गे महादेवीं एकवक्त्रां चतुर्भुजाम् ॥१.३४॥
अक्षमालाङ्कुशं दक्षे वामे पाशाभयं शुभम् ।
दधन्तीं तप्तहेमाभां पीतवस्त्रां विचिन्तयेत् ॥१.३५॥
वाङ्माया श्री कामराजशक्तिर्बीजरसाङ्कुशा ।
यै नमो द्वादशैतेषां कामविद्या रसाङ्कुशा ॥१.३६॥
अनया पूजयेद्देवीं गन्धपुष्पाक्षतादिभिः ।
नन्दिभृङ्गिमहाकालान्पूजयेत्पूर्वदिक्क्रमात् ॥१.३७॥
पूजयेन्नाममन्त्रैस्तु प्रणवादिनमोऽन्तकैः ।
एवं नित्यार्चनं तत्र कर्तव्यं रससिद्धये ॥१.३८॥
{रसदीक्षा}
रसदीक्षा शिवेनोक्ता दातव्या साधकाय वै ।
यथोक्तेन विधानेन गुरुणा मुदितात्मना ॥१.३९॥
सुमुहूर्ते सुनक्षत्रे चन्द्रताराबलान्विते ।
कलशं तोयसम्पूर्णं हेमरत्नफलैर्युतम् ॥१.४०॥
स्थापयेद्रसलिङ्गाग्रे दिव्यवस्त्रेण वेष्टितम् ।
गन्धपुष्पाक्षतधूपदीपैर्नैवेद्यतोऽर्चयेत् ॥१.४१॥
पूजान्ते हवनं कुर्याद्योनिकुण्डे सुलक्षणे ।
तिलाज्यैः पायसैः पुष्पैरष्टाधिकशतैः पृथक् ॥१.४२॥
अघोरेण रसाङ्कुश्या होमान्ते शिष्यमावहेत् ।
काकिनीशक्तिसंयुक्तं रससिद्धिपरायणम् ॥१.४३॥
{काकिनी (देफ़्.)}
यस्याः संकुचिताः केशाः श्यामा या पद्मलोचना ।
सुरूपा तरुणी चित्रा विस्तीर्णजघना शुभा ॥१.४४॥
संकीर्णरदना पीनस्तनभारेण चानता ।
चुम्बनालिङ्गनस्पर्शकोमला मृदुभाषिणी ॥१.४५॥
अश्वत्थपत्त्रसदृशयोनिदेशेन शोभिता ।
कृष्णपक्षे पुष्पवती सा नारी काकिनी स्मृता ॥१.४६॥
रसबन्धे प्रयोगे च उत्तमा रससाधने ।
{काकिणीः: सुब्स्तितुते}
तदभावे सुरूपा तु या काचित्तरुणाङ्गना ॥१.४७॥
तस्या देयं त्रिसप्ताहं गन्धकं घृतसंयुतम् ।
कर्षैकैकं प्रभाते तु सा भवेत्काकिनीसमा ॥१.४८॥
{रसदीक्षा (चोन्त्.)}
एवं शक्तियुतो योऽसौ दीक्षयेत्तं गुरूत्तमः ।
सुस्नातं अभिषिञ्चेत विमलैः कलशोदकैः ॥१.४९॥
अघोरमङ्कुशीं विद्यां दद्याच्छिष्याय सद्गुरुः ।
यथाशक्त्याथ शिष्येण दातव्या गुरुदक्षिणा ॥१.५०॥
अथाज्ञया गुरोर्मन्त्रं लक्षं लक्षं पृथग्जपेत् ।
दशांशेन हुनेत्कुण्डे त्रिकोणे हस्तमात्रके ॥१.५१॥
कमलं चतुरस्रं च चतुर्द्वारैः सुशोभितम् ।
जातिपुष्पं त्रिमध्वक्तं पूर्णान्ते कन्यकार्चनम् ।
कृत्वाथ प्रविशेच्छालां शुभां लिप्तां सुवेदिकाम् ॥१.५२॥
षट्कोणं मण्डलं तत्र सिन्दूरेण द्विहस्तकम् ।
वेदिकायां लिखेत्सम्यक्तद्बहिश्चाष्टपत्त्रकम् ॥१.५३॥
कमलं चतुरस्रं च चतुर्द्वारेषु शोभितम् ।
कर्णिकायां न्यसेत्खल्वं लोहजं स्वर्णरेखितम् ॥१.५४॥
तन्मध्ये रसराजं तु पलानां शतमात्रकम् ।
पञ्चाशत्पञ्चविंशं वा पूजयेद्रसलिङ्गवत् ॥१.५५॥
वज्रवैक्रान्तवज्राभ्रकान्तपाषाणटङ्कणम् ।
भूनागं शक्तयश्चैताः षट्सु पत्त्रेषु पूजयेत् ॥१.५६॥
{उपरसाः}
गन्धतालककासीसशिलाकङ्कुष्ठभूखगम् ।
राजावर्तो गैरिकं च ख्याता उपरसा अमी ॥१.५७॥
{उपरसः: wओर्शिप्}
पूज्या अष्टदलेष्वेते पूर्वादीशान्तगाः क्रमात् ।
{महारसाः}
रसकं विमला ताप्यं चपला तुत्थमञ्जनम् ॥१.५८॥
हिङ्गुलं सस्यकं चैव ख्याता एते महारसाः ।
पूर्वादीशानपर्यन्तं पत्त्राग्रेषु प्रपूजयेत् ॥१.५९॥
पूर्वद्वारे स्वर्णरौप्ये दक्षिणे ताम्रसीसके ।
पश्चिमे वङ्गकान्तौ च उत्तरे तीक्ष्णमुण्डके ॥१.६०॥
सर्वमेतमघोरेण पूजयेदङ्कुशान्वितम् ।
{आउस्स्तत्तुन्ग्देसाल्छेमिस्तेन्}
विडकाञ्जिकयन्त्राणि क्षारमृल्लवणानि च ॥१.६१॥
कोष्ठी मूषा वङ्कनाली तुषाङ्गारवनोपलाः ।
भस्त्रिका दंशकानेका शिला खल्वोऽप्युदूखलम् ॥१.६२॥
स्वर्णकारोपकरणं समस्ततुलनानि च ।
मृत्काष्ठताम्रलोहाद्यपात्राणि विविधानि च ॥१.६३॥
दिव्यौषधानि वर्गाश्च रञ्जकं स्नेहनानि च ।
एतानि द्वारबाह्ये तु मूलमन्त्रेण पूजयेत् ॥१.६४॥
वाङ्मायां हें ततः क्ष्में च क्ष्मश्च पञ्चाक्षरो मनुः ।
अनेन मूलमन्त्रेण भैरवं तत्र पूजयेत् ॥१.६५॥
{रससिद्धस्}
सर्वेषां रससिद्धानां नामानि कीर्तयेत्तदा ।
व्यालाचार्यश्चन्द्रसेनः सुबुद्धिर्नरवाहनः ॥१.६६॥
नागार्जुनो रत्नघोषः सुरानन्दो यशोधरः ।
इन्द्रद्युम्नश्च माण्डव्यश्चर्पटिः शूरसेनकः ॥१.६७॥
वाडबो नागबुद्धिश्च खण्डः कापालिको हरः ।
कामली तात्त्विकः शम्भुर्लोको लम्पटशारदौ ॥१.६८॥
बाणासुरो मुनिश्रेष्ठो गोविन्दः कपिलो बलिः ।
एते सर्वे तु भूपेन्द्रा रससिद्धा महाबलाः ॥१.६९॥
चरन्ति सर्वलोकेषु निर्जरामरणाः सदा ।
सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः ॥१.७०॥
वन्द्याः पूज्याः प्रयत्नेन ततः कुर्याद्रसायनम् ।
हर्षयेद्द्विजदेवांश्च तर्पयेदिष्टदेवताम् ॥१.७१॥
कुमारीयोगिनीयोगिमुनिमायिकसाधकान् ।
तर्पयेत्पूजयेद्भक्त्या निजशक्त्यनुसारतः ॥१.७२॥
इत्येवं सर्वसम्भारयुक्तं कुर्याद्रसोत्सवम् ।
सर्वविघ्नप्रशान्त्यर्थं सर्वेप्सितफलप्रदम् ॥१.७३॥
अन्यथा चेद्विमूढात्मा मन्त्रदीक्षाक्रमं विना ।
कर्तुमिच्छति सूतस्य साधनं गुरुवर्जितः ॥१.७४॥
नासौ सिद्धिमवाप्नोति यत्नकोटिशतैरपि ।
तस्मात्सर्वप्रयत्नेन शास्त्रोक्तां कारयेत्क्रियाम् ॥१.७५॥
सम्यक्साधनसोद्यमा गुरुयुता राजाज्ञयालंकृता नानाकर्मणि कोविदा रसपरास्त्वाढ्या जनैश्चार्थिताः ।
मात्रायन्त्रसुपाककर्मकुशलाः सर्वौषधीकोविदास्तेषां सिध्यति नान्यथा विधिबलात्श्री पारदः पारदः ॥१.७६॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP