अथर्ववेदः - काण्डं ९

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


९,१।१अ - दिवस् पृथिव्या अन्तरिक्षात् समुद्राद् अग्नेर् वातान् मधुकशा हि जज्ञे ।
९,१।१च् - तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥१॥

९,१।२अ - महत् पयो विश्वरूपम् अस्याः समुद्रस्य त्वोत रेत आहुः ।
९,१।२च् - यत अइति मधुकशा रराणा तत् प्राणस् तद् अमृतं निविष्टम् ॥२॥

९,१।३अ - पश्यन्त्य् अस्याश् चरितं पृथिव्यां पृथङ् नरो बहुधा मीमांसमानाः ।
९,१।३च् - अग्नेर् वातान् मधुकशा हि जज्ञे मरुताम् उग्रा नप्तिः ॥३॥

९,१।४अ - मातादित्यानां दुहिता वसूनां प्राणः प्रजानाम् अमृतस्य नाभिः ।
९,१।४च् - हिरण्यवर्णा मधुकशा घृताची महान् भर्गश् चरति मर्त्येषु ॥४॥

९,१।५अ - मधोः कशाम् अजनयन्त देवास् तस्या गर्भो अभवद् विश्वरूपः ।
९,१।५च् - तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥५॥

९,१।६अ - कस् तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः ।
९,१।६च् - ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥६॥

९,१।७अ - स तौ प्र वेद स उ तौ चिकेत याव् अस्याः स्तनौ सहस्रधाराव् अक्षितौ ।
९,१।७च् - ऊर्जं दुहाते अनपस्फुरन्तौ ॥७॥

९,१।८अ - हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम् ।
९,१।८च् - त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः ॥८॥

९,१।९अ - याम् आपीनाम् उपसीदन्त्य् आपः शाक्वरा वृषभा ये स्वराजः ।
९,१।९च् - ते वर्षन्ति ते वर्षयन्ति तद्विदे कामम् ऊर्जम् आपः ॥९॥

९,१।१०अ - स्तनयित्नुस् ते वाक् प्रजापते वृषा शुष्मं क्षिपसि भूम्याम् अधि ।
९,१।१०च् - अग्नेर् वातान् मधुकशा हि जज्ञे मरुताम् उग्रा नप्तिः ॥१०॥ (१)

९,१।११अ - यथा सोमः प्रातःसवने अश्विनोर् भवति प्रियः ।
९,१।११च् - एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥११॥

९,१।१२अ - यथा सोमो द्वितीये सवन इन्द्राग्न्योर् भवति प्रियः ।
९,१।१२च् - एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् ॥१२॥

९,१।१३अ - यथा सोमस् तृतीये सवन ऋभूणां भवति प्रियः ।
९,१।१३च् - एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥१३॥

९,१।१४अ - मधु जनिषीय मधु वंसिषीय ।
९,१।१४च् - पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१४॥

९,१।१५अ - सं माग्ने वर्चसा सृज सं प्रजया सम् आयुषा ।
९,१।१५च् - विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥१५॥

९,१।१६अ - यथा मधु मधुकृतः संभरन्ति मधाव् अधि ।
९,१।१६च् - एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥१६॥

९,१।१७अ - यथा मक्षाः इदं मधु न्यञ्जन्ति मधाव् अधि ।
९,१।१७च् - एवा मे अश्विना वर्चस् तेजो बलम् ओजश् च ध्रियताम् ॥१७॥

९,१।१८अ - यद् गिरिषु पर्वतेषु गोष्व् अश्वेषु यन् मधु ।
९,१।१८च् - सुरायां सिच्यमानायां यत् तत्र मधु तन् मयि ॥१८॥

९,१।१९अ - अश्विना सारघेण मा मधुनाङ्क्तं शुभस् पती ।
९,१।१९च् - यथा वर्चस्वतीं वाचम् आवदानि जनां अनु ॥१९॥

९,१।२०अ - स्तनयित्नुस् ते वाक् प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि ।
९,१।२०च् - तां पशव उप जीवन्ति सर्वे तेनो सेषम् ऊर्जं पिपर्ति ॥२०॥

९,१।२१अ - पृथिवी दण्ढो 'न्तरिक्षं गर्भो द्यौः कशा विद्युत् प्रकशो हिरण्ययो बिन्दुः ॥२१॥

९,१।२२अ - यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति ।
९,१।२२च् - ब्राह्मणश् च राजा च धेनुश् चानढ्वांश् च व्रीहिश् च यवश् च मधु सप्तमम् ॥२२॥

९,१।२३अ - मधुमान् भवति मधुमद् अस्याहार्यं भवति ।
९,१।२३च् - मधुमतो लोकान् जयति य एवं वेद ॥२३॥

९,१।२४अ - यद् वीध्रे स्तनयति प्रजापतिर् एव तत् प्रजाभ्यः प्रादुर् भवति ।
९,१।२४च् - तस्मात् प्राचीनोपवीतस् तिष्ठे प्रजापते 'नु मा बुध्यस्वेति ।
९,१।२४ए - अन्व् एनं प्रजा अनु प्रजापतिर् बुध्यते य एवं वेद ॥२४॥ (२)


९,२।१अ - सपत्नहनम् ऋषभं घृतेन कामं शिक्षामि हविषाज्येन ।
९,२।१च् - नीचैः सपत्नान् मम पदय त्वम् अभिष्टुतो महता वीर्येण ॥१॥

९,२।२अ - यन् मे मनसो न प्रियं चक्षुषो यन् मे बभस्ति नाभिनन्दति ।
९,२।२च् - तद् दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं स्तुत्वोद् अहं भिदेयम् ॥२॥

९,२।३अ - दुष्वप्न्यं काम दुरितं च कमाप्रजस्ताम् अस्वगताम् अवर्तिम् ।
९,२।३च् - उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यम् अंहूरणा चिकित्सात् ॥३॥

९,२।४अ - नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः ।
९,२।४च् - तेषां नुत्तानाम् अधमा तमांस्य् अग्ने वास्तूनि निर् दह त्वम् ॥४॥

९,२।५अ - सा ते काम दुहिता धेनुर् उच्यते याम् आहुर् वाचं कवयो विराजम् ।
९,२।५च् - तया सपत्नान् परि वृङ्ग्धि ये मम पर्य् एनान् प्राणः पशवो जीवनं वृणक्तु ॥५॥

९,२।६अ - कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर् बलेन सवितुः सवेन ।
९,२।६च् - अग्नेर् होत्रेण प्र णुदे सपत्नां छम्बीव नावम् उदकेषु धीरः ॥६॥

९,२।७अ - अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यम् असपत्नम् एव ।
९,२।७च् - विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवम् आ यन्तु म इमम् ॥७॥

९,२।८अ - इदम् आज्यं घृतवज् जुषाणाः कामज्येष्ठा इह मादयध्वम् ।
९,२।८च् - कृण्वन्तो मह्यम् असपत्नम् एव ॥८॥

९,२।९अ - इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथः ।
९,२।९च् - तेषां पन्नानाम् अधमा तमांस्य् अग्ने वास्तून्य् अनुनिर्दह त्वम् ॥९॥

९,२।१०अ - जहि त्वम् काम मम ये सपत्ना अन्धा तमांस्य् अव पादयैनान् ।
९,२।१०च् - निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच् चनाहः ॥१०॥ (३)

९,२।११अ - अवधीत् कामो मम ये सपत्ना उरुं लोकम् अकरन् मह्यम् एधतुम् ।
९,२।११च् - मह्यं नमन्तां प्रदिशश् चतस्रो मह्यं षढ् उर्वीर् घृतम् आ वहन्तु ॥११॥

९,२।१२अ - ते 'धराञ्चः प्र प्लवन्तां छिन्ना नौर् इव बन्धनात् ।
९,२।१२च् - न सायकप्रणुत्तानां पुनर् अस्ति निवर्तनम् ॥१२॥

९,२।१३अ - अग्निर् यव इन्द्रो यवः सोमो यवः ।
९,२।१३च् - यवयावानो देवा यवयन्त्व् एनम् ॥१३॥

९,२।१४अ - असर्ववीरश् चरतु प्रणुत्तो द्वेष्यो मित्रानां परिवर्ग्यः स्वानाम् ।
९,२।१४च् - उत पृथिव्याम् अव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत् सपत्नान् ॥१४॥

९,२।१५अ - च्युता चेयं बृहत्य् अच्युता च विद्युद् बिभर्ति स्तनयित्नूंश् च सर्वान् ।
९,२।१५च् - उद्यन्न् आदित्यो द्रविणेन तेजसा नीचैः सपत्नान् नुदतां मे सहस्वान् ॥१५॥

९,२।१६अ - यत् ते काम शर्म त्रिवरूथम् उद्भु ब्रह्म वर्म विततम् अनतिव्याध्यं कृतम् ।
९,२।१६च् - तेन सपत्नान् परि वृङ्ग्धि ये मम पर्य् एनान् प्राणः पशवो जीवनं वृणक्तु ॥१६॥

९,२।१७अ - येन देवा असुरान् प्राणुदन्त येनेन्द्रो दस्यून् अधमं तमो निनाय ।
९,२।१७च् - तेन त्वं काम मम ये सपत्नास् तान् अस्माल् लोकात् प्र णुदस्व दूरम् ॥१७॥

९,२।१८अ - यथा देवा असुरान् प्राणुदन्त यथेन्द्रो दस्यून् अधमं तमो बबाधे ।
९,२।१८च् - तथा त्वं काम मम ये सपत्नास् तान् अस्माल् लोकात् प्र णुदस्व दूरम् ॥१८॥

९,२।१९अ - कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः ।
९,२।१९च् - ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृनोमि ॥१९॥

९,२।२०अ - यावती द्यावापृथिवी वरिम्णा यावद् आपः सिष्यदुर् यावद् अग्निः ।
९,२।२०च् - ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृणोमि ॥२०॥ (४)

९,२।२१अ - यावतीर् दिशः प्रदिशो विषूचीर् यावतीर् आशा अभिचक्षणा दिवः ।
९,२।२१च् - ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृणोमि ॥२१॥

९,२।२२अ - यावतीर् भृङ्गा जत्वः कुरूरवो यावतीर् वघा वृक्षसर्प्यो बभूवुः ।
९,२।२२च् - ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृणोमि ॥२२॥

९,२।२३अ - ज्यायान् निमिषतो 'सि तिष्ठतो ज्यायान्त् समुद्राद् असि काम मन्यो ।
९,२।२३च् - ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृनोमि ॥२३॥

९,२।२४अ - न वै वातश् चन कामम् आप्नोति नाग्निः सूर्यो नोत चन्द्रमाः ।
९,२।२४च् - ततस् त्वम् असि ज्यायान् विश्वहा महांस् तस्मै ते काम नम इत् कृणोमि ॥२४॥

९,२।२५अ - यास् ते शिवास् तन्वः काम भद्रा याभिः सत्यं भवति यद् वृणिषे ।
९,२।२५च् - ताभिष् ट्वम् अस्मां अभिसंविशस्वान्यत्र पापीर् अप वेशया धियः ॥२५॥ (५)


९,३।१अ - उपमितां प्रतिमिताम् अथो परिमिताम् उत ।
९,३।१च् - शालाया विश्ववाराया नद्धानि वि चृतामसि ॥१॥

९,३।२अ - यत् ते नद्धं विश्ववारे पाशो ग्रन्थिश् च यः कृतः ।
९,३।२च् - बृहस्पतिर् इवाहं बलं वाचा वि स्रंसयामि तत् ॥२॥

९,३।३अ - आ ययाम सं बबर्ह ग्रन्थींश् चकार ते दृडान् ।
९,३।३च् - परूंषि विद्वां छस्तेवेन्द्रेण वि चृतामसि ॥३॥

९,३।४अ - वंशानां ते नहनानां प्राणाहस्य तृणस्य च ।
९,३।४च् - पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥४॥

९,३।५अ - संदंशानां पलदानां परिष्वञ्जल्यस्य च ।
९,३।५च् - इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥५॥

९,३।६अ - यानि ते 'न्तः शिक्यान्य् आबेधू रण्याय कम् ।
९,३।६च् - प्र ते तानि चृतामसि शिवा मानस्य पत्नि न उद्धिता तन्वे भव ॥६॥

९,३।७अ - हविर्धानम् अग्निशालं पत्नीनां सदनं सदः ।
९,३।७च् - सदो देवानाम् असि देवि शाले ॥७॥

९,३।८अ - अक्षुम् ओपशं विततं सहस्राक्षं विषूवति ।
९,३।८च् - अवनद्धम् अभिहितं ब्रह्मणा वि चृतामसि ॥८॥

९,३।९अ - यस् त्वा शाले प्रतिगृह्णाति येन चासि मिता त्वम् ।
९,३।९च् - उभौ मानस्य पत्नि तौ जीवतां जरदष्टी ॥९॥

९,३।१०अ - अमुत्रैनम् आ गछताद् दृडा नद्धा परिष्कृता ।
९,३।१०च् - यस्यास् ते विचृतामस्य् अङ्गमङ्गं परुष्परुः ॥१०॥ (६)

९,३।११अ - यस् त्वा शाले निमिमाय संजभार वनस्पतीन् ।
९,३।११च् - प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः ॥११॥

९,३।१२अ - नमस् तस्मै नमो दात्रे शालापतये च कृण्मः ।
९,३।१२च् - नमो 'ग्नये प्रचरते पुरुषाय च ते नमः ॥१२॥

९,३।१३अ - गोभ्यो अश्वेभ्यो नमो यच् छालायां विजायते ।
९,३।१३च् - विजावति प्रजावति वि ते पाशांश् चृतामसि ॥१३॥

९,३।१४अ - अग्निम् अन्तश् छादयसि पुरुषान् पशुभिः सह ।
९,३।१४च् - विजावति प्रजावति वि ते पाशांश् चृतामसि ॥१४॥

९,३।१५अ - अन्तरा द्यां च पृथिवीं च यद् व्यचस् तेन शालां प्रति गृह्णामि त इमाम् ।
९,३।१५च् - यद् अन्तरिक्षं रजसो विमानं तत् कृण्वे 'हम् उदरं शेवधिभ्यः ।
९,३।१५ए - तेन शालां प्रति गृह्णामि तस्मै ॥१५॥

९,३।१६अ - ऊर्जस्वती पयस्वती पृथिव्यां निमिता मिता ।
९,३।१६च् - विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः ॥१६॥

९,३।१७अ - तृणैर् आवृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी ।
९,३।१७च् - मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ॥१७॥

९,३।१८अ - इटस्य ते वि चृताम्य् अपिनद्धम् अपोर्णुवन् ।
९,३।१८च् - वरुणेन समुब्जितां मित्रः प्रातर् व्य् उब्जतु ॥१८॥

९,३।१९अ - ब्रह्मणा शालां निमितां कविभिर् निमितां मिताम् ।
९,३।१९च् - इन्द्राग्नी रक्षतां शालाम् अमृतौ सोम्यं सदः ॥१९॥

९,३।२०अ - कुलाये 'धि कुलायं कोशे कोशः समुब्जितः ।
९,३।२०च् - तत्र मर्तो वि जायते यस्माद् विश्वं प्रजायते ॥२०॥ (७)

९,३।२१अ - या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते ।
९,३।२१च् - अष्टापक्षां दशपक्षां शालां मानस्य पत्नीम् अग्निर् गर्भ इवा शये ॥२१॥

९,३।२२अ - प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्य् अहिंसतीम् ।
९,३।२२च् - अग्निर् ह्य् अन्तर् आपश् च ऋतस्य प्रथमा द्वाः ॥२२॥

९,३।२३अ - इमा आपः प्र भराम्य् अयक्ष्मा यक्ष्मनाशनीः ।
९,३।२३च् - गृहान् उप प्र सीदाम्य् अमृतेन सहाग्निना ॥२३॥

९,३।२४अ - मा नः पाशं प्रति मुचो गुरुर् भारो लघुर् भव ।
९,३।२४च् - वधूम् इव त्वा शाले यत्रकामं भरामसि ॥२४॥

९,३।२५अ - प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२५॥

९,३।२६अ - दक्षिणाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२६॥

९,३।२७अ - प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२७॥

९,३।२८अ - उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२८॥

९,३।२९अ - ध्रुवाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२९॥

९,३।३०अ - ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३०॥

९,३।३१अ - दिशोदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३१॥ (८)


९,४।१अ - साहस्रस् त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत् ।
९,४।१च् - भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस् तन्तुम् आतान् ॥१॥

९,४।२अ - अपां यो अग्ने प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी ।
९,४।२च् - पिता वत्सानां पतिर् अघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥२॥

९,४।३अ - पुमान् अन्तर्वान्त् स्थविरः पयस्वान् वसोः कबन्धं ऋषभो बिभर्ति ।
९,४।३च् - तम् इन्द्राय पथिभिर् देवयानैर् हुतम् अग्निर् वहतु जातवेदाः ॥३॥

९,४।४अ - पिता वत्सानां पतिर् अघ्न्यानां अथो पिता महतां गर्गराणाम् ।
९,४।४च् - वत्सो जरायु प्रतिधुक् पीयूष आमिक्षा घृतं तद् व् अस्य रेतः ॥४॥

९,४।५अ - देवानां भाग उपनाह एषो 'पां रस ओषधीनां घृतस्य ।
९,४।५च् - सोमस्य भक्षम् अवृणीत शक्रो बृहन्न् अद्रिर् अभवद् यच् छरीरम् ॥५॥

९,४।६अ - सोमेन पूर्णं कलशं बिभर्षि त्वस्ता रुपाणां जनिता पशूनाम् ।
९,४।६च् - शिवास् ते सन्तु प्रजन्व इह या इमा न्य् अस्मभ्यं स्वधिते यछ या अमूः ॥६॥

९,४।७अ - आजं बिभर्ति घृतम् अस्य रेतः साहस्रः पोषस् तम् उ यज्ञम् आहुः ।
९,४।७च् - इन्द्रस्य रूपम् ऋषभो वसानः सो अस्मान् देवाः शिव अइतु दत्तः ॥७॥

९,४।८अ - इन्द्रस्यौजो वरुणस्य बाहू अश्विनोर् अंसौ मरुताम् इयं ककुत् ।
९,४।८च् - बृहस्पतिं संभृतम् एतम् आहुर् ये धीरासः कवयो ये मनीषिणः ॥८॥

९,४।९अ - दैवीर् विशः पयस्वान् आ तनोषि त्वाम् इन्द्रं त्वां सरस्वन्तम् आहुः ।
९,४।९च् - सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभम् आजुहोति ॥९॥
९,४।१०अ - बृहस्पतिः सविता ते वयो दधौ त्वष्टुर् वायोः पर्य् आत्मा त आभृतः ।
९,४।१०च् - अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष् टे द्यावापृथिवी उभे स्ताम् ॥१०॥ (९)

९,४।११अ - य इन्द्र इव देवेषु गोष्व् एति विवावदत् ।
९,४।११च् - तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥११॥

९,४।१२अ - पार्श्वे आस्ताम् अनुमत्या भगस्यास्ताम् अनूवृजौ ।
९,४।१२च् - अष्ठीवन्ताव् अब्रवीन् मित्रो ममैतौ केवलाव् इति ॥१२॥

९,४।१३अ - भसद् आसीद् आदित्यानां श्रोणी आस्तां बृहस्पतेः ।
९,४।१३च् - पुछं वातस्य देवस्य तेन धूनोत्य् ओषधीः ॥१३॥

९,४।१४अ - गुदा आसन्त् सिनीवाल्याः सूर्यायास् त्वचम् अब्रुवन् ।
९,४।१४च् - उत्थातुर् अब्रुवन् पद ऋषभं यद् अकल्पयन् ॥१४॥

९,४।१५अ - क्रोढ आसीज् जामिशंसस्य सोमस्य क्लशो धृतः ।
९,४।१५च् - देवाः संगत्य यत् सर्व ऋषभं व्यकल्पयन् ॥१५॥

९,४।१६अ - ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान् ।
९,४।१६च् - ऊबध्यम् अस्य कीतेभ्यः श्ववर्तेभ्यो अधारयन् ॥१६॥

९,४।१७अ - शृङ्गाभ्यां रक्ष ऋषत्य् अवर्तिम् हन्ति चक्षुषा ।
९,४।१७च् - शृणोति भद्रं कर्णाभ्यां गवां यः पतिर् अघ्न्यः ॥१७॥

९,४।१८अ - शतयाजं स यजते नैनं दुन्वन्त्य् अग्नयः ।
९,४।१८च् - जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभम् आजुहोति ॥१८॥

९,४।१९अ - ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः ।
९,४।१९च् - पुष्टिं सो अघ्न्यानां स्वे गोष्ठे 'व पश्यते ॥१९॥

९,४।२०अ - गावः सन्तु प्रजाः सन्त्व् अथो अस्तु तनूबलम् ।
९,४।२०च् - तत् सर्वम् अनु मन्यन्तां देवा ऋषभदायिने ॥२०॥

९,४।२१अ - अयं पिपान इन्द्र इद् रयिं दधातु चेतनीम् ।
९,४।२१च् - अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥२१॥

९,४।२२अ - पिशङ्गरूपो नभसो वयोधा अइन्द्रः शुष्मो विश्वरूपो न आगन् ।
९,४।२२च् - आयुर् अस्मभ्यं दधत् प्रजां च रायश् च पोषैर् अभि नः सचताम् ॥२२॥

९,४।२३अ - उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः ।
९,४।२३च् - उप ऋषभस्य यद् रेत उपेन्द्र तव वीर्यम् ॥२३॥

९,४।२४अ - एतं वो युवानं प्रति दध्मो अत्र तेन क्रीढन्तीश् चरत वशां अनु ।
९,४।२४च् - मा नो हासिष्ट जनुषा सुभागा रायश् च पोषैर् अभि नः सचध्वम् ॥२४॥ (१०)


९,५।१अ - आ नयैतम् आ रभस्व सुकृतां लोकम् अपि गछतु प्रजानन् ।
९,५।१च् - तीर्त्वा तमांसि बहुधा महान्त्य् अजो नाकम् आ क्रमतां तृतीयम् ॥१॥

९,५।२अ - इन्द्राय भागं परि त्वा नयाम्य् अस्मिन् यज्ञे यजमानाय सूरिम् ।
९,५।२च् - ये नो द्विषन्त्य् अनु तान् रभस्वानागसो यजमानस्य वीराः ॥२॥

९,५।३अ - प्र पदो 'व नेनिग्धि दुश्चरितं यच् चचार शुद्धैः शफैर् आ क्रमतां प्रजानन् ।
९,५।३च् - तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकम् आ क्रमतां तृतीयम् ॥३॥

९,५।४अ - अनुछ्य श्यामेन त्वचम् एतां विशस्तर् यथापर्व् असिना माभि मंस्थाः ।
९,५।४च् - माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥४॥

९,५।५अ - ऋचा कुम्भीम् अध्य् अग्नौ श्रयाम्य् आ सिञ्चोदकम् अव धेह्य् एनम् ।
९,५।५च् - पर्याधत्ताग्निना शमितारः शृतो गछतु सुकृतां यत्र लोकः ॥५॥

९,५।६अ - उत् क्रामातः परि चेद् अतप्तस् तप्ताच् चरोर् अधि नाकं तृतीयम् ।
९,५।६च् - अग्नेर् अग्निर् अधि सं बभूविथ ज्योतिष्मन्तम् अभि लोकं जयैतम् ॥६॥

९,५।७अ - अजो अग्निर् अजम् उ ज्योतिर् आहुर् अजं जीवता ब्रह्मणे देयम् आहुः ।
९,५।७च् - अजस् तमांस्य् अप हन्ति दूरम् अस्मिंल् लोके श्रद्दधानेन दत्तः ॥७॥

९,५।८अ - पञ्चौदनः पञ्चधा वि क्रमताम् आक्रंस्यमानस् त्रीणि ज्योतींषि ।
९,५।८च् - ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥८॥

९,५।९अ - अजा रोह सुकृतां यत्र लोकः शरभो न चत्तो 'ति दुर्गान्य् एषः ।
९,५।९च् - पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥९॥

९,५।१०अ - अजस् त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति ।
९,५।१०च् - पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्य् एका ॥१०॥ (११)

९,५।११अ - एतद् वो ज्योतिः पितरस् तृतीयं पञ्चौदनं ब्रह्मणे 'जं ददाति ।
९,५।११च् - अजस् तमांस्य् अप हन्ति दूरम् अस्मिंल् लोके श्रद्दधानेन दत्तः ॥११॥

९,५।१२अ - ईजानानां सुकृतां लोकम् ईप्सन् पञ्चौदनं ब्रह्मणे 'जं ददाति ।
९,५।१२च् - स व्याप्तिम् अभि लोकं जयैतं शिवो 'स्मभ्यं प्रतिगृहीतो अस्तु ॥१२॥

९,५।१३अ - अजो ह्य् अग्नेर् अजनिष्ट शोकाद् विप्रो विप्रस्य सहसो विपश्चित् ।
९,५।१३च् - इष्टं पूर्तम् अभिपूर्तं वषट्कृतं तद् देवा ऋतुशः कल्पयन्तु ॥१३॥

९,५।१४अ - अमोतं वासो दद्याद् धिरण्यम् अपि दक्षिणाम् ।
९,५।१४च् - तथा लोकान्त् सम् आप्नोति ये दिव्या ये च पार्थिवाः ॥१४॥

९,५।१५अ - एतास् त्वाजोप यन्तु धाराः सोम्या देवीर् घृतपृष्ठा मधुश्चुतः ।
९,५।१५च् - स्तभान् पृथिवीम् उत द्यां नाकस्य पृष्ठे 'धि सप्तरश्मौ ॥१५॥

९,५।१६अ - अजो 'स्य् अज स्वर्गो 'सि त्वया लोकम् अङ्गिरसः प्राजानन् ।
९,५।१६च् - तं लोकं पुण्यं प्र ज्ञेषम् ॥१६॥

९,५।१७अ - येना सहस्रं वहसि येनाग्ने सर्ववेदसम् ।
९,५।१७च् - तेनेमं यज्ञं नो वह स्वर् देवेषु गन्तवे ॥१७॥

९,५।१८अ - अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निरृतिं बाधमानः ।
९,५।१८च् - तेन लोकान्त् सूर्यवतो जयेम ॥१८॥

९,५।१९अ - यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानाम् अजस्य ।
९,५।१९च् - सर्वं तद् अग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम् ॥१९॥

९,५।२०अ - अजो वा इदम् अग्ने व्य् अक्रमत तस्योर इयम् अभवद् द्यौः पृष्टिहम् ।
९,५।२०च् - अन्तरिक्षं मध्यम् दिशः पार्श्वे समुद्रौ कुक्षी ॥२०॥ (१२)

९,५।२१अ - सत्यं च र्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट् शिरः ।
९,५।२१च् - एष वा अपरिमितो यज्ञो यद् अजः पञ्चौदनः ॥२१॥

९,५।२२अ - अपरिमितम् एव यज्ञम् आप्नोत्य् अपरिमितं लोकम् अव रुन्द्धे ।
९,५।२२च् - यो 'जं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२२॥

९,५।२३अ - नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर् धयेत् ।
९,५।२३च् - सर्वम् एनं समादायेदमिदं प्र वेशयेत् ॥२३॥

९,५।२४अ - इदमिदम् एवास्य रूपं भवति तेनैनं सं गमयति ।
९,५।२४च् - इषं मह ऊर्जम् अस्मै दुहे यो 'जं पञ्चौदनम् दक्षिणाज्योतिषं ददाति ॥२४॥

९,५।२५अ - पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति ।
९,५।२५च् - यो 'जं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२५॥

९,५।२६अ - पञ्च रुक्मा ज्योतिर् अस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति ।
९,५।२६च् - स्वर्गं लोकम् अश्नुते यो 'जं पञ्चौदनं दक्षिणाज्योतिषम् ददाति ॥२६॥

९,५।२७अ - या पूर्वं पतिं वित्त्वा 'थान्यं विन्दते 'परम् ।
९,५।२७च् - पञ्चौदनं च ताव् अजं ददातो न वि योषतः ॥२७॥

९,५।२८अ - समानलोको भवति पुनर्भुवापरः पतिः ।
९,५।२८च् - यो 'जं पञ्चौदनम् दक्षिणाज्योतिषं ददाति ॥२८॥

९,५।२९अ - अनुपूर्ववत्सां धेनुम् अनढ्वाहम् उपबर्हणम् ।
९,५।२९च् - वासो हिरण्यं दत्त्वा ते यन्ति दिवम् उत्तमाम् ॥२९॥

९,५।३०अ - आत्मानं पितरं पुत्रं पौत्रं पितामहम् ।
९,५।३०च् - जायां जनित्रीं मातरं ये प्रियास् तान् उप ह्वये ॥३०॥ (१३)

९,५।३१अ - यो वै नैदाघं नाम र्तुं वेद ।
९,५।३१च् - एष वै नैदाघो नाम र्तुर् यद् अजः पञ्चौदनः ।
९,५।३१ए - निर् एवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्य् आत्मना ।

९,५।३२अ - यो वै कुर्वन्तं नाम र्तुं वेद ।
९,५।३२च् - कुर्वतींकुर्वतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियं आ दत्ते ।
९,५।३२ए - एष वै कुर्वन् नाम र्तुर् यद् अजः पञ्चौदनः ।

९,५।३३अ - यो वै संयन्तं नाम र्तुं वेद ।
९,५।३३च् - संयतींसंयतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियं आ दत्ते ।
९,५।३३ए - एष वै संयन् नाम र्तुर् यद् अजः पञ्चौदनः ।

९,५।३४अ - यो वै पिन्वन्तं नाम र्तुम् वेद ।
९,५।३४च् - पिन्वतींपिन्वतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियं आ दत्ते ।
९,५।३४ए - एष वै पिन्वन् नाम र्तुर् यद् अजः पञ्चौदनः ।

९,५।३५अ - यो वा उद्यन्तं नाम र्तुं वेद ।
९,५।३५च् - उद्यतींउद्यतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियं आ दत्ते ।
९,५।३५ए - एष वा उद्यन्न् नाम र्तुर् यद् अजः पञ्चौदनः ।

९,५।३६अ - यो वा अभिभुवं नाम र्तुं वेद ।
९,५।३६च् - अभिभवन्तीमभिभवन्तीम् एवाप्रियस्य भ्रातृव्यस्य श्रियं आ दत्ते ।
९,५।३६ए - एष वा अभिभूर् नाम र्तुर् यद् अजः पञ्चौदनः ।

९,५।३७अ - अजं च पचत पञ्च चौदनान् ।
९,५।३७च् - सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्नन्तु त एतम् ॥३७॥

९,५।३८अ - तास् ते रक्षन्तु तव तुभ्यम् एतं ताभ्य आज्यं हविर् इदं जुहोमि ॥३८॥ (१४)


९,६।१अ - यो विद्याद् ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥१॥

९,६।२अ - सामानि यस्य लोमानि यजुर् हृदयम् उच्यते परिस्तरणम् इद् धविः ॥२॥

९,६।३अ - यद् वा अतिथिपतिर् अतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥३॥

९,६।४अ - यद् अभिवदति दीक्षाम् उपैति यद् उदकं याचत्य् अपः प्र णयति ॥४॥

९,६।५अ - या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥५॥

९,६।६अ - यत् तर्पणम् आहरन्ति य एवाग्नीषोमीयः पशुर् बध्यते स एव सः ॥६॥

९,६।७अ - यद् आवसथान् कल्पयन्ति सदोहविर्धानान्य् एव तत् कल्पयन्ति ॥७॥

९,६।८अ - यद् उपस्तृणन्ति बर्हिर् एव तत् ॥८॥

९,६।९अ - यद् उपरिशयनम् आहरन्ति स्वर्गम् एव तेन लोकम् अव रुन्द्धे ॥९॥

९,६।१०अ - यत् कशिपूपबर्हणम् आहरन्ति परिधय एव ते ॥१०॥

९,६।११अ - यद् आञ्जनाभ्यञ्जनम् आहरन्त्य् आज्यम् एव तत् ॥११॥

९,६।१२अ - यत् पुरा परिवेषात् स्वादम् आहरन्ति पुरोदाशाव् एव तौ ॥१२॥

९,६।१३अ - यद् अशनकृतं ह्वयन्ति हविष्कृतम् एव तद् ध्वयन्ति ॥१३॥

९,६।१४अ - ये व्रीहयो यवा निरुप्यन्ते 'ंशव एव ते ॥१४॥

९,६।१५अ - यान्य् उलूखलमुसलानि ग्रावाण एव ते ॥१५॥

९,६।१६अ - शूर्पं पवित्रं तुषा ऋजीषाभिषवणीर् आपः ॥१६॥

९,६।१७अ - स्रुग् दर्विर् नेक्षणम् आयवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयम् एव कृष्णाजिनम् ॥१७॥ (१५)

९,६।१८अ - यजमानब्राह्मणं वा एतद् अतिथिपतिः कुरुते यद् आहार्याणि प्रेक्षत इदं भूया३ इदा३म् इति ॥१८॥

९,६।१९अ - यद् आह भूय उद् धरेति प्राणम् एव तेन वर्षीयांसं कुरुते ॥१९॥

९,६।२०अ - उप हरति हवींष्य् आ सादयति ॥२०॥

९,६।२१अ - तेषाम् आसन्नानाम् अतिथिर् आत्मन् जुहोति ॥२१॥

९,६।२२अ - स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥२२॥

९,६।२३अ - एते वै प्रियाश् चाप्रियाश् च र्त्विजः स्वर्गं लोकं गमयन्ति यद् अतिथयः ॥२३॥

९,६।२४अ - स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतो 'न्नम् अश्नीयान् न मीमांसितस्य न मीमांसमानस्य ॥२४॥

९,६।२५अ - सर्वो वा एष जग्धपाप्मा यस्यान्नम् अश्नन्ति ॥२५॥

९,६।२६अ - सर्वो वा एसो 'जग्धपाप्मा यस्यान्नम् नाश्नन्ति ॥२६॥

९,६।२७अ - सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर् य उपहरति ॥२७॥

९,६।२८अ - प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥२८॥

९,६।२९अ - प्रजापतेर् वा एष विक्रमान् अनुविक्रमते य उपहरति ॥२९॥

९,६।३०अ - यो 'तिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः ॥३०॥ (१६)

९,६।३१अ - इष्टं च वा एष पूर्तं च गृहाणाम् अश्नाति यः पूर्वो 'तिथेर् अश्नाति ॥३१॥

९,६।३२अ - पयश् च वा एष रसं च गृहाणाम् अश्नाति यः पूर्वो 'तिथेर् अश्नाति ॥३२॥

९,६।३३अ - ऊर्जां च वा एष स्फातिं च गृहाणाम् अश्नाति यः पूर्वो 'तिथेर् अश्नाति ॥३३॥

९,६।३४अ - प्रजां वा एष पशूंश् च गृहाणाम् अश्नाति यः पूर्वो 'तिथेर् अश्नाति ॥३४॥

९,६।३५अ - कीर्तिं वा एष यशश् च गृहाणाम् अश्नाति यः पूर्वो 'तिथेर् अश्नाति ॥३५॥

९,६।३६अ - श्रियं वा एष संविदं च गृहाणाम् अश्नाति यः पूर्वो 'तिथेर् अश्नाति ॥३६॥

९,६।३७अ - एष वा अतिथिर् यच् छ्रोत्रियस् तस्मात् पूर्वो नाश्नीयात् ॥३७॥

९,६।३८अ - अशितावत्य् अतिथाव् अश्नीयाद् यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद् व्रतम् ॥३८॥

९,६।३९अ - एतद् वा उ स्वादीयो यद् अधिगवं क्षीरं वा मांसं वा तद् एव नाश्नीयात् ॥३९॥ (१७)

९,६।४०अ - स य एवं विद्वान् क्षीरम् उपसिच्योपहरति ।
९,६।४०च् - यावद् अग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावद् एनेनाव रुन्द्धे ॥४०॥

९,६।४१अ - स य एवं विद्वान्त् सर्पिर् उपसिच्योपहरति ।
९,६।४१च् - यावद् अतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावद् एनेनाव रुन्द्धे ॥४१॥

९,६।४२अ - स य एवं विद्वान् मधूपसिच्योपहरति ।
९,६।४२च् - यावद् सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावद् एनेनाव रुन्द्धे ॥४२॥

९,६।४३अ - स य एवं विद्वान् मांसम् उपसिच्योपहरति ।
९,६।४३च् - यावद् द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावद् एनेनाव रुन्द्धे ॥४३॥

९,६।४४अ - स य एवं विद्वान् उदकम् उपसिच्योपहरति ।
९,६।४४च् - प्रजानां प्रजननाय गछति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति ॥४४॥ (१८)

९,६।४५अ - तस्मा उषा हिङ् कृणोति सविता प्र स्तौति ।
९,६।४५च् - बृहस्पतिर् ऊर्जयोद् गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥२॥
९,६।४५ए - निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४५॥

९,६।४६अ - तस्मा उद्यन्त् सूर्यो हिङ् कृणोति संगवः प्र स्तौति ।
९,६।४६च् - मध्यन्दिन उद् गायत्य् अपराह्णः प्रति हरत्य् अस्तंयन् निधनम् ।
९,६।४६ए - निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४६॥

९,६।४७अ - तस्मा अभ्रो भवन् हिङ् कृणोति स्तनयन् प्र स्तौति ।
९,६।४७च् - विद्योतमानः प्रति हरति वर्षन्न् उद् गायत्य् उद्गृह्णन् निधनम् ।
९,६।४७ए - निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४७॥

९,६।४८अ - अतिथीन् प्रति पश्यति हिङ् कृणोत्य् अभि वदति प्र स्तौत्य् उदकम् याचत्य् उद् गायति ।
९,६।४८च् - उप हरति प्रति हरत्य् उच्छिष्टं निधनम् ।
९,६।४८ए - निधनं भूत्याः प्रजायाः पशूनां भवति य एवम् वेद ॥४८॥ (१९)
९,६।४८अ - यत् क्षत्तारं ह्वयत्य् आ श्रावयत्य् एव तत् ॥४९॥

९,६।५०अ - यत् प्रतिशृणोति प्रत्याश्रावयत्य् एव तत् ॥५०॥

९,६।५१अ - यत् परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥५१॥

९,६।५२अ - तेषां न कश् चनाहोता ॥५२॥

९,६।५३अ - यद् वा अतिथिपतिर् अतिथीन् परिविष्य गृहान् उपोदैत्य् अवभृथम् एव तद् उपावैति ॥५३॥

९,६।५४अ - यत् सभागयति दक्षिणाः सभागयति यद् अनुतिष्ठत उदवस्यत्य् एव तत् ॥५४॥

९,६।५५अ - स उपहूतः पृथिव्यां भक्षयत्य् उपहूतस् तस्मिन् यत् पृथिव्यां विश्वरूपम् ॥५५॥

९,६।५६अ - स उपहूतो 'न्तरिक्षे भक्षयत्य् उपहूतस् तस्मिन् यद् दिवि विश्वरूपम् ॥५६॥

९,६।५७अ - स उपहूतो दिवि भक्षयत्य् उपहूतस् तस्मिन् यद् दिवि विश्वरूपम् ॥५७॥

९,६।५८अ - स उपहूतो देवेषु भक्षयत्य् उपहूतस् तस्मिन् यद् दिवि विश्वरूपम् ॥५८॥

९,६।५९अ - स उपहूतो लोकेषु भक्षयत्य् उपहूतस् तस्मिन् यद् दिवि विश्वरूपम् ॥५९॥

९,६।६०अ - स उपहूत उपहूतः ॥६०॥

९,६।६१अ - आप्नोतीमं लोकम् आप्नोत्य् अमुम् ॥६१॥

९,६।६२अ - ज्योतिष्मतो लोकान् जयति य एवं वेद ॥६२॥ (२०)


९,७।१अ - प्रजापतिश् च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर् ललाटं यमः कृकाटम् ॥१॥

९,७।२अ - सोमो राजा मस्तिष्को द्यौर् उत्तरहनुः पृथिव्य् अधरहनुः ॥२॥

९,७।३अ - विद्युज् जिह्वा मरुतो दन्ता रेवतिर् ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥३॥

९,७।४अ - विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः ॥४॥

९,७।५अ - श्येनः क्रोतो 'न्तरिक्षं पाजस्यं बृहस्पतिः ककुद् बृहतीः कीकसाः ॥५॥

९,७।६अ - देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥६॥

९,७।७अ - मित्रश् च वरुणश् चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू ॥७॥

९,७।८अ - इन्द्राणी भसद् वायुः पुछं पवमानो बालाः ॥८॥

९,७।९अ - ब्रह्म च क्षत्रं च श्रोणी बलम् ऊरू ॥९॥

९,७।१०अ - धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः ॥१०॥

९,७।११अ - चेतो हृदयं यकृन् मेधा व्रतं पुरीतत् ॥११॥

९,७।१२अ - क्षुत् कुक्षिर् इरा वनिष्ठुः पर्वताः प्लाशयः ॥१२॥

९,७।१३अ - क्रोधो वृक्कौ मन्युर् आण्ढौ प्रजा शेपः ॥१३॥

९,७।१४अ - नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुर् ऊधः ॥१४॥

९,७।१५अ - विश्वव्यचास् चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥१५॥

९,७।१६अ - देवजना गुदा मनुष्या आन्त्राण्य् अत्रा उदरम् ॥१६॥

९,७।१७अ - रक्षांसि लोहितम् इतरजना ऊबध्यम् ॥१७॥

९,७।१८अ - अभ्रं पीबो मज्जा निधनम् ॥१८॥

९,७।१९अ - अग्निर् आसीन उत्थितो 'श्विना ॥१९॥

९,७।२०अ - इन्द्रः प्राङ् तिष्ठन् दक्षिणा तिष्ठन् यमः ॥२०॥

९,७।२१अ - प्रत्यङ् तिष्ठन् धातोदङ् तिष्ठन्त् सविता ॥२१॥

९,७।२२अ - तृणानि प्राप्तः सोमो राजा ॥२२॥

९,७।२३अ - मित्र ईक्षमाण आवृत्त आनन्दः ॥२३॥

९,७।२४अ - युज्यमानो वैश्वदेवो युक्तः प्रजापतिर् विमुक्तः सर्वम् ॥२४॥

९,७।२५अ - एतद् वै विश्वरूपं सर्वरूपं गोरूपम् ॥२५॥

९,७।२६अ - उपैनं विश्वरूपाः सर्वरूपाः पशवस् तिष्ठन्ति य एवं वेद ॥२६॥ (२१)


९,८।१अ - शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम् ।
९,८।१च् - सर्वं शीर्षन्यं ते रोगं बहिर् निर् मन्त्रयामहे ॥१॥

९,८।२अ - कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम् ।
९,८।२च् - सर्वं शीर्षन्यं ते रोगं बहिर् निर् मन्त्रयामहे ॥२॥

९,८।३अ - यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः ।
९,८।३च् - सर्वं शीर्षन्यं ते रोगं बहिर् निर् मन्त्रयामहे ॥३॥
९,८।४अ - यः कृणोति प्रमोतम् अन्धं कृणोति पूरुषम् ।
९,८।४च् - सर्वं शीर्षन्यं ते रोगं बहिर् निर् मन्त्रयामहे ॥४॥

९,८।५अ - अङ्गभेदम् अङ्गज्वरम् विश्वाङ्ग्यं विसल्पकम् ।
९,८।५च् - सर्वं शीर्षन्यं ते रोगं बहिर् निर् मन्त्रयामहे ॥५॥

९,८।६अ - यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् ।
९,८।६च् - तक्मानं विश्वशारदं बहिर् निर् मन्त्रयामहे ॥६॥

९,८।७अ - य ऊरू अनुसर्पत्य् अथो एति गवीनिके ।
९,८।७च् - यक्ष्मं ते अन्तर् अङ्गेभ्यो बहिर् निर् मन्त्रयामहे ॥७॥

९,८।८अ - यदि कामाद् अपकामाद् धृदयाज् जायते परि ।
९,८।८च् - हृदो बलासम् अङ्गेभ्यो बहिर् निर् मन्त्रयामहे ॥८॥

९,८।९अ - हरिमाणं ते अङ्गेभ्यो 'प्वाम् अन्तरोदरात् ।
९,८।९च् - यक्ष्मोधाम् अन्तर् आत्मनो बहिर् निर् मन्त्रयामहे ॥९॥

९,८।१०अ - आसो बलासो भवतु मूत्रं भवत्व् आमयत् ।
९,८।१०च् - यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत् ॥१०॥ (२२)

९,८।११अ - बहिर् बिलं निर् द्रवतु काहाबाहं तवोदरात् ।
९,८।११च् - यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत् ॥११॥

९,८।१२अ - उदरात् ते क्लोम्नो नाभ्या हृदयाद् अधि ।
९,८।१२च् - यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत् ॥१२॥

९,८।१३अ - याः सीमानं विरुजन्ति मूर्धानं प्रत्य् अर्षनीः ।
९,८।१३च् - अहिंसन्तीर् अनामया निर् द्रवन्तु बहिर् बिलम् ॥१३॥

९,८।१४अ - या हृदयम् उपर्षन्त्य् अनुतन्वन्ति कीकसाः ।
९,८।१४च् - अहिंसन्तीर् अनामया निर् द्रवन्तु बहिर् बिलम् ॥१४॥

९,८।१५अ - याः पार्श्वे उपर्षन्त्य् अनुनिक्षन्ति पृष्टीः ।
९,८।१५च् - अहिंसन्तीर् अनामया निर् द्रवन्तु बहिर् बिलम् ॥१५॥

९,८।१६अ - यास् तिरश्चीः उपर्षन्त्य् अर्षणीर् वक्षणासु ते ।
९,८।१६च् - अहिंसन्तीर् अनामया निर् द्रवन्तु बहिर् बिलम् ॥१६॥

९,८।१७अ - या गुदा अनुसर्पन्त्य् आन्त्राणि मोहयन्ति च ।
९,८।१७च् - अहिंसन्तीर् अनामया निर् द्रवन्तु बहिर् बिलम् ॥१७॥

९,८।१८अ - या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च ।
९,८।१८च् - अहिंसन्तीर् अनामया निर् द्रवन्तु बहिर् बिलम् ॥१८॥

९,८।१९अ - ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास् तव ।
९,८।१९च् - यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत् ॥१९॥

९,८।२०अ - विसल्पस्य विद्रधस्य वातीकारस्य वालजेः ।
९,८।२०च् - यक्ष्माणां सर्वेषां विषं निर् अवोचम् अहं त्वत् ॥२०॥

९,८।२१अ - पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः ।
९,८।२१च् - अनूकाद् अर्षणीर् उष्णिहाभ्यः शीर्ष्णो रोगम् अनीनशम् ॥२१॥

९,८।२२अ - सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः ।
९,८।२२च् - उद्यन्न् आदित्य रश्मिभिः शीर्ष्णो रोगम् अनीनशो 'ङ्गभेदम् अशीशमः ॥२२॥ (२३)


९,९।१अ - अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः ।
९,९।१च् - तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥१॥

९,९।२अ - सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा ।
९,९।२च् - त्रिनाभि चक्रम् अजरम् अनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥२॥

९,९।३अ - इमं रथम् अधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्य् अश्वाः ।
९,९।३च् - सप्त स्वसारो अभि सं नवन्त यत्र गवाम् निहिता सप्त नाम ॥३॥

९,९।४अ - को ददर्श प्रथमं जायमानम् अस्थन्वन्तं यद् अनस्था बिभर्ति ।
९,९।४च् - भूम्या असुर् असृग् आत्मा क्व स्वित् को विद्वांसम् उप गात् प्रष्टुम् एतत् ॥४॥

९,९।५अ - इह ब्रवीतु य ईम् अङ्ग वेदास्य वामस्य निहितं पदं वेः ।
९,९।५च् - शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदा 'पुः ॥५॥

९,९।६अ - पाकः पृछामि मनसा 'विजानन् देवानाम् एना निहिता पदानि ।
९,९।६च् - वत्से बष्कये 'धि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥६॥

९,९।७अ - अचिकित्वांस् चिकितुषश् चिद् अत्र कवीन् पृछामि विद्वनो न विद्वान् ।
९,९।७च् - वि यस् तस्तम्भ षट् इमा रजांस्य् अजस्य रूपे किं अपि स्विद् एकम् ॥७॥

९,९।८अ - माता पितरम् ऋत आ बभाज 'धीत्य् अग्रे मनसा सं हि जग्मे ।
९,९।८च् - सा बीभत्सुर् गर्भरसा निविद्धा नमस्वन्त इद् उपवाकम् ईयुः ॥८॥

९,९।९अ - युक्ता मातासिद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्व् अन्तः ।
९,९।९च् - अमीमेद् वत्सो अनु गाम् अपश्यद् विश्वरूप्यं त्रिषु योगनेषु ॥९॥

९,९।१०अ - तिस्रो मतॄस् त्रीन् पितॄन् बिभ्रद् एक उर्ध्वस् तस्थौ नेम् अव ग्लापयन्त ।
९,९।१०च् - मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदो वाचम् अविश्वविन्नाम् ॥१०॥ (२४)

९,९।११अ - पञ्चारे चक्रे परिवर्तमाने यस्मिन्न् आतस्थुर् भुवनानि विश्वा ।
९,९।११च् - तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न छिद्यते सनाभिः ॥११॥

९,९।१२अ - पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
९,९।१२च् - अथेमे अन्य उपरे विचक्षणे सप्तचक्रे षढर आहुर् अर्पितम् ॥१२॥

९,९।१३अ - द्वादशारं नहि तज् जराय वर्वर्ति चक्रं परि द्याम् ऋतस्य ।
९,९।१३च् - आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश् च तस्थुः ॥१३॥

९,९।१४अ - सनेमि चक्रम् अजरं वि ववृत उत्तानायां दश युक्ता वहन्ति ।
९,९।१४च् - सूर्यस्य चक्षू रजसैत्य् आवृतं यस्मिन्न् आतस्थुर् भुवनानि विश्वा ॥१४॥

९,९।१५अ - स्त्रियः सतीस् ताम् उ मे पुंसः आहुः पश्यद् अक्षण्वान्न् वि चेतद् अन्धः ।
९,९।१५च् - कविर् यः पुत्रः स ईम् आ चिकेत यस् ता विजानात् स पितुष् पितासत् ॥१५॥

९,९।१६अ - साकंजानां सप्तथम् आहुर् एकजं षढ् इद् यमा ऋषयो देवजा इति ।
९,९।१६च् - तेषाम् इष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥१६॥

९,९।१७अ - अवः परेण पर एना अवरेण पदा वत्सं बिभ्रती गौर् उद् अस्थात् ।
९,९।१७च् - सा कद्रीची कं स्विद् अर्धं परागात् क्व स्वित् सूते नहि यूथे अस्मिन् ॥१७॥

९,९।१८अ - अवः परेण पितरं यो अस्य वेदावः परेण पर एनावरेण ।
९,९।१८च् - कवीयमानः क इह प्र वोचद् देवं मनः कुतो अधि प्रजातम् ॥१८॥

९,९।१९अ - ये अर्वाञ्चस् ताम् उ पराच आहुर् ये पराञ्चस् तां उ अर्वाच आहुः ।
९,९।१९च् - इन्द्रश् च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥१९॥

९,९।२०अ - द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते ।
९,९।२०च् - तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभि चाकशीति ॥२०॥

९,९।२१अ - यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे ।
९,९।२१च् - तस्य यद् आहुः पिप्पलं स्वाद्व् अग्रे तन् नोन् नशद् यः पितरं न वेद ॥२१॥

९,९।२२अ - यत्रा सुपर्णा अमृतस्य भक्षम् अनिमेषं विदथाभिस्वरन्ति ।
९,९।२२च् - एना विश्वस्य भुवनस्य गोपाः स मा धीरः पाकम् अत्रा विवेश ॥२२॥ (२५)


९,१०।१अ - यद् गायत्रे अधि गायत्रम् आहितं त्रैष्टुभं वा त्रैष्टुभान् निरतक्षत ।
९,१०।१च् - यद् वा जगज् जगत्य् आहितं पदं य इत् तद् विदुस् ते अमृतत्वम् आनुशुः ॥१॥

९,१०।२अ - गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन वाकम् ।
९,१०।२च् - वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥२॥

९,१०।३अ - जगता सिन्धुं दिव्य् अस्कभायद् रथंतरे सूर्यं पर्य् अपश्यत् ।
९,१०।३च् - गायत्रस्य समिधस् तिस्र आहुस् ततो मह्ना प्र रिरिचे महित्वा ॥३॥

९,१०।४अ - उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद् एनाम् ।
९,१०।४च् - श्रेष्ठं सवं सविता साविषन् नो 'भीद्धो घर्मस् तद् उ षु प्र वोचत् ॥४॥

९,१०।५अ - हिङ्कृण्वती वसुपत्नी वसूनां वत्सम् इछन्ती मनसाभ्यागात् ।
९,१०।५च् - दुहाम् अश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥५॥

९,१०।६अ - गौर् अमीमेद् अभि वत्सं मिषन्तं मूर्धानं हिङ्ङ् अकृणोन् मातवा उ ।
९,१०।६च् - सृक्वाणं घर्मम् अभि वावशाना मिमाति मायुं पयते पयोभिः ॥६॥

९,१०।७अ - अयं स शिङ्क्ते येन गौर् अभिवृता मिमाति मयुं ध्वसनाव् अधि श्रिता ।
९,१०।७च् - सा चित्तिभिर् नि हि चकार मर्त्यान् विद्युद् भवन्ती प्रति वव्रिम् अउहत ॥७॥

९,१०।८अ - अनच् छये तुरगातु जीवम् एजद् ध्रुवं मध्य आ पस्त्यानाम् ।
९,१०।८च् - जीवो मृतस्य चरति स्वधाभिर् अमर्त्यो मर्त्येना सयोनिः ॥८॥

९,१०।९अ - विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार ।
९,१०।९च् - देवस्य पश्य काव्यं महित्वाद्य ममार स ह्यः सम् आन ॥९॥

९,१०।१०अ - य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुग् इन् नु तस्मात् ।
९,१०।१०च् - स मातुर् योना परिवीतो अन्तर् बहुप्रजा निरृतिर् आ विवेश ॥१०॥ (२६)

९,१०।११अ - अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् ।
९,१०।११च् - स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥११॥

९,१०।१२अ - द्यौर् नः पिता जनिता नाभिर् अत्र बन्धुर् नो माता पृथिवी महीयम् ।
९,१०।१२च् - उत्तानयोश् चम्वोर् योनिर् अन्तर् अत्रा पिता दुहितुर् गर्भम् आधात् ॥१२॥

९,१०।१३अ - पृछामि त्वा परम् अन्तं पृथिव्याः पृछामि वृष्णो अश्वस्य रेतः ।
९,१०।१३च् - पृछामि विश्वस्य भुवनस्य नाभिं पृछामि वाचः परमं व्योम ॥१३॥
९,१०।१४अ - इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः ।
९,१०।१४च् - अयं यज्ञो विश्वस्य भुवनस्य नाभिर् ब्रह्मायं वाचः परमं व्योम ॥१४॥
९,१०।१५अ - न वि जानामि यद् इवेदम् अस्मि निण्यः संनद्धो मनसा चरामि ।
९,१०।१५च् - यदा मागन् प्रथमजा ऋतस्याद् इद् वाचो अश्नुवे भागम् अस्याः ॥१५॥

९,१०।१६अ - अपाङ् प्राङ् एति स्वधया गृभीतो 'मर्त्यो मर्त्येना सयोनिः ।
९,१०।१६च् - ता शश्वन्ता विषूचीना वियन्ता न्य् अन्यं चिक्युर् न नि चिक्युर् अन्यम् ॥१६॥

९,१०।१७अ - सप्तार्धगर्भा भुवनस्य रेतो विष्णोस् तिष्ठन्ति प्रदिशा विधर्मणि ।
९,१०।१७च् - ते धीतिभिर् मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥१७॥

९,१०।१८अ - ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।
९,१०।१८च् - यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् ते अमी सम् आसते ॥१८॥

९,१०।१९अ - ऋचः पदं मात्रया कल्पयन्तो 'र्धर्चेन चकॢपुर् विश्वम् एजत् ।
९,१०।१९च् - त्रिपाद् ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश् चतस्रः ॥१९॥

९,१०।२०अ - सूयवसाद् भगवती हि भूया अधा वयं भगवन्तः स्याम ।
९,१०।२०च् - अद्धि तृणम् अघ्न्ये विश्वदानीं पिब शुद्धम् उदकम् आचरन्ती ॥२०॥ (२७)

९,१०।२१अ - गौर् इन् मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी ।
९,१०।२१च् - अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस् तस्याः समुद्रा अधि वि क्षरन्ति ॥२१॥

९,१०।२२अ - कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति ।
९,१०।२२च् - तं आववृत्रन्त् सदनाद् ऋतस्याद् इद् घृतेन पृथिवीं व्य् ऊदुः ॥२२॥

९,१०।२३अ - अपाद् एति प्रथमा पद्वतीनां कस् तद् वां मित्रावरुणा चिकेत ।
९,१०।२३च् - गर्भो भारं भरत्य् आ चिद् अस्या ऋतं पिपर्ति अनृतं नि पाति ॥२३॥

९,१०।२४अ - विराढ् वाग् विराट् पृथिवी विराढ् अन्तरिक्षं विराट् प्रजापतिः ।
९,१०।२४च् - विराण् मृत्युः साध्यानाम् अधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥२४॥

९,१०।२५अ - शकमयं धूमम् आराद् अपश्यं विषूवता पर एनावरेण ।
९,१०।२५च् - उक्षाणं पृश्निम् अपचन्त वीरास् तानि धर्माणि प्रथमान्य् आसन् ॥२५॥

९,१०।२६अ - त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् ।
९,१०।२६च् - विश्वम् अन्यो अभिचष्टे शचीभिर् ध्राजिर् एकस्य ददृशे न रूपम् ॥२६॥

९,१०।२७अ - चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः ।
९,१०।२७च् - गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥२७॥

९,१०।२८अ - इन्द्रं मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् ।
९,१०।२८च् - एकं सद् विप्रा बहुधा वदन्त्य् अग्निं यमं मातरिश्वानम् आहुः ॥२८॥ (२८)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP