नारद भक्ति सूत्र - पञ्चमोऽध्यायः

नारद भक्ति सूत्राचे रोज वाचन केल्याने सर्व कलह नष्ट होतात


भक्ता एकान्तिनो मुख्याः ।
कण्ठावरोधरोमञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च ।
तीर्थिकुर्वन्ति तीर्थानि सुकर्मी कुर्वन्ति कर्माणि सच्छास्त्रिकुर्वन्ति शास्त्राणि ।
तन्मयाः ।
मोदन्ते पितरो नृत्यन्ति देवतः सनाथा चेयं भूर्भवति ।
नास्ति तेषु जातिविद्यारूपकुलधनक्रियादि भेदः ।
यतस्तदीयाः ।
वादो नावलम्ब्यः ।
बाहुल्यावकाशत्वाद अनियतत्त्वाच्च ।
भक्तिशस्त्र्राणि मननीयानि तदुद्बोधकर्माणि करणीयानि ।
सुखदुःखेच्छालाभादित्यके प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थ न नेयम् ।
अहिंसासत्यशौचदयास्तिक्यादिचारित्रयाणि परिपालनीयानि ।
सर्वदा सर्वभावेन निश्चिन्तैः भगवानेव भजनीयः ।
स कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् ।
त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी ।
गुणमाहात्म्यासक्ति रूपासक्ति पूजासक्ति स्मरणासक्ति दास्यासक्ति
सख्यासक्ति वात्सल्यसक्ति कान्तासक्ति आत्मनिवेदनासक्ति तन्मयतासक्ति
परमविरहासक्ति रूपा एकधा अपि एकादशधा भवति ।
इत्येवं वदन्ति जनजल्पनिर्भयाः एकमतः कुमार व्यास शुख शाण्डिल्य
गर्ग विष्णु कौण्डिन्य शेषोध्दवारुणि बलि हनुमद विभीषणादयो भक्त्याचार्याः ।
य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रध्दते स भक्तिमान् भवति सः प्रेष्टं
लभते सः प्रेष्टं लभते ।

॥ ॐ नमः भगवते वासुदेवाये ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP