पञ्चमोऽध्यायः - प्रथममाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


५ - १ - १ आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म।

५ - १ - २ तथा हस्तसंयोगाच्च मुसले कर्म।

५ - १ - ३ अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः।

५ - १ - ४ तथात्मसंयोगो हस्तकर्मणि।

५ - १ - ५ अभिघातन्मुसलसंयोगाद्धस्ते कर्म।

५ - १ - ६ आत्मकर्म हस्तसंयोगाद्धस्ते कर्म।

५ - १ - ७ संयोगाभावे गुरुत्वात् पतनम्।

५ - १ - ८ नोदनविशेषाभावान्नोर्ध्वं न तिर्यग्गमनम्।

५ - १ - ९ प्रयत्नविशेषान्नोदनविशेषः।

५ - १ - १० नोदनविशेषादुदसनविशेषः।

५ - १ - ११ हस्तकर्ममा दारककर्म व्याख्यातम्।

५ - १ - १२ तथा दग्धस्य विस्फोटने।

५ - १ - १३ प्रयत्नाभावे प्रसुप्तस्य चलनम्।

५ - १ - १४ तृणे कर्म वायुसंयोगात्।

५ - १ - १५ मणिगमनं सूच्यभिसर्पणमदृष्टकारणम्।

५ - १ - १६ इषावयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः।

५ - १ - १७ नोदनादद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च।

५ - १ - १८ संस्कारभावे गुरुत्वात् पतनम्।

इति कणादसूत्रपाठे पञ्चमोऽध्यास्य प्रथममाह्निकम्।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP