द्वितीयोऽध्यायः - द्वितीयमाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


२ - २ - १ पुष्पवस्त्रयोः सति सन्नकर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम्।

२ - २ - २ व्यवस्थितधः पृथिव्यां गन्धः।

२ - २ - ३ एतेनोष्णता व्याख्याता।

२ - २ - ४ तेजस उष्णता।

२ - २ - ५ अप्सु शीतता।

२ - २ - ६ अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति काललिङ्गानि।

२ - २ - ७ द्व्यत्वनित्यत्वे वायुना व्याख्याते।

२ - २ - ८ तत्त्वम्भावेन।

२ - २ - ९ नित्येष्वभावादनित्येषु भावात् कारण कालाख्येति।

२ - २ - १० इति इदमिति यतस्तद्दिशां लिङ्गम्।

२ - २ - ११ द्रव्यत्वनित्यत्वे वायुना व्याख्याते।

२ - २ - १२ तत्त्वम्भावेन।

२ - २ - १३ कार्य्यविशेषेण नानात्वम्।

२ - २ - १४ आदित्यसंयागाद् भूतपूर्वाद्भविष्यतो भूताच्च प्राची।

२ - २ - १५ तथा दक्षिणा प्रतीची उदीची च।

२ - २ - १६ एतेन दिगन्तरालानि व्याख्यातानि।

२ - २ - १७ सामान्यप्रत्यक्षाद्विशेषस्मृतेश्च संशयः।

२ - २ - १८ दृष्टञ्च दृष्टवत्।

२ - २ - १९ दृष्टं यथादृष्टमयाथादृष्टमुभयथादृष्टत्वाच्च।

२ - २ - २० विध्यऽविद्यातश्च संशयः।

२ - २ - २१ श्रोत्रग्रहणो योऽर्थः स शब्दः।

२ - २ - २२ तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात्।

२ - २ - २३ एकद्रव्यत्वान्न द्रव्यम्।

२ - २ - २४ नापि कर्माऽचाक्षुषत्वात्.

२ - २ - २५ गुषस्य सतोऽपवर्गः कर्मभिः साधर्म्यम्।

२ - २ - २६ सतो लिङ्गाभावात्।

२ - २ - २७ नित्यवैधर्म्यात्।

२ - २ - २८ अनित्यश्चायं कारणतः।

२ - २ - २९ न चासिद्धिं विकारात्।

२ - २ - ३० अभिव्यक्तौ दोषात्।

२ - २ - ३१ कार्यत्वात्।

२ - २ - ३२ अभावात्।

२ - २ - ३३ संयोगाद्विभागाच्च शब्दनिष्पत्तिः।

२ - २ - ३४ लिङ्गाच्चनित्यः शब्दः।

२ - २ - ३५ द्वयोस्तु प्रवृत्त्योरभावात्।

२ - २ - ३६ संख्याभावात्।

२ - २ - ३७ प्रथमाशब्दात्।

२ - २ - ३८ सम्प्रतिपत्तिभावाच्च।

२ - २ - ३९ सन्दिग्धाः सति बहुत्वे ।

२ - २ - ४० संख्याभावः सामान्यतः।

इति काणादसूत्रपाठे द्वितीयोऽध्यास्य द्वितीयमाह्निकम्, द्वितीयोऽध्यायश्च॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP