चाणक्य-सूत्राणि - अष्टमोऽध्यायः

नीतिवर्णनात्मक संस्कृत ग्रंथांमध्ये, चाणक्य-नीतिदर्पण ग्रंथाचे महत्वपूर्ण स्थान आहे. जीवन सुखमय आणि ध्येयपूर्ण बनविण्यासाठी, विविध विषयांचे वर्णन या ग्रंथात आहे. व्यवहार संबंधी सूत्रे तसेच राजनीति संबंधी श्लोकांचा यात समावेश आहे.


१ - धुरमेधसोऽसच्छास्त्रं मोहयति ।
२ - सत्सङ्गः स्वर्गवासः ।
३ - आर्याः स्वमिव परं मन्वते ।
४ - रूपानुवर्ती गुणः ।
५ - यत्र सुखेन वर्तते तदेव स्थानम् ।
६ - विश्वासघातिनो न निष्ृतिः ।
७ - दैवायत्तं न शोचेत् ।
८ - आश्रितदुःखमात्मन इव मन्यते साधुः ।
९ - हृद्गतमाच्छाद्यान्यद्वदत्यनार्यः ।
१० - बुद्धिहीनः पिशाचतुल्यः ।
११ - असहायः पथि न गच्छेत ।
१२ - पुत्रो न स्तोतव्यः ।
१३ - स्वामी स्तोतव्योऽनुजीविभिः ।
१४ - धर्मकृत्यानि सर्वाणि स्वामिन इत्येव घोषयेत् ।
१५ - राजाज्ञां नातिलङ्घयेत् ।
१६ - यथाऽऽज्ञप्तं तथा कुर्यात् ।
१७ - नास्ति बुद्धिमतां शत्रुः ।
१८ - आत्मछिद्र न प्रकाशयेत् ।
१९ - क्षमावानेव सर्वं साधयति ।
२० - आपदर्थं धनं रक्षेत् ।
२१ - साहसवतां प्रयं कर्तव्यम् ।
२२ - श्वः कार्यमद्य कुर्वीत ।
२३ - आपराह्णिकं पूर्वाह्ण एव कर्तव्यम् ।
२४ - व्यवहारानुलोमो धर्मः ।
२५ - सर्वज्ञता लोकज्ञता ।
२६ - शास्त्रज्ञोऽप्यलोकज्ञो मुर्खतुल्यः ।
२७ - शास्त्रप्रयोजनं तत्त्वदर्शनम् ।
२८ - तत्त्वज्ञानं कार्यमेव प्रकाशयति ।
२९ - व्यवहारे पक्षपातो न कार्यः ।
३० - धर्मादपि व्यवहारो गरीयान् ।
३१ - आत्मा हि व्यवहारस्य साक्षी ।
३२ - सर्वसाक्षी ह्यात्मा ।
३३ - न स्यात् कूटसाक्षी ।
३४ - कूटसाक्षिणो नरके पतन्ति ।
३५ - प्रच्छन्नपापानां साक्षिणो महाभूतानि ।
३६ - आत्मनः पापमात्मैव प्रकाशयति ।
३७ - व्यवहारोऽन्तर्गतमाकारस्सूचयति ।
३८ - आकारसंवरणं देवानामप्यशक्यम् ।
३९ - चोरराजपुरुषेभ्यो वित्तं रक्षेत् ।
४० - दुर्दर्शना हि राजानः प्रजा रक्षन्ति ।
४१ - सुदर्शना राजानः प्रजा रक्षन्ति ।
४२ - न्याययुक्तं राजानं मातरं मन्यन्ते प्रजाः ।
४३ - तादृशः स राजा इह सुखं ततस्स्वर्गं चाप्नोति ।
४४ - अहिंसालक्षणो धर्मः ।
४५ - स्वशरीरमपि परशरीरं मन्यते साधुः ।
४६ - मांसभक्षणमप्युक्तं सर्वेषाम् ।
४७ - न संसारभयं ज्ञानवताम् ।
४८ - विज्ञानदीपेन संसारभयं निवर्तयति ।
४९ - सर्वमवित्यं भवति ।
५० - कृमिशकृन्मूत्रभाचनं शरीरं पुण्तयपापजन्महेतुः ।
५१ - जन्ममरणादिषु तु दुःखमेव ।
५२ - तपसा स्वर्गमाप्नोति ।
५३ - क्षमायुक्तस्य तपो विवर्धते ।
५४ - तस्मात् सर्वेषां सर्वकार्यसिद्धिर्भवति ।
इत्यष्टमोऽध्यायः
इति कौटिलीयानि नीतिसूत्राणि सम्पूर्णम्


N/A

References : N/A
Last Updated : October 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP