योगयात्रा - नक्षत्रविजयस्नानप्राशन्

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


मदयन्तिका ऽश्वगन्धा मदनफलवचामधूनि शस्यन्ते ।
प्रथमर्क्षे भरणीषु च(तु) सिद्धार्थकभद्रदारुवचाः ॥
न्यग्रोधशिरीषाश्वत्थपत्रगन्धाश् च कृत्तिकास्नाने ।
बहुबीजप्रशस्ततोयैर् जयार्थिनो रोहिणीस्नानम् ॥
मुक्ताकाञ्चनमणिसंयुक्तेन ऽम्भसा मृइगाङ्कर्क्षे ।
रौद्रे वचाश्वगन्धाप्रियंगुमिश्रैर् जलैः कथितम् ॥
आदित्ये गोमयगोष्ठमृद्भिर् अथ गौरशालिभिः पुष्ये ।
सिद्धार्थसहस्रद्वय(सिद्धार्थद्विसहस्रैः)प्रियंगुमदयन्तिकाभिश् च ॥
वल्मीकशतान् मृद्भिः नागे(सार्पे) पित्र्ये च देवनिर्माल्यैः ।
पूर्वासु फल्गुनीषु च सलवणघृतशाड्वलैः प्रोक्तम् ॥
शतपुष्पया प्रियंग्वा मुस्ताभिश् चोत्तरासु क्रुवीत ।
हस्ते सरोगिरिमृदा चित्रायां देवनिर्माल्यैः ॥
स्वातौ जलरुहकुसुमैर् ऐन्द्राग्न्ये(ऐन्द्राग्ने) मत्स्य(मुस्त)पद्मकक्षौद्रैः ।
मैत्रे सरिदुभयमृदा हरितालमृदा च माहेन्द्रे ॥
भद्रासने शमीमयपत्रसहस्रद्वयाम्बुभिर् मूले ॥
समधूकपद्ममत्स्यैः स्नानम् अषाढासु पूर्वासु ॥
कुर्याद् उशीरचन्दनपद्मकमिश्रेण वारिणा वैश्वे ।
नद्युभयकूलसंगममृत्कनकैः कीर्त्यते श्रवणे ॥
घृतभद्रदारुमधुभिश् च वासवे वारुने घृतक्षौद्रैः ।
समदनफल(समदनफलैः)सहदेवाम्बुशूकमदयन्तिकामिश्रैः ॥
श्रीवासकः प्रियंगुश् च ऽऽजे स्याद् उत्तरास्व् अगुरुगन्धाः ।
शस्ताः सपद्मकोशीरचन्दना मानवेन्द्राणाम् ॥
रेवत्यां वृषभद्विपविषाणकोशैः च सर्पिमधुपूर्णैः(ससर्पिमधुपूर्णैः) ।
गोरोचनाञ्जनयुतैः सलिलैश् च यियासतः पुंसः(यियासताम् पुंसाम्) ॥
गिरिवल्मीकनदीमुखकूलद्वयशक्रपादमृद्भिर् अतः ।
द्विपवृषविषाणपार्थिवगणिकाद्वाराहृताभिश् च ॥
गिरिशिखरान् मूर्धानं वल्मीकमृदा च शोधयेत्(शोचयेत्) कर्णौ ।
नद्युभयकूलसंगममृद्भिः प्रक्षालयेत् पार्श्वे ॥
इन्द्रस्थानाद् ग्रीवां बाहू करिवृषभयोर् विस्हाणात्(विस्हाणाग्रात्) ।
हृदयं च(ओमित्तेद्) नृपद्वारात्(नृपतिद्वारात्) कटिम् अपि वेश्याघृहद्वारात् ॥
अक्षतमाषाः स्विन्नास्तिलसहितास् तण्दुला दधि च गव्यम्
(अक्षतमाषा आद्यं तिलसहितस् तण्डुलश् च दधिगव्यम्) ।
वृषत(वृषभ)पिशितं मृगस्य च पञ्चानाम् आश्विनादीनाम् ॥
रुधिरविलापनपायसविहग(भुजंग)मांसानि शांकरादीनाम् ।
पित्र्ये तिलौदनं षष्टिकान्नम् ऋक्षद्वये परतः(च तत्परतः) ॥
प्राश्याः प्रियंगुचित्राण्डजफलं(प्रियंगुचित्राण्डजाः पलं) यावकं कुलत्थाश् च ।
मधुससर्पिषी(मधुसर्पिषी) च हस्तान् मूलान्य् आपः (मूलाम्भः) सक्तवो ऽपि(ओमित्तेद्) मूलात् ॥
श्रवणादीनां अद्यात्(भक्ष्याः) शालिशाकं(शालिः शाकं) बिडालमांसं च ।
आजं यथेष्टमांसं च शक्तवो(सुसक्तवो) माषसंपृक्ताः ॥
प्राचीं गजेन यायाद् रथेन याम्यां हयेन वारुण्याम् ।
नरयानेनोदीचीं सर्वं दत्वा दिगीशाय ॥
प्राच्यादि घृतं तिलौदनं मत्स्याण् क्षीरं इति प्रदक्षिणम् ।
अद्यान् न्र्पतिर् यथादिशं नक्षत्राभिहितं च सिद्धये ॥
अस्वादु च्युतमक्षिकानुविद्धं(च्युतकचमक्षिकानुविद्धं)
दुर्गन्धि क्षयकृद् अभूरि यच् च दघ्दम् ।
सुस्विन्नं शुचि(मृदु) रुचिरं मनो ऽनुकूलं
स्वाद्व् अन्नं बहु विजाय(च जयाय) यानकाले ॥

N/A

References : N/A
Last Updated : November 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP