पाद २ - खण्ड ६७

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ६३ - किमर्थम् इदम् उच्यते ।

२ - ६३ - बहुव्रीहिस्वरम् शास्ति समासान्तविधेः सुकृत् ।

३ - ६३ - सुकृत् आचार्यः समासान्तोदात्तत्वे प्राप्ते बहुव्रीहिस्वरम् अपवादम् शास्ति ।

४ - ६३ - न एतत् अस्ति प्रयोजनम् ।

५ - ६३ - नञ्सुभ्याम् नियमार्थम् तु ।

६ - ६३ - नञ्सुभ्याम् इति एतत् नियमार्थम् भविष्यति ।

७ - ६३ - नञ्सुभ्याम् एव बहुव्रीहेः अन्तः उदात्तः भवति न अन्यस्य इति ।

८ - ६३ - एवम् अपि कुतत् एतत् पूर्वपदप्रकृतिस्वरत्वम् भविष्यति न पुनः परस्य इति ।

९ - ६३ - परस्य शितिशासनात् ।

१० - ६३ - शितेः नित्याबह्वच् इति एतत् नियमार्थम् भविष्यति ।

११ - ६३ - शितेः एव न अन्यतः इति ।

१२ - ६३ - यत् तावत् उच्यते नञ्सुभ्याम् नियमार्थम् इति क्षेपे विधिः नञः असिद्धः ।

१३ - ६३ - उदराश्वेषुषु क्षेपे इति एतस्मिन् प्राप्ते ततः एतत् उच्यते ।

१४ - ६३ - यत् अपि उच्यते परस्य शितिशासनात् इति परस्य नियमः भवेत् ।

१५ - ६३ - परस्य एषः नियमः स्यात् ।

१६ - ६३ - शितेः नित्याबह्वच् इति ।

१७ - ६३ - यदि पूर्वपदप्रकृतिस्वरम् समासान्तोदात्तत्वम् बाधते चप्रियः वाप्रियः , अत्र अपि प्राप्नोति ।

१८ - ६३ - अन्तः चवाप्रिये सम्भवात् । अन्तोदात्तत्वम् चवाप्रिये सिद्धम् ।

१९ - ६३ - कुतः ।

२० - ६३ - सम्भवात् ।

२१ - ६३ - असति खलु अपि सम्भवे बाधनम् भवति ।

२२ - ६३ - अस्ति च सम्भवः यत् उभयम् स्यात् ।

२३ - ६३ - सति अपि सम्भवे बाधनम् भवति ।

२४ - ६३ - तत् यथा ।

२५ - ६३ - दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति ।

२६ - ६३ - एवम् इह अपि सति अपि सम्भवे पूर्वपदप्रकृतिस्वरम् समासान्तोदात्तत्वम् बाधिष्यते ।

२७ - ६३ - एवम् तर्हि प्रकृतात् विधेः । बहुव्रीहौ प्र्कृत्या पूर्वपदम् प्रकृतिस्वरम् भवति इति ।

२८ - ६३ - किम् च प्रकृतम् ।

२९ - ६३ - उदात्तः इति च वर्तते ।

३० - ६३ - एवम् अपि कार्यप्रियः , हार्यप्रियः , अत्र न प्राप्नोति ।

३१ - ६३ - स्वरिते अपि उदात्तः अस्ति ।

३२ - ६३ - अथ वा स्वरितग्रहणम् अपि प्रकृतम् अनुवर्तते ।

३३ - ६३ - क्व प्रकृतम् ।

३४ - ६३ - तित् स्वरितम् इति ।

३५ - ६३ - बहुव्रीहौ ऋते सिद्धम् । अन्तरेण अपि बहुव्रीहिग्रहणम् सिद्धम् ।

३६ - ६३ - तत्पुरुषे कस्मात् न भवति ।

३७ - ६३ - तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः इति एतत् नियमार्थम् भविष्यति ।

३८ - ६३ - द्विगौ तर्हि कस्मात् न भवति ।

३९ - ६३ - इगन्ते द्विगौ इति एतत् नियमार्थम् भविष्यति ।

४० - ६३ - द्वन्द्वे तर्हि प्राप्नोति ।

४१ - ६३ - राजन्यबहुवचनद्वन्द्वे अन्धकवृष्णिषु इति एतत् नियमार्थम् भविष्यति ।

४२ - ६३ - अव्ययीभावे तर्हि प्राप्नोति ।

४३ - ६३ - परिप्रत्युपापाः वर्ज्यमानाहोरात्रावयवेषु इति एतत् नियमार्थम् भविष्यति ।

४४ - ६३ - एवम् अपि कुतः एतत् एवम् नियमः भविष्यति एतेषाम् एव तत्पुरुषादिषु इति न पुनः एवम् नियमः स्यात् एतेषाम् तत्पुरुषादिषु एव इति ।

४५ - ६३ - इष्टतः च अवधारणम् ।

४६ - ६३ - इष्टतः च अवधारणम् भविष्यति ।

४७ - ६३ - एतेषाम् तर्हि बहुव्रीहेः च पर्यायः प्राप्नोति ।

४८ - ६३ - द्विपाद्दिष्टेः वितस्तेः च पर्यायः न प्रकल्पते । यत् अयम् द्वित्रिभ्याम् पाद्दन्मूर्धसु बहुव्रीहौ दिष्टिवितस्योः च इति सिद्धे पर्याये पर्यायम् शास्ति तत् ज्ञापयति आचार्यः न पर्यायः भवति इति ।

४९ - ६३ - उदात्ते ज्ञापकम् तु एतत् । उदात्ते एतत् ज्ञापकम् स्यात् ।

५० - ६३ - स्वरितेन समाविशेत् । स्वरितेन समावेशः प्राप्नोति ।

५१ - ६३ - स्वरिते अपि उदात्तः अस्ति ।

५२ - ६३ - बहुव्रीहिस्वरम् शास्ति समासान्तविधेः सुकृत् ।

५३ - ६३ - नञ्सुभ्याम् नियमार्थम् तु ।

५४ - ६३ - परस्य शितिशासनात् ।

५५ - ६३ - क्षेपे विधिः नञः असिद्धः ।

५६ - ६३ - परस्य नियमः भवेत् ।

५७ - ६३ - अन्तः चवाप्रिये सम्भवात् ।

५८ - ६३ - प्रकृतात् विधेः ।

५९ - ६३ - बहुव्रीहौ ऋते सिद्धम् ।

६० - ६३ - इष्टतः च अवधारणम् ।

६१ - ६३ - द्विपाद्दिष्टेः वितस्तेः च पर्यायः न प्रकल्पते ।

६२ - ६३ - उदात्ते ज्ञापकम् तु एतत् ।

६३ - ६३ - स्वरितेन समाविशेत् ।

१ - २९ - तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः ।

२ - २९ - तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः वक्तव्यः ।

३ - २९ - परमम् कारकम् परमकारकम् परमेन कारकेण परमकारकेण , परमे कारके परमकारके ।

४ - २९ - सिद्धम् तु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणात् ।

५ - २९ - सिद्धम् एतत् ।

६ - २९ - कथम् ।

७ - २९ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् यः द्वितीयातृतीयासप्तमीसमासः तस्य ग्रहणम् लक्षणोक्तः च अयम् ।

८ - २९ - अव्यये परिगणनम् कर्तव्यम् ।

९ - २९ - अव्यये नञ्कुनिपातानाम् ।

१० - २९ - अव्यये नञ्कुनिपातानाम् इति वक्तव्यम् ।

११ - २९ - नञ् ।

१२ - २९ - अब्राह्मणः , अवृषलः ।

१३ - २९ - नञ् ।

१४ - २९ - कु ।

१५ - २९ - कुब्राह्मणः , कुवृषलः ।

१६ - २९ - कु ।

१७ - २९ - निपात ।

१८ - २९ - निष्कौशाम्बिः , निर्वाराणसिः ।

१९ - २९ - क्व मा भूत् ।

२० - २९ - स्नात्वाकालकः , पीत्वास्थिरकः ।

२१ - २९ - क्त्वायाम् वा प्रतिषेधः ।

२२ - २९ - क्त्वायाम् वा प्रतिषेधः वक्तव्यः ।

२३ - २९ - स्नात्वाकालकः , पीत्वास्थिरकः ।

२४ - २९ - उभयम् न वक्तव्यम् ।

२५ - २९ - निपातनात् सिद्धम् ।

२६ - २९ - निपातनात् एतत् सिद्धम् ।

२७ - २९ - किम् निपातनम् ।

२८ - २९ - अवश्यम् अत्र समासार्थम् ल्यबभावार्थम् च निपातनम् कर्तव्यम् ।

२९ - २९ - तेन एव यत्नेन स्वरः भविष्यति ।

१ - २० - सदृशग्रहणम् अनर्थकम् तृतीयासमासवचनात् ।

२ - २० - सदृशग्रहणम् अनर्थकम् ।

३ - २० - किम् कारणम् ।

४ - २० - तृतीयासमासवचनात् ।

५ - २० - सदृशशब्देन तृतीयासमासः उच्यते ।

६ - २० - तत्र तृतीयापूर्वपदम् प्रकृतिस्वरम् भवति इति एव सिद्धम् ।

७ - २० - षष्ठ्यर्थम् तर्हि इदम् वक्तव्यम् ।

८ - २० - पितुः सदृशः पितृसदृशः इति ।

९ - २० - षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनानर्थक्यम् ।

१० - २० - षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनम् अनर्थकम् स्यात् ।

११ - २० - किम् कारणम् ।

१२ - २० - इह अस्माभिः त्रैशब्द्यम् साध्यम् ।

१३ - २० - पित्रा सदृशः पितुः सदृशः पितृसदृशः इति ।

१४ - २० - तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरेण समासः भविष्यति अविरविकन्यायेन ।

१५ - २० - तत् यथा अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति , आविकम् इति एवम् पितुः सदृशः इति विगृह्य पितृसदृशः इति भविष्यति पित्रा सदृशः इति विगृह्य वाक्यम् एव ।

१६ - २० - अवश्यम् तृतीयासमासः वक्तव्यः यत्र षष्ठ्यर्थः न अस्ति तदर्थम् ।

१७ - २० - भोजनसदृशः , अधययनसदृशः इति ।

१८ - २० - यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् इदम् न वक्तव्यम् ।

१९ - २० - इदम् अपि अवश्यम् वक्तव्यम् यत्र षष्ठी श्रूयते तदर्थम् ।

२० - २० - दास्याःसदृशः , वृषल्याःसदृशः इति ।

१ - ११ - इगन्तप्रकृतिस्वरत्वे यण्गुणयोः उपसङ्ख्यानम् ।

२ - ११ - इगन्तप्रकृतिस्वरत्वे यण्गुणयोः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ११ - पञ्चारत्न्यः , दशारतन्यः ।

४ - ११ - यण्गुणयोः कृतयोः इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति ।

५ - ११ - न वा बहिरङ्गलक्षणत्वात् ।

६ - ११ - न वा वक्तव्यम् ।

७ - ११ - किम् कारणम् ।

८ - ११ - बहिरङ्गलक्षणत्वात् ।

९ - ११ - बहिरङ्गौ यण्गुणौ ।

१० - ११ - अन्तरङ्गः स्वरः ।

११ - ११ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

१ - १४ - परिप्रत्युपापेभ्यः वनम् समासे विप्रतिषेधेन ।

२ - १४ - परिप्रत्युपापेभ्यः वनम् समासे इति एतत् भवति विप्रतिषेधेन ।

३ - १४ - परिप्रत्युपापाः वर्ज्यमानाहोरातावयवेषु इति अस्य अवकाशः परित्रिगर्तम्, परिसौवीरम् ।

४ - १४ - वनम् समासे इति अस्य अवकाशः प्रवणे यष्टव्यम् ।

५ - १४ - इह उभयम् प्राप्नोति परिवनम् अपवनम् ।

६ - १४ - वनम् समासे इति एतत् भवति विप्रतिषेधेन ।

७ - १४ - न वा वनस्यान्दोदात्तत्ववचनम् तदपवादनिवृत्त्यर्थम् ।

८ - १४ - न वा अर्थः विप्रतिषेधेन ।

९ - १४ - किम् कारणम् ।

१० - १४ - वनस्यान्दोदात्तत्ववचनम् तदपवादनिवृत्त्यर्थम् ।

११ - १४ - सिद्धम् अत्र अन्तोदात्तत्वम् उत्सर्गेण एव ।

१२ - १४ - तस्य पुनर्वचने एतत् प्रयोजनम् ।

१३ - १४ - ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।

१४ - १४ - सः यथा एव तदपवादम् अव्ययस्वरम् बाधते एवम् इदम् अपि बाधिष्यते ।

१ - ७ - आचार्योपसर्जने अनेकस्य अपि पूर्वपदत्वात् सन्देहः ।

२ - ७ - आचार्योपसर्जने अनेकस्य अपि पूर्वपदत्वात् सन्देहः भवति ।

३ - ७ - आपिशलपाणिनीयव्याडीयगौतमीयाः ।

४ - ७ - एकम् पदम् वर्जयित्वा सर्वाणि पूर्वपदानि ।

५ - ७ - तत्र न ज्ञायते कस्य पूर्वपदस्य प्रकृतिस्वरेण भवितव्यम् इति ।

६ - ७ - लोकविज्ञानात् सिद्धम् ।

७ - ७ - तत् यथा लोके , अमीषाम् ब्राह्मणानाम् पूर्वम् आनय इति यः सर्वपूर्वः सः आनीयते एवम् इह अपि यत् सर्वपूर्वपदम् तस्य प्रकृतिस्वरत्वम् भविष्यति ।

१ - ४ - किमर्थम् महतः प्रवृद्धशब्दे उत्तरपदे पूर्वपदप्रकृतिस्वरत्वम् उच्यते न कर्मधारये अनिष्ठा इति एव सिद्धम् ।

२ - ४ - न सिध्यति ।

३ - ४ - किम् कारणम् ।

४ - ४ - श्रेण्यादिसमासे एवत् तत् इह मा भूत् , महानिरष्टः दक्षिणा दीयते ।

१ - १८ - कुरुवृज्योः गार्हपते ।

२ - १८ - कुरुवृज्योः गार्हपते इति वक्तव्यम् ।

३ - १८ - कुरुगार्हपतम् , वृजिगाऋहपतम् ।

४ - १८ - कुरुगार्हपतरिक्तरुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैलिकद्रूःपण्यकमबलः दासीभारादीनाम् इति वक्तव्यम् ।

५ - १८ - इह अपि यथा स्यात् ।

६ - १८ - देवहूतिः , देवनीतिः , वसुनीतिः , ओषधिः , चन्द्रमाः ।

७ - १८ - तत् तर्हि वक्तव्यम् ।

८ - १८ - न वक्तव्यम् ।

९ - १८ - योगविभागः करिष्यते ।

१० - १८ - कुरुगार्हपतरिक्तरुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैलिकद्रूःपण्यकमबलः इति ।

११ - १८ - ततः दासीभाराणाम् च इति ।

१२ - १८ - तत्र बहुवचननिर्देशात् दासीभारादीनाम् इति विज्ञास्यते ।

१३ - १८ - पण्यकम्बलः सञ्ज्ञायाम् ।

१४ - १८ - पण्यकम्बलः सञ्ज्ञायाम् इति वक्तव्यम् ।

१५ - १८ - यः पणितव्यः कम्बलः पण्यकम्बलः एव असौ भवति ।

१६ - १८ - अपरः आह पण्यकम्बलः एव यथा स्यात् ।

१७ - १८ - क्व मा भूत् ।

१८ - १८ - पण्यगवः , पण्यहस्ती ।

१ - ९ - अहीने इति किमर्थम् ।

२ - ९ - कान्तारातीतः , योजनातीतः ।

३ - ९ - अहीने द्वितीया अनुपसर्गे ।

४ - ९ - अहीने द्वितीया अनुपसर्गे इति वक्तव्यम् ।

५ - ९ - इह मा भूत् ।

६ - ९ - सुखप्राप्तः , दुःखप्राप्तः ।

७ - ९ - तत् तर्हि वक्तव्यम् ।

८ - ९ - यदि अपि एतत् उच्यते अथ वा एतर्हि अहीनग्रहणम् न करिष्यते ।

९ - ९ - इह अपि कान्तारातीतः , योजनातीतः इति अनुपसर्गे इति एव सिद्धम् ।

१ - ६१ - अनन्तरः इति किमर्थम् ।

२ - ६१ - इह मा भूत् ।

३ - ६१ - अभ्युद्धृतम् , उपसमाहृतम् ।

४ - ६१ - गतेः अनन्तरग्रहणम् अनर्थकम् गतिः गतौ अनुदात्तवचनात् ।

५ - ६१ - गतेः अनन्तरग्रहणम् अनर्थकम् ।

६ - ६१ - किम् कारणम् ।

७ - ६१ - गतिः गतौ अनुदात्तवचनात् ।

८ - ६१ - गतौ परतः गतेः अनुदात्तत्वम् उच्यते ।

९ - ६१ - तत् बाधकम् भविष्यति ।

१० - ६१ - तत्र यस्य अप्रकृतिस्वरत्वम् तस्मात् अन्तोदात्तप्रसङ्गः. तत्र यस्य गतेः अप्रकृतिस्वरत्वम् तस्मात् अन्तोदात्तत्वम् प्राप्नोति अन्तः थाथघञ्क्ताजबित्रकाणाम् इति ।

११ - ६१ - प्रकृतिस्वरवचनात् हि अननोदात्तत्वम् ।

१२ - ६१ - प्रकृतिस्वरवचनसामर्थ्यात् हि अन्तोदात्तत्वम् न भविष्यति ।

१३ - ६१ - यदि हि स्यात् प्रकृतिस्वरवचनम् इदानीम् किमर्थम् स्यात् ।

१४ - ६१ - प्रकृतिस्वरवचनम् किमर्थम् इति चेत् एकगत्यर्थम् ।

१५ - ६१ - प्रकृतिस्वरवचनम् किमर्थम् इति चेत् एकगत्यर्थम् ।

१६ - ६१ - यत्र एकः गतिः तदर्थम् एतत् स्यात् ।

१७ - ६१ - प्रकृतम् , प्रहृतम् ।

१८ - ६१ - एवमर्थम् एव तर्हि अनन्तग्रहणम् कर्तव्यम् अत्र यथा स्यात् ।

१९ - ६१ - क्रियमाणे अपि वै अनन्तग्रहणे अत्र न सिध्यति ।

२० - ६१ - किम् कारणम् ।

२१ - ६१ - गतिः अनन्तरः पूर्वपदम् प्रकृतिस्वरम् भवति इति उच्यते ।

२२ - ६१ - यः च अत्र गतिः अनन्तरः न असौ पूर्वपदम् यः च पूर्वपदम् न असौ अनन्तरः ।

२३ - ६१ - अपूर्वपदार्थम् तर्हि इदम् वक्तव्यम् ।

२४ - ६१ - अपूर्वपदस्य अपि गतेः प्रकृतिस्वरत्वम् यथा स्यात् ।

२५ - ६१ - अपूर्वपदार्थम् इति चेत् कारके अतिप्रसङ्गः ।अपूर्वपदार्थम् इति चेत् कारके अतिप्रसङ्गः भवति ।

२६ - ६१ - आगतः , दूरादागतः ।

२७ - ६१ - सः यथा एव गतिपूर्वपदस्य भवति एवम् कारकपूर्वपदस्य अपि प्राप्नोति ।

२८ - ६१ - सिद्धम् तु गतेः अन्तोदात्ताप्रसङ्गात् ।

२९ - ६१ - सिद्धम् एतत् ।

३० - ६१ - कथम् ।यत् तत् गतेः अन्तोदात्ताप्रसङ्गात् अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एतत् गतेः न प्रसङ्क्तव्यम् ।

३१ - ६१ - किम् कृतम् भवति ।

३२ - ६१ - कृत्स्वरापवादः अयम् भवति ।

३३ - ६१ - तत्र गतिः अनन्तरः इति अस्य अवकाशः प्रकृतम् , प्रहृतम् ।

३४ - ६१ - अन्तः थाथघञ्क्ताजबित्रकाणाम् इति अस्य अवकाशः , दूराद्गतः , दूराद्यातः ।

३५ - ६१ - इह उभयम् प्राप्नोति ।

३६ - ६१ - आगतः , दूरादागतः ।

३७ - ६१ - अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एतत् भवति विप्रतिषेधेन ।

३८ - ६१ - अवश्यम् गतेः तत् प्रसङ्क्तव्यम् भेदः प्रभेदः इति एवमर्थम् ।

३९ - ६१ - एवम् तर्हि योगविभागः करिष्यते ।

४० - ६१ - अन्तः थाथघञ्क्ताजबित्रकाणाम् इति ।

४१ - ६१ - ततः क्तः ।

४२ - ६१ - क्तान्तम् उत्तरपदम् अन्तोदात्तम् भवति ।

४३ - ६१ - अत्र कारकोपपदग्रहणम् ।

४४ - ६१ - अनुवर्तते गतिग्रहणम् निवृत्तम् ।

४५ - ६१ - अथ वा उपरिष्टाद् योगविभागः करिष्यते ।

४६ - ६१ - इदम् अस्ति सूपमानात् क्तः , सञ्ज्ञायाम् अनाचितादीनाम् , प्रवृद्धादीनाम् च इति ।

४७ - ६१ - ततः वक्ष्यामि कारकात् ।

४८ - ६१ - कारकात् च क्तान्तम् उत्तरपदम् अन्तोदात्तम् भवति ।

४९ - ६१ - ततः दत्तश्रुतयोः एव आशिषि कारकात् इति ।

५० - ६१ - एवम् च कृत्वा न अर्थः अनन्तग्रहणेन ।

५१ - ६१ - कथम् अभ्युद्धृतम् ।

५२ - ६१ - उत् हरतिक्रियम् विशिनष्टि ।

५३ - ६१ - उदा विशिष्टम् अभिः विशिनष्टि ।

५४ - ६१ - । तत्र गतिः अनन्तरः इति च प्राप्नोति गतिः गतौ इति च ।

५५ - ६१ - गतिः अनन्तरः इति अस्य अवकाशः प्रकृतम् प्रहृतम् ।

५६ - ६१ - गतिः गतौ इति अस्य अवकाशः अभि उत् हरति , उप सम् आ दधाति ।

५७ - ६१ - इह उभयम् प्राप्नोति , अभ्युद्धृतम् , उपसमाहृतम् ।

५८ - ६१ - गतिः गतौ इति एतत् भवति विप्रतिषेधेन ।एवम् तर्हि सिद्धे सति यत् अनन्तरग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति ।

५९ - ६१ - किम् एतस्य ज्ञापने प्रयोजनम् ।

६० - ६१ - अवतप्तेनकुलस्थितम् ते एतत् , उदकेविशीर्णम् ते एतत् ।

६१ - ६१ - सगतिकेन सनकुलेन समासः सिद्धः भवति ।

१ - २१ - कृद्ग्रहणम् किमर्थम् ।

२ - २१ - यथा तकारादिग्रह्णम् कृद्विशेषणम् विज्ञायेत ।

३ - २१ - तकारादौ निति कृति इति ।

४ - २१ - अथ अक्रियमाणे कृद्ग्रहणे कस्य तकारादिग्रह्णम् विशेषणम् स्यात् ।

५ - २१ - उत्तरपदविशेषणम् ।

६ - २१ - तत्र कः दोषः ।

७ - २१ - इह एव स्यात् प्रतरिता प्रतरितुम् ।

८ - २१ - इह न स्यात् प्रकर्ता प्रकर्तुम् ।

९ - २१ - तादौ निति कृद्ग्रहणानर्थक्यम् ।

१० - २१ - तादौ निति कृद्ग्रहणम् अनर्थकम् ।

११ - २१ - क्रियमाणे अपि कृद्ग्रहणे अनिष्टम् शक्यम् विज्ञातुम् ।

१२ - २१ - तकारादौ उत्तरपदे निति कृति इति ।

१३ - २१ - अक्रियमाणे च इष्टम् ।

१४ - २१ - नित् यः तकारादिः तदन्ते उत्तरपदे इति ।

१५ - २१ - यावता क्रियमाणे अपि अनिष्टम् विज्ञायते अक्रियमाणे च इष्टम् अक्रियमाणे एव इष्टम् विज्ञास्यामः ।

१६ - २१ - कृदुपदेशे वा ताद्यर्थम् इडर्थम् ।कृदुपदेशे तर्हि ताद्यर्थम् इडर्थम् कृद्ग्रहणम् कर्तव्यम् ।

१७ - २१ - कृदुपदेशे यः तकारादिः इति एवम् यथा विज्ञायेत ।

१८ - २१ - किम् प्रयोजनम् ।

१९ - २१ - इडर्थम् ।

२० - २१ - इडादौ अपि सिद्धम् भवति ।

२१ - २१ - प्रलविता प्रलवितुम् ।

१ - ३७ - अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः ।

२ - ३७ - अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावः प्राप्नोति ।

३ - ३७ - प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः ।

४ - ३७ - अनिगन्तवचनम् इदानीम् किमर्थम् स्यात् ।

५ - ३७ - अनिगन्तवचनम् किमर्थम् इति चेत् अयणादिष्टार्थम् ।

६ - ३७ - अयणादिष्टार्थम् एतत् स्यात् ।

७ - ३७ - यदा यणादेशः न ।

८ - ३७ - कदा च यणादेशः न ।

९ - ३७ - यादा शाकलम् ।

१० - ३७ - उक्तम् वा ।

११ - ३७ - किम् उक्तम् ।

१२ - ३७ - समासे शाकलम् न भवति इति ।

१३ - ३७ - यत्र तर्हि अञ्चतेः अकारः लुप्यते प्रतीचः प्रतीइचा ।

१४ - ३७ - चुस्वरः तत्र बाधकः भविष्यति ।

१५ - ३७ - अयम् एव इष्यते ।

१६ - ३७ - वक्ष्यति हि एतत् चोः अनिगन्तः अञ्चतौ वप्रत्यये इति ।

१७ - ३७ - यत् तर्हि न्यध्योः प्रकृतिस्वरम् शास्ति ।

१८ - ३७ - एषः हि यणादिष्टार्थः आरम्भः ।

१९ - ३७ - एतत् अपि अयणादिष्टार्थम् एव स्यात् ।

२० - ३७ - यदा यणादेशः न ।

२१ - ३७ - कदा च यणादेशः न ।

२२ - ३७ - यादा शाकलम् ।

२३ - ३७ - उक्तम् वा ।

२४ - ३७ - किम् उक्तम् ।

२५ - ३७ - समासे शाकलम् न भवति इति ।

२६ - ३७ - यत्र तर्हि अञ्चतेः अकारः लुप्यते ।

२७ - ३७ - अधीचः अधीचा ।

२८ - ३७ - चुस्वरः तत्र बाधकः भविष्यति ।

२९ - ३७ - अयम् एव इष्यते ।

३० - ३७ - वक्ष्यति हे एतत् चोः अनिगन्तः अञ्चतौ वप्रत्यये इति ।

३१ - ३७ - यत् तर्हि नेः एव प्रकृतिस्वरम् शास्ति ।

३२ - ३७ - एषः हि यणादिष्टार्थः आरम्भः ।

३३ - ३७ - एतत् अपि अयणादिष्टार्थम् एव स्यात् ।

३४ - ३७ - कथम् ।

३५ - ३७ - अकृते यणादेश पूर्वपदप्रकृतिस्वरत्वे कृते उदात्तस्वरितोः यणः स्वरितः वा अनुदात्तस्य इति एषः स्वरः सिद्धः भवति ।

३६ - ३७ - न्यङ् ।

३७ - ३७ - तस्मात् सुष्ठु उच्यते अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः इति ।

१ - ६७ - चोः अनिगन्तः अञ्चतौ वप्रत्यये ।

२ - ६७ - चुस्वरात् अनिगन्तः अञ्चतौ वप्रत्यये इति एषः स्वरः भवति विप्रतिषेधेन ।

३ - ६७ - चुस्वरस्य अवकाशः दधीचः पश्य ।

४ - ६७ - दधीचा दधीचे ।

५ - ६७ - अनिगन्तः अञ्चतौ वप्रत्यये इति अस्य अवकाशः पराङ् पराञ्चौ पराञ्चः ।

६ - ६७ - इह उभयम् प्राप्नोति ।

७ - ६७ - अवाचा , अवाचे ।

८ - ६७ - अवकाशः इति एतत् भवति विप्रतिषेधेन ।

९ - ६७ - न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् इतरथा हि सर्वापवादः ।

१० - ६७ - न वा एतत् विप्रतिषेधेन अपि सिध्यति ।

११ - ६७ - कथम् तर्हि सिध्यति ।

१२ - ६७ - चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् ।

१३ - ६७ - चुर्स्वरः पूर्वपदप्रकृतिस्वरभाविनः प्रतिषेध्यः ।

१४ - ६७ - इतरथा हि सर्वापवादः चुस्वरः ।

१५ - ६७ - अक्रियमाणे हि प्रतिषेधे सर्वापवादः अयम् चुस्वरः ।

१६ - ६७ - कथम् ।

१७ - ६७ - प्रत्ययस्वरस्य अपवादः अनुदात्तौ सुप्पितौ इति ।

१८ - ६७ - अनुदात्तौ सुप्पितौ इति अस्य उदात्तनिवृत्तिस्वरः ।

१९ - ६७ - उदात्तनिवृत्तिस्वरस्य चुस्वरः ।

२० - ६७ - सः यथा एव उदात्तनिवृत्तिस्वरम् बाधते एवम् अनिगन्तस्वरम् अपि बाधेत ।

२१ - ६७ - यदि तावत् सङ्ख्यातः साम्यम् अयम् अपि चतुर्थः ।

२२ - ६७ - समासान्तोदात्तत्वस्य अपवादः अव्ययस्वरः ।

२३ - ६७ - अव्ययस्वरस्य कृत्स्वरः ।

२४ - ६७ - कृत्स्वरस्य अयम् ।

२५ - ६७ - उभयोः चतुर्थयोः युक्तः विप्रतिषेधः ।

२६ - ६७ - सतिशिष्टः तर्हि चुस्वरः ।

२७ - ६७ - कथम् ।

२८ - ६७ - चौ इति उच्यते ।

२९ - ६७ - यत्र अस्य एतत् रूपम् ।

३० - ६७ - अजादौ असर्वनामस्थाने अभिनिर्वृत्ते अकारलोपे नकारलोपे च ।

३१ - ६७ - तस्मात् सुष्थु उच्यते न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् इतरथा हि सर्वापवादः इति ।

३२ - ६७ - विभक्तीषत्स्वरात् कृत्स्वरः ।

३३ - ६७ - विभक्तिस्वरात् ईषत्स्वरात् च कृत्स्वरः भवति विप्रतिषेधेन ।

३४ - ६७ - विभक्तिस्वरस्य अवकाशः अक्षशौण्डः , स्त्रीशौण्डः ।

३५ - ६७ - कृत्स्वरस्य अवकाशः , इध्मप्रव्रश्चनः ।

३६ - ६७ - इह उभयम् प्राप्नोति पूर्वाह्णेस्फोटकाः ।

३७ - ६७ - कृत्स्वरः भवति विप्रतिषेधेन ।

३८ - ६७ - ईषत्स्वरस्य अवकाशः , ईषत्कडारः , ईषत्पिङ्गलः ।

३९ - ६७ - कृत्स्वरस्य सः एव ।

४० - ६७ - इह उभयम् प्राप्नोति , ईषद्भेदः ।

४१ - ६७ - कृत्स्वरः भवति विप्रतिषेधेन ।

४२ - ६७ - चित्स्वरात् हारिस्वरः ।

४३ - ६७ - चित्स्वरात् हारिस्वरः भवति विप्रतिषेधेन ।

४४ - ६७ - चित्स्वरस्य अवकाशः , चलनः , चोपनः ।

४५ - ६७ - हारिस्वरस्य अवकाशः , याज्ञिकाश्वः , वैयाकरणहसी ।

४६ - ६७ - इह उभयम् प्राप्नोति , पितृगवः, मातृगवः ।

४७ - ६७ - हारिस्वरः भवति विप्रतिषेधेन ।

४८ - ६७ - कृत्स्वरात् च ।

४९ - ६७ - कृत्स्वरात् च हारिस्वरः भवति विप्रतिषेधेन ।

५० - ६७ - कृत्स्वरस्य अवकाशः , इध्मप्रव्रश्चनः ।

५१ - ६७ - हारिस्वरस्य सः एव ।

५२ - ६७ - इह उभयम् प्राप्नोति , अक्षहृतः , वाडवहृतः ।

५३ - ६७ - हारिस्वरः भवति विप्रतिषेधेन ।

५४ - ६७ - न वा हरणप्रतिषेधः ज्ञापकः कृत्स्वराभाधकतव्स्य ।

५५ - ६७ - न वा अर्थः विप्रतिषेधेन ।

५६ - ६७ - किम् कारणम् ।

५७ - ६७ - हरणप्रतिषेधः ज्ञापकः कृत्स्वराभाधकत्वस्य ।

५८ - ६७ - यत् अयम् अहरणे इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः न कृत्स्वरः हारिस्वरम् बाधते इति ।

५९ - ६७ - न एतत् अस्ति ज्ञापकम् ।

६० - ६७ - अनः भावकर्मवचनः इति एतस्मिन् प्राप्ते तत एतत् उच्यते ।

६१ - ६७ - यदि एवम् साधीयः ज्ञापकम् ।

६२ - ६७ - कृत्स्वरस्य अपवादः अनः भावकर्मवचनः इति ।

६३ - ६७ - बाधकम् किल बाधते किम् पुनः तम् ।

६४ - ६७ - युक्तस्वरः च कृत्स्वरात् भवति विप्रतिषेधेन ।

६५ - ६७ - युक्तस्वरस्य अवकाशः , गोवल्लवः , अश्ववल्लवः ।

६६ - ६७ - कृत्स्वरस्य सः एव. इह उभयम् प्राप्नोति , गोसङ्ख्यः , पशूसङ्ख्यः , अश्वसङ्ख्यः ।

६७ - ६७ - युक्तस्वरः भवति विप्रतिषेधेन ।

१ - २२ - उपमानम् इति किमर्थम् ।

२ - २२ - शब्दार्थप्रकृतौ एव इति इयति उच्यमाने पूर्वेण अतिप्रसक्तम् इति कृत्वा नियमः अयम् विज्ञायेत ।

३ - २२ - तत्र कः दोषः ।

४ - २२ - इह न स्यात् ।

५ - २२ - पुष्फारी फलहारी ।

६ - २२ - उपमानग्रहणे पुनः क्रियमाणे न दोषः भवति ।

७ - २२ - अथ शब्दार्थग्रहणम् किमर्थम् ।

८ - २२ - उपमानम् प्रकृतौ एव इति इयति उच्यमाने इह अपि प्रसज्येत ।

९ - २२ - वृकवञ्ची वृकप्रेक्षी ।

१० - २२ - शब्दाऋथग्रहणे पुनः क्रियमाणे न दोषः भवति ।

११ - २२ - अथ प्रकृतिग्रहणम् किमर्थम् ।

१२ - २२ - शब्दार्थप्रकृतिः एव यः नित्यम् तत्र यथा स्यात् ।

१३ - २२ - इह मा भूत् ।

१४ - २२ - कोकिलभिव्याहारी ।

१५ - २२ - अथ एवकारः किमर्थः ।

१६ - २२ - नियमार्थः ।

१७ - २२ - न एतत् अस्ति प्रयोजनम् ।

१८ - २२ - सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमाऋथः भविष्यति ।

१९ - २२ - इष्टतः अवधारणार्थः तर्हि ।

२० - २२ - यथा एवम् विज्ञायेते उपमानम् शब्दार्थप्रकृतौ एव इति ।

२१ - २२ - मा एवम् विज्ञायीत उपमानम् एव शब्दार्थप्रकृतौ इति ।

२२ - २२ - शब्दार्थप्रकृतौ हि उपमानम् च अनुपमानम् च आद्युदात्तम् इष्यते साध्वध्याई विलम्बाध्यायी ।

१ - ७ - जे दीर्घात् बह्वचः ।

२ - ७ - जे दीर्घान्तस्य आदिः उदात्तः भवति इति एतस्मात् अन्य्तात् पूर्वम् बह्वचः इति एतत् भवति विप्रतिषेधेन ।

३ - ७ - जे दीर्घान्तस्य आदिः उदात्तः भवति इति अस्य अवकाशः कुटीजः , शमीजः ।

४ - ७ - अन्य्तात् पूर्वम् बह्वचः इति अस्य अवकाशः उपसरजः , मन्दुरजः ।

५ - ७ - इह उभयम् प्राप्नोति ।

६ - ७ - आमलकीजः , बलभीजः ।

७ - ७ - अन्य्तात् पूर्वम् बह्वचः इति एतत् भवति विप्रतिषेधेन ।

१ - ३ - आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि उपसङ्ख्यानम् ।

२ - ३ - आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३ - दिवोदासाय गायत वध्र्यश्वाय दाशुषे ।

१ - १४ - सर्वग्रहणम् किमर्थम् ।

२ - १४ - गुणात् कार्त्स्न्ये इति इयति उच्यमाने इह अपि प्रसज्येत परमशुक्लः , परमक्षृण इति ।

३ - १४ - सर्वग्रहणे पुनः क्रियमाणे न दोषः भवति ।

४ - १४ - अथ गुणग्रहणम् किमर्थम् ।

५ - १४ - सर्वम् कार्त्स्न्ये इति इयति उच्यमाने इह अपि प्रसज्येत सर्वसौवर्णः सर्वराजतः इति ।

६ - १४ - गुणग्रहणे पुनः क्रियमाणे न दोषः भवति ।

७ - १४ - अथ कार्त्स्न्यग्रहणम् किमर्थम् ।

८ - १४ - सर्वम् गुणे इति इयति उच्यमाने इह अपि प्रसज्येत सर्वेषाम् श्वेतः सर्वश्वेतः इति ।

९ - १४ - कथम् च अत्र समासः ।

१० - १४ - षष्ठीसुबन्तेन समस्यते इति ।

११ - १४ - गुणेन न इति प्रतिषेधः प्राप्नोति ।

१२ - १४ - गुणात् तरेण समासः तरलोपः च ।

१३ - १४ - गुणात् तरेण समासः तरलोपः च वक्तव्यः ।

१४ - १४ - सर्वेषाम् श्वेततरः सर्वश्वेतः ।

१ - १० - अयुक्तः अयम् निर्देशः ।

२ - १० - न हि उत्तरपदम् नाम वृद्धिः अस्ति ।

३ - १० - कथम् तर्हि निर्देशः कर्तव्यः ।

४ - १० - वृद्धिमति उत्तरपदे इति ।

५ - १० - सः तर्हि तथा निर्देशः कर्तव्यः ।

६ - १० - न कर्तव्यः ।

७ - १० - न एवम् विज्ञायते ।

८ - १० - उत्तरपदम् वृद्धिः उत्तरपदवृद्धिः , उत्तरपदवृद्धौ इति ।

९ - १० - कथम् तर्हि ।

१० - १० - उत्तरपदस्य वृद्धिः अस्मिन् सः अयम् उत्तरपदवृद्धिः , उत्तरपदवृद्धौ इति ।

१ - ८ - बहुव्रीहौ विश्वस्य अन्तोदात्तात् सञ्ज्ञायाम् मित्राजिनयोः अन्तः ।बहुव्रीहौ विश्वस्य अन्तोदात्तात् सञ्ज्ञायाम् मित्राजिनयोः अन्तः इति एतत् भवति विप्रतिषेधेन ।

२ - ८ - बहुव्रीहौ विश्वम् सञ्ज्ञायाम् इति अस्य अवकाशः , विश्वदेवः , विश्वयशाः ।

३ - ८ - सञ्ज्ञायाम् मित्राजिनयोः अन्तः इति अस्य अवकाशः कुलमित्रम् , कुलाजिनम् ।

४ - ८ - इह उभयम् प्राप्नोति विश्वमित्रः , विश्वाजिनः ।

५ - ८ - सञ्ज्ञायाम् मित्राजिनयोः अन्तः इति एतत् भवति विप्रतिषेधेन ।

६ - ८ - अन्तोदात्तप्रकरणे मरुद्वृधादीनाम् छन्दसि उपसङ्ख्यानम् ।

७ - ८ - अन्तोदात्तप्रकरणे मरुद्वृधादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

८ - ८ - मरुद्वृधः सुवयाः उपतस्थे ।

१ - ६ - उदरादिभ्यः नञ्सुभ्याम् ।

२ - ६ - उदराश्वेषुषु क्षेपे इति एतस्मात् नञ्सुभ्याम् इति एतत् भवति विप्रतिषेधेन ।

३ - ६ - उदराश्वेषुषु क्षेपे इति अस्य अवकाशः कुण्डोदरः , घटोदरः ।

४ - ६ - नञ्सुभ्याम् इति अस्य अवकाशः अयवः , अतिलः , अमाषः , सुयवः , सुतिलः , सुमाषः ।

५ - ६ - इह उभयम् प्राप्नोति , अनुदरः , सूदरः ।

६ - ६ - नञ्सुभ्याम् इति एतत् भवति विप्रतिषेधेन ।

१ - ८ - सोः मनसोः कपि ।

२ - ८ - सोः मनसी अलोमोषसी इति एतस्मात् कपि पूर्वम् इति एतत् भवति विप्रतिषेधेन ।

३ - ८ - सोः मनसी अलोमोषसी इति एतस्य अवकाशः सुशर्माणम् अधि नावम् रुहेयम् ।

४ - ८ - सुशर्मा असि सुप्रतिष्ठानः ।

५ - ८ - सुस्रोताः , सुपयाः , सुवर्चाः ।

६ - ८ - कपि पूर्वम् इति अस्य अवकाशः अयवकः ।

७ - ८ - इह उभयम् प्राप्नोति सुशर्मकः , सुस्रोतकः ।

८ - ८ - कपि पूर्वम् इति एतत् भवति विप्रतिषेधेन ।

१ - ५ - पूर्वादिभ्यः कूलादीनाम् आद्युदात्तत्वम् ।

२ - ५ - पूर्वादिभ्यः कूलादीनाम् आद्युदात्तत्वम् भवति विप्रतिषेधेन ।

३ - ५ - परिप्रतिउपापाः वर्यजानाहोरात्रावयवेषु इति अस्य अवकाशः परित्रिगतम् , परिसौवीरम् ।

४ - ५ - कूलादीनाम् आद्युदात्तत्वस्य अवकाशः , अतिकूलम् , अनुकूलम् ।

५ - ५ - इह उभयम् प्राप्नोति परिकूलम् , कूलादीनाम् आद्युदात्तत्वम् भवति विप्रतिषेधेन ।

१ - ९ - चेलराज्यादिभ्यः अव्ययम् ।

२ - ९ - चेलराज्यादिस्वरात् अव्यययस्वरः भवति विप्रतिषेधेन ।

३ - ९ - चेलराज्यादिस्वरस्य अवकाशः , भार्याचेलम् , पुत्रचेलम् , ब्राह्मणराज्यम् ।

४ - ९ - अव्यययस्वरावकाशः , निष्कौशाम्बिः , निर्वाराणसिः ।

५ - ९ - इह उभयम् प्राप्नोति कुचेलम् , कुराज्यम् ।

६ - ९ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

७ - ९ - न वक्तव्यः ।

८ - ९ - इष्टवाची परशब्दः ।

९ - ९ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।

१ - ५ - कुण्डाद्युदात्तत्वे तत्समुदायग्रहणम् ।

२ - ५ - कुण्डाद्युदात्तत्वे तत्समुदायग्रहणम् कर्तव्यम् ।

३ - ५ - वनसमुदायवाचीचेत् कुण्डशब्दः भवति इति वक्तव्यम् ।

४ - ५ - इह मा भूत् ।

५ - ५ - मृत्कुण्डम् ।

१ - ५२ - गतिकारकोपपदात् इति किमर्थम् ।

२ - ५२ - इह मा भूत् ।

३ - ५२ - परमम् कारकम् , परमकारकम् ।

४ - ५२ - गतिकारकोपपदात् इति उच्यमाने अपि तत्र प्राप्नोति ।

५ - ५२ - एतत् हि कारकम् ।

६ - ५२ - इदम् तर्हि ।

७ - ५२ - देवदत्तस्य कारकम् , देवदत्तकारकम् ।

८ - ५२ - इदम् च अपि उदाहरणम् परमम् कारकम् , परमकारकम् इति ।

९ - ५२ - न एतत् कारकम् ।

१० - ५२ - कारकविशेषणम् एतत् ।

११ - ५२ - यावत् ब्रूयात् प्रकृष्टम् कारकम् शोभनम् कारकम् इति तावत् एतत् परमकारकम् इति ।

१२ - ५२ - अथ कृद्ग्रहणम् किमर्थम् ।

१३ - ५२ - इह मा भूत् ।

१४ - ५२ - निष्कौशाम्बिः , निवाराणसिः इति ।

१५ - ५२ - अतः उत्तरम् पठति गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणानर्थक्यम् अन्यस्य उत्तरपदस्य अभावात् ।

१६ - ५२ - गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणम् अनर्थकम् ।

१७ - ५२ - किम् कारणम् ।

१८ - ५२ - अन्यस्य उत्तरपदस्य अभावात् ।

१९ - ५२ - न हि अन्यत् गतियादिभ्यः उत्तरपदम् अस्ति अन्यत् अतः कृतः ।

२० - ५२ - किम् कारणम् ।

२१ - ५२ - धातोः हि द्वये प्रत्ययाः विधीयन्ते तिङः कृतः च ।

२२ - ५२ - तत्र कृता सह समासः भवति तिङा च न भवति ।

२३ - ५२ - तत्र अन्तरेण कृद्ग्रहणम् कृतः एव भविष्यति ।

२४ - ५२ - ननु च इदानीम् एव उदाहृतम् निष्कौशाम्बिः , निर्वाराणसिः इति ।

२५ - ५२ - यत्क्रियायुक्ताः तम् प्रति गत्युपसर्ग्सञ्ज्ञे भवतः न च निसः कौशाम्बीशब्दम् प्रति क्रियायोगः ।

२६ - ५२ - कृत्प्रकृतौ वा गतित्वात् अधिकाऋथम् कृद्ग्रहणम् ।

२७ - ५२ - कृत्प्रकृतौ तर्हि गतित्वात् अधिकाऋथम् कृद्ग्रहणम् कर्तव्यम् ।

२८ - ५२ - कृत्प्रकृतिः धातुः ।

२९ - ५२ - धातुम् च प्रति क्रियायोगः ।

३० - ५२ - तत्र यत्क्रियायुक्ताः तम् प्रति इति इह एव स्यात् ।

३१ - ५२ - प्रणीः , उन्नीः ।

३२ - ५२ - इह न स्यात् ।

३३ - ५२ - प्रणायकः , उन्नायकः ।

३४ - ५२ - एतत् अपि न अस्ति प्रयोजनम् ।

३५ - ५२ - यत्क्रियायुक्ताः इति न एवम् विज्ञायते ।

३६ - ५२ - यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्ग्सञ्ज्ञे भवतः इति ।

३७ - ५२ - कथम् तर्हि या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्ग्सञ्ज्ञे भवतः इति ।

३८ - ५२ - न च कः चित् केवलः शब्दः अस्ति यः तस्य अर्थस्य वाचकः स्यात् ।

३९ - ५२ - केवलः तस्य अर्थस्य वाचकः न अस्ति इति कृत्वा कृदधिकस्य भविष्यति ।

४० - ५२ - ननु च ययम् तस्य एव अर्थस्य वाचकः प्रणीः इति ।

४१ - ५२ - एषः अपि हि कर्तृविशिष्टस्य ।

४२ - ५२ - अयम् तर्हि तस्य एव अर्थस्य वाचकः प्रभवनम् इति ।

४३ - ५२ - तस्मात् कृद्ग्रहणम् कर्तव्यम् ।

४४ - ५२ - यदि कृद्ग्रहणम् क्रियते आमन्ते स्वरः न प्राप्नोति ।

४५ - ५२ - प्रपचतितराम् , प्रजल्पतितराम् ।

४६ - ५२ - असति पुनः कृद्ग्रहणे क्रियाप्रधानम् आख्यातम् तस्य अतिशये तरप् उत्पद्यते तरबन्तस्य स्वार्थे आम् ।

४७ - ५२ - तत्र यत्क्रियायुक्ताः इति भवति एव सङ्घातम् प्रति क्रियायोगः ।

४८ - ५२ - न च कः चित् केवलः शब्दः अस्ति यः तस्य अर्थस्य वाचकः स्यात् ।

४९ - ५२ - केवलः तस्य अर्थस्य वाचकः न अस्ति इति कृत्वा अधिकस्य भविष्यति ।

५० - ५२ - ननु च ययम् तस्य एव अर्थस्य वाचकः प्रभवनम् इति ।

५१ - ५२ - एषः अपि द्रव्यविशिष्टस्य ।

५२ - ५२ - कथम् कृदभिहितः भावः द्रव्यवत् भवति क्रियावत् अपि इति ।

१ - ३३ - किम् समासय अन्तः उदात्तः भवति आहोस्वित् उत्तरपदस्य ।

२ - ३३ - कुतः सन्देहः ।

३ - ३३ - उभयम् प्रकृतम् ।

४ - ३३ - तत्र अन्यतरत् शक्यम् विशेषयितुम् ।

५ - ३३ - कः च अत्र विशेषः ।

६ - ३३ - अन्तोदात्तत्वम् समासस्य इति चेत् कपि उपसङ्ख्यानम् ।

७ - ३३ - अन्तोदात्तत्वम् समासस्य इति चेत् कपि उपसङ्ख्यानम् कर्तव्यम् ।

८ - ३३ - इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने कपि च इति वक्तव्यम् इह अपि यथा स्यात् ।

९ - ३३ - इदम्प्रथमकाः ।

१० - ३३ - अस्तु तर्हि उत्तरपदस्य ।

११ - ३३ - उत्तरपदान्तोदात्तत्वे नञ्सुभ्याम् समासान्तोदात्तत्वम् ।

१२ - ३३ - उत्तरपदान्तोदात्तत्वे नञ्सुभ्याम् समासान्तोदात्तत्वम् वक्तव्यम् ।

१३ - ३३ - अनृचः , बह्वृचः ।

१४ - ३३ - अपरः आह उत्तरपदान्तोदात्तत्वे नञ्सुभ्याम् समासान्तोदात्तत्वम् वक्तव्यम् ।

१५ - ३३ - अज्ञकः , अस्वकः ।

१६ - ३३ - कपि पूर्वम् इति अस्य अपवादः ह्रस्वान्ते अन्त्यात् पूर्वम् इति ।

१७ - ३३ - तत्र ह्रस्वान्ते अन्त्यात् पूर्वः उदात्तभावी न अस्ति इति कृत्वा उत्सर्गेण अन्तोदात्तत्वम् प्राप्नोति ।

१८ - ३३ - न वा कपि पूर्ववचनम् ज्ञापकम् उत्तरपदानन्तोदात्तत्वस्य ।

१९ - ३३ - न वा एषः दोषः ।

२० - ३३ - किम् कारणम् ।

२१ - ३३ - यत् अयम् कपि पूर्वम् इति आह तत् ज्ञापयति आचार्यः न उत्तरपदस्य अन्तः उदात्तत्ः भवति इति ।

२२ - ३३ - प्रकरणात् च समासान्तोदात्तत्वम् ।

२३ - ३३ - प्रकृतम् समासग्रहणम् अनुवर्तते ।

२४ - ३३ - क्व प्रकृतम् ।

२५ - ३३ - चौ समासस्य इति ।

२६ - ३३ - ननु च उक्तम् अन्तोदात्तत्वम् समासस्य इति चेत् कपि उपसङ्ख्यानम् इति ।

२७ - ३३ - न एषः दोषः ।

२८ - ३३ - उत्तरपदग्रहणम् अपि प्रकृतम् अनुवर्तते ।

२९ - ३३ - क्व प्रकृतम् ।

३० - ३३ - उत्तरपदादिः इति ।

३१ - ३३ - तत्र एवम् अभिसम्बन्धः करिष्यते ।

३२ - ३३ - नञ्सुभ्याम् समासस्य अन्तः उदात्तः भवति ।

३३ - ३३ - इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने उत्तरपदस्य इति ।

१ - ९ - कारकात् दत्तश्रुतयोः अनाशिषि प्रतिषेधः ।

२ - ९ - कारकात् दत्तश्रुतयोः अनाशिषि प्रतिषेधः वक्तव्यः ।

३ - ९ - अनाहतः नदति देवदत्तः ।

४ - ९ - सिद्धम् तु उभयनियमात् ।

५ - ९ - सिद्धम् एतत् ।

६ - ९ - कथम् ।

७ - ९ - उभयनियमात् ।

८ - ९ - उभयतः नियमः आश्रयिष्यते ।

९ - ९ - कारकात् दत्तश्रुतयोः एव आशिषि. आशिषि एव कारकात् दत्तश्रुतयोः इति ।

१ - ३ - ऋषिप्रतिषेधः मित्रे ।

२ - ३ - ऋषिप्रतिषेधः मित्रे वक्तव्यः ।

३ - ३ - विश्वामित्रः ऋषिः ।

१ - २१ - किमर्थम् बहोः नञ्वत् अतिदेशः क्रियते न नञ्सुबहुभ्यः इति एव उच्येत ।

२ - २१ - न एवम् शक्यम् ।

३ - २१ - उत्तरपदभूम्नि इति वक्ष्यति ।

४ - २१ - तत् बहोः एव यथा स्यात् ।

५ - २१ - नञ्सुभ्याम् मा भूत् इति ।

६ - २१ - न एतत् अस्ति प्रयोजनम् ।

७ - २१ - एकयोगे अपि हि सति यस्य उत्तरपदभूमा अस्ति तस्य भविष्यति ।

८ - २१ - कस्य च अस्ति ।

९ - २१ - बहोः एव ।

१० - २१ - इदम् तर्हि प्रयोजनम् ।

११ - २१ - न गुणादयः अव्यवाः इति वक्ष्यति ।

१२ - २१ - तत् बहोः एव यथा स्यात् ।

१३ - २१ - नञ्सुभ्याम् मा भूत् इति ।

१४ - २१ - एतत् अपि न अस्ति प्रयोजनम् ।

१५ - २१ - एकयोगे अपि सति यस्य गुणादयः अवयवा सन्ति तस्य कस्य च सन्ति ।

१६ - २१ - बहोः एव ।

१७ - २१ - अतः उत्तरम् पठति बहोः नञ्वत् उत्तरपदाद्युदात्तार्थम् ।

१८ - २१ - बहोः नञ्वत् अतिदेशः क्रिअय्ते उत्तरपदाद्युदात्तार्थम् ।

१९ - २१ - उत्तरपदस्य आद्युदात्तत्वम् यथा स्यात् ।

२० - २१ - नञः जरमरमित्रमृताः ।

२१ - २१ - अजरः , अमरः , बहुजरः , बहुमित्रः ।

१ - १० - उपसर्गात् स्वाङ्गम् ध्रुवम् मुखस्य अन्तोदात्तत्वात् ।

२ - १० - मुखस्य अन्तोदात्तत्वात् उपसर्गात् स्वाङ्गम् ध्रुवम् इति एतत् भवति विप्रतिषेधेन ।

३ - १० - मुखान्तोदात्तत्वस्य अवकाशः गौरमुखः , श्लक्ष्णमुखः ।

४ - १० - उपसर्गात् स्वाङ्गम् इति अस्य अवकाशः प्रस्फिक् , प्रोदरः ।

५ - १० - इह उभयम् प्राप्नोति ।

६ - १० - प्रमुखः ।

७ - १० - उपसर्गात् स्वाङ्गम् इति एतत् भवति विप्रतिषेधेन ।

८ - १० - कः पुनः विशेषः तेन वा सति अनेन वा ।

९ - १० - सापवादकः सः विधिः अयम् पुनः निरपवादकः ।

१० - १० - अव्ययात् तस्य प्रतिषेधः अपवादः ।

१ - ६ - किमर्थम् इदम् उच्यते न उपसर्गात् स्वाङ्गम् ध्रुवम् इति एव सिद्धम् ।

२ - ६ - अभेः मुखम् अपात् च अध्रुवार्थम् ।

३ - ६ - अध्रुवार्थः अयम् आरम्भः ।

४ - ६ - अभुव्रीह्यर्थम् वा ।

५ - ६ - अथ वा बहुव्रीहेः इति वर्तते ।

६ - ६ - अभुव्रीह्यर्थः अयम् आरम्भः ।

१ - ४ - स्फिगपूतग्रहणम् किमर्थम् न उपसर्गात् स्वाङ्गम् ध्रुवम् इति एव सिद्धम् ।

२ - ४ - स्फिगपूतग्रहणम् च ।

३ - ४ - किम् ।

४ - ४ - अध्रुवार्थम् अभुव्रीह्यर्थम् एव वा ।

१ - ३ - अतेः धातुलोपे ।

२ - ३ - अतेः धातुलोपे इति वक्तव्यम् ।

३ - ३ - अकृत्पदे इति हि उच्यमाने इह च प्रसज्येत शोभनः गार्ग्यः अतिगार्ग्यः , इह च न स्यात् , अतिकाऋअकः, अतिपदा शक्वरी ।

१ - ३७ - किम् इदम् द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् आहोस्वित् नकारान्तग्रहणम् ।

२ - ३७ - कः च अत्र विशेषः ।

३ - ३७ - द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् चेत् नकारान्तस्य उपसङ्ख्यानम् ।

४ - ३७ - द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् चेत् नकारान्तस्य उपसङ्ख्यानम् कर्तव्यम् ।

५ - ३७ - द्विमूर्धा त्रिमूर्धा ।

६ - ३७ - अस्तु तर्हि नकारान्तग्रहणम् ।

७ - ३७ - नकारान्ते अकारान्तस्य ।

८ - ३७ - नकारान्ते अकारान्तस्य उपसङ्ख्यानम् कर्तव्यम् ।

९ - ३७ - द्विमूर्धः , त्रिमूर्धः ।

१० - ३७ - उदात्तलोपात् सिद्धम् ।

११ - ३७ - अस्तु तर्हि नकारान्तग्रहणम् ।

१२ - ३७ - अन्तोदात्तत्वे कृते लोपः उदात्तनिवृत्तिस्वरेण सिद्धम् ।

१३ - ३७ - इदम् इह सम्प्रधार्यम् ।

१४ - ३७ - अन्तोदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

१५ - ३७ - परत्वात् लोपः ।

१६ - ३७ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

१७ - ३७ - अन्तोदात्तत्वम् क्रियताम् समासान्तः इति किम् अत्र कर्तव्यम् ।

१८ - ३७ - परत्वात् अन्तोदात्तत्वम् ।

१९ - ३७ - नित्यः समासान्तः ।

२० - ३७ - कृते अपि अन्तोदात्तत्वे प्राप्नोति अकृते अपि ।

२१ - ३७ - अन्तोदात्तत्वम् अपि नित्यम् ।

२२ - ३७ - कृते अपि समासान्ते प्राप्नोति अकृते अपि ।

२३ - ३७ - अनित्यम् अन्तोदात्तत्वम् ।

२४ - ३७ - न हि कृते समासान्ते प्राप्नोति ।

२५ - ३७ - परत्वात् लोपेन भवितव्यम् ।

२६ - ३७ - यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।

२७ - ३७ - न च समासान्तः एव अन्तोदात्तत्वस्य निमित्तम् हन्ति ।

२८ - ३७ - अवश्यम् लक्षणान्तरम् लोपः प्रतीक्ष्यः ।

२९ - ३७ - उभयोः नित्ययोः परत्वात् अन्तोदात्तत्वम् ।

३० - ३७ - अन्तोदात्तत्वे कृते समासान्तः , टिलोपः ।

३१ - ३७ - टिलोपे कृते उदात्तनिवृत्तिस्वरेण सिद्धम् ।

३२ - ३७ - युक्तम् पुनः इदम् विचारयितुम् ।

३३ - ३७ - नन् उ अनेन असन्दिग्धेन नकारान्तस्य ग्रहणेन भवितव्यम् यावता मूर्धसु इति उच्यते ।

३४ - ३७ - यदि हि अकारान्तस्य ग्रहणम् स्यात् मूर्धेषु इति ब्रूयात् ।

३५ - ३७ - सा एषा समासान्तार्था विचारणा ।

३६ - ३७ - एवम् तर्हि ज्ञापयति आचार्यः ।

३७ - ३७ - विभाषा समासान्तः भवति इति ।

१ - ५ - अत्यल्पम् इदम् उच्यते ।

२ - ५ - परादिः च परान्तः च पूर्वान्तः च दृश्यते ।पूर्वादयः च विद्यन्ते ।

३ - ५ - व्यतयः बहुलम् स्मृतः ।

४ - ५ - अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि उपसङ्ख्यानम् ।

५ - ५ - अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् त्रिचक्रेण त्रिबन्धुरेण त्रिवृता रथेन ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP