पाद ३ - खण्ड ५६

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १९ - विभक्तित्वे किम् प्रयोजनम् ।

२ - १९ - विभक्तित्वे प्रयोजनम् इत्प्रतिषेधः ।

३ - १९ - इदानीम् ।

४ - १९ - न विभक्तौ तुस्माः इति इत्प्रतिषेधः सिद्धः भवति ।

५ - १९ - यदि एवम् किमः अत् क्व प्रेप्स्यन् दीप्यसे क्व अर्धमासाः ।

६ - १९ - अत्र अपि प्राप्नोति ।

७ - १९ - तौ च उक्तम् ।

८ - १९ - किम् उक्तम् ।

९ - १९ - विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति ।

१० - १९ - इदमः विभक्तिस्वरः च ।

११ - १९ - इदमः विभक्तिस्वरः च प्रयोजनम् ।

१२ - १९ - इतः ।

१३ - १९ - इह ।

१४ - १९ - इदमः तृतीयादिः विभक्तिः उदात्ता भवति इति एषः स्वरः भवति ।

१५ - १९ - त्यदादिविधयः च ।

१६ - १९ - त्यदादिविधयः च प्रयोजनम् ।

१७ - १९ - यतः ।

१८ - १९ - यत्र ।

१९ - १९ - विभक्तौ इति त्यदादिविधयः सिद्धाः भवन्ति ।

१ - ९ - बहुग्रहणे सङ्ख्याग्रहणम् ।

२ - ९ - बहुग्रहणे सङ्ख्याग्रहणम् कर्तव्यम् ।

३ - ९ - इह मा भूत् ।

४ - ९ - बहौ ।

५ - ९ - बहोः इति ।

६ - ९ - अथ किमर्थम् किमः उपसङ्ख्यानम् क्रियते न सर्वनाम्नः इति एव सिद्धम् ।

७ - ९ - द्व्यातिप्रतिषेधात् किमः उपसङ्ख्यानम् ।

८ - ९ - द्व्यातिप्रतिषेधात् किमः उपसङ्ख्यानम् क्रियते ।

९ - ९ - अद्व्यादिभ्यः इति प्रतिषेधे प्राप्ते किमः उपसङ्ख्यानम् क्रियते ।

१ - २८ - क्व अयम् नकारः श्रूयते ।

२ - २८ - न क्व चित् श्रूयते ।

३ - २८ - लोपः अस्य भवति नलोपः प्रातिपदिकान्तस्य इति ।

४ - २८ - यदि न क्व चित् श्रूयते किमर्थम् उच्चार्यते ।

५ - २८ - अनेकाल्शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

६ - २८ - क्रियमाणे अपि नकारे सर्वादेशः न प्राप्नोति ।

७ - २८ - किम् कारणम् ।

८ - २८ - नलोपे कृते एकाल्त्वात् ।

९ - २८ - इदम् इह सम्प्रधार्यम् ।

१० - २८ - नलोपः क्रियताम् सर्वादेशः इति ।

११ - २८ - किम् अत्र कर्तव्यम् ।

१२ - २८ - परत्वात् नलोपः ।

१३ - २८ - असिद्धः नलोपः ।

१४ - २८ - तस्य असिद्धत्वात् सर्वादेशः भवति ।

१५ - २८ - परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते ।

१६ - २८ - एवम् तर्हि आनुपूर्व्या सिद्धम् एतत् ।

१७ - २८ - न अकृते सर्वादेशे प्रातिपदिकसञ्ज्ञा प्राप्नोति न च अकृतायाम् प्रातिपदिकसञ्ज्ञायाम् नलोपः प्राप्नोति ।

१८ - २८ - तत् आनुपूर्व्या सिद्धम् ।

१९ - २८ - न एतत् अस्ति प्रयोजनम् ।

२० - २८ - अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण नकारम् सर्वादेशः भविष्यति ।

२१ - २८ - अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् ।

२२ - २८ - किम् ।

२३ - २८ - ये अन्ये अकारादेशाः प्राप्नुवन्ति तद्बाधनार्थम् ।

२४ - २८ - तत् यथा मः राजि समः क्वौ इति मकारस्य मकारवचनसामर्थ्यात् अनुस्वारादयः न भवन्ति ।

२५ - २८ - तस्मात् नकारः कर्तव्यः ।

२६ - २८ - न कर्तव्यः ।

२७ - २८ - क्रियते न्यासे एव ।प्रश्लिष्टनिर्देशः अयम् अ अ अ इति ।

२८ - २८ - सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

१ - १५ - एतदः इति योगविभागः ।

२ - १५ - एतदः इति योगविभागः कर्तव्यः ।

३ - १५ - एतदः एत इत् इति एतौ आदेशौ भवतः ततः अन् ।

४ - १५ - अन् च भवति एतदः इति ।

५ - १५ - केन विहितेन थकारे एतदः आदेशः उच्यते ।

६ - १५ - एतदः च थमः उपसङ्ख्यानम् ।

७ - १५ - एतदः च थमः उपसङ्ख्यानम् कर्तव्यम् ।

८ - १५ - एतत्प्रकारम् इत्थम् ।

९ - १५ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

१० - १५ - न कर्तव्यम् ।

११ - १५ - एतत् ज्ञापयति भवति अत्र थमुः इति यत् अयम् थकारादौ आदेशम् शास्ति ।

१२ - १५ - कुतः नु खलु एतज्ज्ञापकात् अत्र थमुः भविष्यति ।

१३ - १५ - न पुनः यः एव असौ अविशेषविहितः थकारादिः तस्मिन् आदेशः स्यात् ।

१४ - १५ - इदमा थकारादिम् विशेषयिष्यामः ।

१५ - १५ - इदमः यः थकारादिः इति ।

१ - ५९ - इदम् विचार्यते इमे तसिलादयः विभक्त्यादेशः वा स्युः परे वा इति ।

२ - ५९ - कथम् च आदेशः स्युः कथम् वा परे ।

३ - ५९ - यदि पञ्चम्याः सप्तम्याः इति षष्ठी तदा आदेशाः ।

४ - ५९ - अथ पञ्चमी ततः परे ।

५ - ५९ - कुतः सन्देहः ।

६ - ५९ - समानः निर्देशः ।

७ - ५९ - कः च अत्र विशेषः ।

८ - ५९ - तसिलादयः विभक्त्यादेशाः चेत् सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः ।

९ - ५९ - तसिलादयः विभक्त्यादेशाः चेत् सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः वक्तव्यः ।

१० - ५९ - सुब्लुक् ।

११ - ५९ - ततस्त्यः ।

१२ - ५९ - यतस्त्यः ।

१३ - ५९ - तत्रत्यः ।

१४ - ५९ - यत्रत्यः ।

१५ - ५९ - सुपः धातुप्रातिपदिकयोः इति सुब्लुक् प्राप्नोति ।

१६ - ५९ - सुब्लुक् ।

१७ - ५९ - स्वर ।

१८ - ५९ - यदा ।

१९ - ५९ - तदा ।

२० - ५९ - अनुदात्तौ सुप्पितौ इति एषः स्वरः प्राप्नोति ।

२१ - ५९ - स्वर ।

२२ - ५९ - गुण ।

२३ - ५९ - कस्मात् ।

२४ - ५९ - कुतः ।

२५ - ५९ - घेः ङिति इति गुणः प्राप्नोति ।

२६ - ५९ - गुण ।

२७ - ५९ - दीर्घ ।

२८ - ५९ - तस्मिन् ।

२९ - ५९ - तर्हि ।

३० - ५९ - अतः दीर्घः यञि सुपि च इति दीर्घत्वम् प्राप्नोति ।

३१ - ५९ - दीर्घ ।

३२ - ५९ - एत्त्व. तेषु ।

३३ - ५९ - तत्र ।

३४ - ५९ - बहुवचने झलि एत् इति एत्त्वम् प्राप्नोति ।

३५ - ५९ - एत्त्व ।

३६ - ५९ - औत्त्व ।

३७ - ५९ - कस्मिन् ।

३८ - ५९ - कुत्र ।

३९ - ५९ - इदुद्भ्याम् औत् अत् च घेः इति औत्त्वम् प्राप्नोति ।

४० - ५९ - औत्त्व ।

४१ - ५९ - स्मायादिविधिः ।

४२ - ५९ - तस्मात् ।

४३ - ५९ - ततः ।

४४ - ५९ - तस्मिन् ।

४५ - ५९ - तत्र ।

४६ - ५९ - ङसिङ्योः स्मात्स्मिनौ इत् स्मादयः प्राप्नुवन्ति ।

४७ - ५९ - पञ्चमीनिर्देशात् सिद्धम् ।

४८ - ५९ - सन्तु परे ।

४९ - ५९ - यदि परे समानशब्दानाम् प्रतिषेधः वक्तव्यः ।

५० - ५९ - तस्मात् तस्यति ।

५१ - ५९ - यस्मात् तस्यति ।

५२ - ५९ - पञ्चम्यन्तस्य तसेः तसिल् भवति इति तसिल् प्राप्नोति ।

५३ - ५९ - अनादेशे स्वार्थविज्ञानात् समानशब्दाप्रतिषेधः ।

५४ - ५९ - अनादेशे स्वार्थविज्ञानात् समानशब्दाप्रतिषेधः ।

५५ - ५९ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

५६ - ५९ - तसिल् कस्मात् न भवति ।

५७ - ५९ - स्वार्थविज्ञानात् ।

५८ - ५९ - पञ्चम्यन्तात् परस्य तसेः स्वार्थे वर्तमानस्य तसिला भवितव्यम् ।

५९ - ५९ - न च अत्र पञ्चम्यन्तात् परः तसिः स्वार्थे वर्तते ।

१ - १८ - किमर्थम् तसेः तसिल् उच्यते ।

२ - १८ - तसेः तसिल्वचनम् स्वरार्थम् ।

३ - १८ - तसेः तसिल्वचनम् क्रियते स्वरार्थम् ।

४ - १८ - लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् ।

५ - १८ - ननु च अयम् तसिल् तसिम् बाधिष्यते ।

६ - १८ - न सिध्यति ।

७ - १८ - परत्वात् तसिः प्राप्नोति ।

८ - १८ - तसिलः अवकाशः ।

९ - १८ - ततः हीयते ।

१० - १८ - ततः अवरोहति ।

११ - १८ - तसेः अवकाशः ।

१२ - १८ - ग्रामतः आगच्छति ।

१३ - १८ - नगरतः आगच्छति ।

१४ - १८ - इह उभयम् प्राप्नोति ।

१५ - १८ - ततः आगच्छति ।

१६ - १८ - यतः आगच्छति ।

१७ - १८ - परत्वात् तसिः प्राप्नोति ।

१८ - १८ - तस्मात् सुष्थु उच्यते तसेः तसिल्वचनम् स्वरार्थम् इति ।

१ - ३ - पर्यभिभ्याम् च इति यत् उच्यते तत् सर्वोभयार्थे द्रष्टव्यम् ।

२ - ३ - यावत् सर्वतः तावत् परितः ।

३ - ३ - यावत् उभयतः तावत् अभितः ।

१ - ४५ - इह कस्मात् न भवति ।

२ - ४५ - सः ।

३ - ४५ - तौ ।

४ - ४५ - ते ।

५ - ४५ - भवदादिभिः योगे इति वक्तव्यम् ।

६ - ४५ - के पुनः भवदादयः ।

७ - ४५ - भवान् ।

८ - ४५ - दीर्घायुः ।

९ - ४५ - देवानाम्प्रियः ।

१० - ४५ - आयुष्मान् इति ।

११ - ४५ - सः भवान् ।

१२ - ४५ - तत्र भवान् ।

१३ - ४५ - ततः भवान् ।

१४ - ४५ - तम् भवन्तम् ।

१५ - ४५ - तत्र भवन्तम् ।

१६ - ४५ - ततः भवन्तम् ।

१७ - ४५ - तेन भवता ।

१८ - ४५ - तत्र भवता ततः भवता ।

१९ - ४५ - तस्मै भवते ।

२० - ४५ - तत्र भवते ।

२१ - ४५ - ततः भवते ।

२२ - ४५ - तस्मात् भवतः ।

२३ - ४५ - तत्र भवतः ।

२४ - ४५ - ततः भवतः ।

२५ - ४५ - तस्मिन् भवति ।

२६ - ४५ - तत्र भवति ।

२७ - ४५ - ततः भवति ।

२८ - ४५ - सः दीर्घायुः ।

२९ - ४५ - तत्र दीर्घायुः ।

३० - ४५ - ततः दीर्घायुः ।

३१ - ४५ - तम् दीर्घायुषम् ।

३२ - ४५ - तत्र दीर्घायुषम् ।

३३ - ४५ - ततः दीर्घायुषम् ।

३४ - ४५ - सः देवानाम्प्रियः ।

३५ - ४५ - तत्र देवानाम्प्रियः ।

३६ - ४५ - ततः देवानाम्प्रियः ।

३७ - ४५ - तम् देवानाम्प्रियम् ।

३८ - ४५ - तत्र देवानाम्प्रियम् ।

३९ - ४५ - ततः देवानाम्प्रियम् ।

४० - ४५ - सः आयुष्मान् ।

४१ - ४५ - तत्र आयुष्मान् ।

४२ - ४५ - ततः आयुष्मान् ।

४३ - ४५ - तम् आयुष्मन्तम् ।

४४ - ४५ - तत्र आयुष्मन्तम् ।

४५ - ४५ - ततः आयुष्मन्तम्

१ - ३ - अधुना इति किम् निपात्यते ।

२ - ३ - इदमः अश्भावः धुना च प्रत्ययः इदमः वा लोपः अधुना च प्रत्ययः ।

३ - ३ - अस्मिन् काले अधुन ।

१ - ९ - इदानीम् ।

२ - ९ - इदमः तृतीयादिविभक्तिः उदात्ता भवति इति एषः स्वरः प्राप्नोति ।

३ - ९ - दानीम् इति निपातनात् स्वरसिद्धिः ।

४ - ९ - दानीम् इति निपातनात् स्वरसिद्धिः भविष्यति ।

५ - ९ - आद्युदात्तनिपातनम् करिष्यते ।

६ - ९ - सः निपातनस्वरः विभक्तिस्वरस्य बाधकः भविष्यति ।

७ - ९ - उक्तम् वा ।

८ - ९ - किम् उक्तम् ।

९ - ९ - आदौ सिद्धम् इति ।

१ - ५ - तदः दावचनम् अनर्थकम् विहितत्वात् ।

२ - ५ - तदः दावचनम् अनर्थकम् ।

३ - ५ - किम् कारणम् ।

४ - ५ - विहितत्वात् ।

५ - ५ - विहितः अत्र प्रत्ययः सर्वैकान्यकिंयत्तदः काले दा इति ।

१ - ४ - तयोः इति प्रातिपदिकनिर्देशः ।

२ - ४ - तयोः इति प्रातिपदिकनिर्देशः द्रष्टव्यः ।

३ - ४ - द्वेष्यम् विजानीयात् ॒योगयोः वा प्रत्यययोः वा इति ।

४ - ४ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे तयोः इति प्रातिपदिकनिर्देशः इति ।

१ - ३४ - सद्यः इति किम् निपात्यते ।

२ - ३४ - समानस्य सभावः द्यः च अहनि ।

३ - ३४ - समानस्य सभावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये ।

४ - ३४ - समाने अहनि सद्यः ।

५ - ३४ - परुत् परारि इति किम् निपात्यते ।

६ - ३४ - पूर्वपूर्वतयोः परभावः उदारी च संवत्सरे ।

७ - ३४ - पूर्वपूर्वतयोः परभावः निपात्यते उदारी च प्रत्ययौ संवत्सरे अभिधेये ।

८ - ३४ - पूर्वस्मिन् संवत्सरे परुत् ।

९ - ३४ - पूर्वतरे संवत्सरे परारि ।

१० - ३४ - ऐषमः इति किम् निपात्यते ।

११ - ३४ - इदमः समसण् ।

१२ - ३४ - इदमः समसण् प्रत्ययः निपात्यते संवत्सरे अभिधेये ।

१३ - ३४ - अस्मिन् संवत्सरे ऐषमः ।

१४ - ३४ - परेद्यवि इति किम् निपात्यते ।

१५ - ३४ - परस्मात् एद्यवि अहनि ।

१६ - ३४ - परस्मात् एद्यवि प्रत्ययः निपात्यते अहनि अभिधेये ।

१७ - ३४ - परस्मिन् अहनि परेद्यवि ।

१८ - ३४ - अद्य इति किम् निपात्यते ।

१९ - ३४ - इदमः अश्भावः द्यः च ।

२० - ३४ - इदमः अश्भावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये ।

२१ - ३४ - अस्मिन् अहनि अद्य ।

२२ - ३४ - पूर्वेद्युः अन्येद्युः अन्यतरेद्युः इतरेद्युः अपरेद्युः अधरेद्युः उभयेद्युः उत्तरेद्युः इति किम् निपात्यते ।

२३ - ३४ - पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच् ।

२४ - ३४ - पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच् प्रत्ययः निपात्यते अहनि अभिधेये ।

२५ - ३४ - पूर्वस्मिन् अहनि पूर्वेद्युः ।

२६ - ३४ - अन्यस्मिन् अहनि अन्येद्युः ।

२७ - ३४ - अन्यतरस्मिन् अहनि अन्यतरेद्युः ।

२८ - ३४ - इतरस्मिन् अहनि इतरेद्युः ।

२९ - ३४ - अपरस्मिन् अहनि अपरेद्युः ।

३० - ३४ - अधरस्मिन् अहनि अधरेद्युः ।

३१ - ३४ - उभयोः अह्नोः उभयेद्युः ।

३२ - ३४ - उत्तरस्मिन् अहनि उत्तरेद्युः ।

३३ - ३४ - द्युः च उभयात् । उभयशब्दात् द्युः च वक्तव्यः ।

३४ - ३४ - तस्मात् मनुष्येभ्यः उभयद्युः ।

१ - ४ - इह कस्मात् न भवति ।

२ - ४ - पूर्वस्मिन् देशे वसति इति ।

३ - ४ - न एषः देशः ।

४ - ४ - देशविशेषणम् एतत् ।

१ - ३५ - किमर्थम् अतसुच् क्रियते न तसुच् एव क्रियते ।

२ - ३५ - तत्र अयम् अपि अर्थः ।

३ - ३५ - स्वरार्थः चकारः न कर्तव्यः भवति ।

४ - ३५ - प्रत्ययस्वरेण एव सिद्धम् ।

५ - ३५ - का रूपसिद्धिः दक्षिणतः ग्रामस्य ।

६ - ३५ - उत्तरतः ग्रामस्य ।

७ - ३५ - दक्षिणोत्तरशब्दौ अकारान्तौ ।

८ - ३५ - तसुशब्दः प्रत्ययः ।

९ - ३५ - भवेत् सिद्धम् यदा अकारान्तौ ।

१० - ३५ - यतु तु खलु आकारान्तौ तदा न सिध्यति ।

११ - ३५ - तदा अपि सिद्धम् ।

१२ - ३५ - कथम् ।

१३ - ३५ - पुंवद्भावेन ।

१४ - ३५ - कथम् पुंवद्भावः ।

१५ - ३५ - तसिलादिषु आ कृत्वसुचः इति ।

१६ - ३५ - न सिध्यति ।

१७ - ३५ - भाषितपुंस्कस्य पुंवद्भावः न च एतौ भाषितपुंस्कौ ।

१८ - ३५ - ननु च भो दक्षिणशब्दः उत्तरशब्दः च पुंसि भाष्येते ।

१९ - ३५ - समानायाम् आकृतौ यत् भाषितपुंस्कम् इति उच्यते आकृत्यन्तरे च एतौ भाषितपुंस्कौ ।

२० - ३५ - दक्षिणा उत्तरा इति दिक्शब्दौ ।

२१ - ३५ - दक्षिणः उत्तरः इति व्यवस्थाशब्दौ ।

२२ - ३५ - यदि पुनः दिक्शब्दाः अपि व्यवस्थाशब्दाः स्युः ।

२३ - ३५ - कथम् यानि दिगपदिष्टानि कार्याणि ।

२४ - ३५ - दिशः यदा व्यवस्थाम् वक्ष्यन्ति ।

२५ - ३५ - यदि तरि यः यः दिशि वर्तते सः सः दिक्शब्दः रमणीयादिषु अतिप्रसङ्गः भवति ।

२६ - ३५ - रमणीया दिक् शोभना दिक् इति ।

२७ - ३५ - अथ मतम् एतत् दिशि दृष्टः दिग्दृष्टः दिग्दृष्टः शब्दः दिक्शब्दः दिशम् यः न व्यभिचरति इति रमणीयादिषु अतिप्रसङ्गः न भवति ।

२८ - ३५ - पुंवद्भावः तु प्राप्नोति ।

२९ - ३५ - एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् ।

३० - ३५ - विशेषणार्थम् तर्हि ।

३१ - ३५ - क्व विशेषणार्थेन अर्थः ।

३२ - ३५ - षष्ठी अतसर्थप्रत्ययेन इति ।

३३ - ३५ - षष्ठी तसर्थप्रत्ययेने इति उच्यमाने इह अपि स्यात् ।

३४ - ३५ - ततः ग्रामात् ।

३५ - ३५ - यतः ग्रामात् इति ।

१ - ४ - उपरि उपरिष्टात् इति किम् निपात्यते ।

२ - ४ - ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च ।

३ - ४ - ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च प्रत्ययौ निपात्येते ।

४ - ४ - उपरि उपरिष्तात् ।

१ - १५ - पश्चात् इति किम् निपात्यते ।

२ - १५ - अपरस्य पश्चभावः आतिः च प्रतययः ।

३ - १५ - अपरस्य पश्चभावः निपात्यते आतिः च प्रतययः ।

४ - १५ - पश्चात् ।

५ - १५ - दिक्पूर्वपदस्य च ।

६ - १५ - दिक्पूर्वपदस्य च अपरस्य पश्चभावः वक्तव्यः आतिः च प्रतययः ।

७ - १५ - दक्षिणपश्चात् ।

८ - १५ - उत्तरपश्चात् ।

९ - १५ - अर्धोत्तरपदस्य च समासे ।

१० - १५ - अर्धोत्तरपदस्य च समासे अपरस्य पश्चभावः वक्तव्यः ।

११ - १५ - दक्षिणपश्चार्धः ।

१२ - १५ - उत्तरपश्चार्धः ।

१३ - १५ - अर्धे च ।

१४ - १५ - अर्धे च परतः अपरस्य पश्चभावः वक्तव्यः ।

१५ - १५ - पश्चार्धः ।

१ - ४ - अपञ्चम्याः इति प्राक् असः ।

२ - ४ - अपञ्चम्याः इति यत् उच्यते प्राक् असः तत् द्रष्टव्यम् ।

३ - ४ - द्वेष्यम् विजानीयात् अविशेषेण उत्तरम् अपञ्चम्याः इति ।

४ - ४ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे अपञ्चम्याः इति प्राक् असः इति ।

१ - १० - किमर्थः चकारः ।

२ - १० - स्वरार्थः ।

३ - १० - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

४ - १० - न एतत् अस्ति प्रयोजनम् ।

५ - १० - एकाच् अयम् ।

६ - १० - तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।

७ - १० - प्रत्ययस्वरेण एव सिद्धम् ।

८ - १० - विशेषणार्थः तर्हि ।

९ - १० - क्व विशेषणार्थेन अर्थः ।

१० - १० - अन्यारादितरर्तेदिक्शब्दाञ्चूऊत्तरपदाजाहियुक्ते ।

१ - २६ - विधार्थे इति उच्यते ।

२ - २६ - कः विधार्थः नाम ।

३ - २६ - विधायाः अर्थः विधार्थः ।

४ - २६ - यदि एवम् एका गोविधा ।

५ - २६ - एका हस्तिविधा ।

६ - २६ - अत्र अपि प्राप्नोति ।

७ - २६ - एवम् तर्हि धाविधानम् धात्वर्थपृथग्भावे ।

८ - २६ - धाविधानम् धात्वर्थपृथग्भावे इति वक्तव्यम् ।

९ - २६ - कः पुनः धात्वर्थपृथग्भावः ।

१० - २६ - किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति ।

११ - २६ - न इति आह ।

१२ - २६ - कारकपृथक्त्वम् एतत् ।

१३ - २६ - यत् तर्हि तत् काल्ये भुङ्के सायम् भुङ्क्ते इति ।

१४ - २६ - न इति आह ।

१५ - २६ - कालपृथक्त्वम् एतत् ।

१६ - २६ - यत् तर्हि शीतम् भुङ्क्ते उष्णम् भुङ्क्ते इति ।

१७ - २६ - न इति आह ।

१८ - २६ - गुणपृथक्त्वम् एतत् ।

१९ - २६ - कः तर्हि धात्वर्थपृथग्भावः ।

२० - २६ - कारकाणाम् प्रवृत्तिविशेषः क्रिया ।

२१ - २६ - यदि एवम् क्रियाप्रकारे अयम् भवति ।

२२ - २६ - विधयुक्तगताः च प्रकारे भवन्ति ।

२३ - २६ - एवंविधम् ।

२४ - २६ - एवंयुक्तम् ।

२५ - २६ - एवङ्गतम् ।

२६ - २६ - एवम्प्रकारम् इति ।

१ - ७ - सहभावे ध्यमुञ् ।

२ - ७ - सहभावे ध्यमुञ् वक्तव्यः ।

३ - ७ - एइकध्यम् राशिम् कुरु ।

४ - ७ - सः तर्हि वक्तव्यः ।

५ - ७ - न वक्तव्यः ।

६ - ७ - अधिकरणविचाले इति उच्यते न च सः एव अधिकरणविचालः यत् एकम् अनेकम् क्रियते ।

७ - ७ - यत् अपि अनेकम् एकम् क्रियते सः अपि अधिकरणविचालः ।

१ - ४ - धमुञन्तात् स्वार्थे डदर्शनम् ।

२ - ४ - धमुञन्तात् स्वार्थे डः दृश्यते सः च विधेयः ।

३ - ४ - पथि द्वैधानि ।

४ - ४ - संशये द्वैधानि ।

१ - १० - पाशपि कुत्सितग्रहणम् ।

२ - १० - पाशपि कुत्सितग्रहणम् कर्तव्यम् ।

३ - १० - वैयाकरणपाशः ।

४ - १० - याज्ञिकपाशः ।

५ - १० - यः हि यापयितव्यः याप्यः तत्र मा भूत् इति ।

६ - १० - अथ वैयाकरणः शरीरेण कृशः व्याकरणेन च शोभनः कर्तव्यः वैयाकरणपाशः इति ।

७ - १० - न कर्तव्यः ।

८ - १० - कथम् ।

९ - १० - यस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तद्गुणे वक्तव्ये प्रत्ययेन भवितव्यम् ।

१० - १० - न च कार्श्यस्य भावात् द्रव्ये वैयाकरणशब्दः ।

१ - ६ - पूरणग्रहणम् शक्यम् अकर्तुम् ।

२ - ६ - न हि अपूरणः तीयशब्दः अस्ति यत्र दोषः स्यात् ।

३ - ६ - ननु च अयम् अस्ति मुखतीयः पार्श्वतीयः इति ।

४ - ६ - अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् अस्य न भविष्यति ।

५ - ६ - उत्तरार्थम् तर्हि पूरणग्रहणम् कर्तव्यम् ।

६ - ६ - प्राक् एकादशभ्यः अच्छन्दसि इति पूरणात् यथा स्यात् ।

१ - ३१ - एकात् आकिनिचि द्विबह्वर्थे प्रत्ययविधानम् ।

२ - ३१ - एकात् आकिनिचि द्विबह्वर्थे प्रत्ययः विधेयः ।

३ - ३१ - एकाकिनौ ।

४ - ३१ - एकाकिनः इति ।

५ - ३१ - किम् पुनः कारणम् न सिध्यति ।

६ - ३१ - एकशब्दः अयम् सङ्ख्यापदम् सङ्ख्यायाः च सङ्ख्येयम् अर्थः ।

७ - ३१ - सिद्धम् तु सङ्ख्यादेशवचनात् ।

८ - ३१ - सिद्धम् एतत् ।

९ - ३१ - कथम् ।

१० - ३१ - द्विबह्वर्थायाः सङ्ख्यायाः एकशब्दः आदेशः वक्तव्यः ।

११ - ३१ - असहायस्य वा ।

१२ - ३१ - असहायस्य वा एकशब्दः आदेशः वक्तव्यः ।

१३ - ३१ - असहायः एकाकी ।

१४ - ३१ - असहायौ एकाकिनौ ।

१५ - ३१ - असहायाः एकाकिनः ।

१६ - ३१ - सिध्यति ।

१७ - ३१ - सूत्रम् तर्हि भिद्यते ।

१८ - ३१ - यथान्यासम् एव अस्तु ।

१९ - ३१ - ननु च उक्तम् एकात् आकिनिचि द्विबह्वर्थे प्रत्ययविधानम् इति ।

२० - ३१ - न एषः दोषः ।

२१ - ३१ - अयम् एकशब्दः अस्ति एव सङ्ख्यापदम् ।

२२ - ३१ - तत् यथा एकः द्वौ बहवः इति ।

२३ - ३१ - अस्ति अन्यार्थे वर्तते ।

२४ - ३१ - तत् यथा सधमादः द्युम्नः एकाः ताः ।

२५ - ३१ - अन्याः इति अर्थः ।

२६ - ३१ - अस्ति असहायवाची ।

२७ - ३१ - तत् यथा ।

२८ - ३१ - एकाग्नयः ।

२९ - ३१ - एकहलानि ।

३० - ३१ - एकाकिभिः क्षुद्रकैः जितम् इति ।

३१ - ३१ - तत् यः असहायवाची तस्य एषः प्रयोगः ।

१ - ८८ - अतिशायने इति उच्यते ।

२ - ८८ - किम् इदम् अतिशायने इति ।

३ - ८८ - देश्याः सूत्रनिबन्धाः क्रियन्ते ।

४ - ८८ - यावत् ब्रूयात् प्रकर्षे अतिशये इति तावत् अतिशायने इति ।

५ - ८८ - कस्य पुनः प्रकर्षे प्रत्ययः उत्पद्यते ।

६ - ८८ - ङ्याप्प्रातिपदिकात् इति वर्तते ।

७ - ८८ - ङ्याप्प्रातिपदिकस्य प्रकर्षे ।

८ - ८८ - ङ्याप्प्रातिपदिकम् वै शब्दः न च शब्दस्य प्रकर्षापकर्षौ स्तः ।

९ - ८८ - शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

१० - ८८ - कः पुनः ङ्याप्प्रातिपदिकार्थः ।

११ - ८८ - द्रव्यम् ।

१२ - ८८ - न वै द्रव्यसय प्रकर्षे इष्यते ।

१३ - ८८ - एवम् तर्हि गुणः ।

१४ - ८८ - एवम् अपि गुणग्रहणम् कर्तव्यम् ।

१५ - ८८ - द्रव्यम् अपि ङ्याप्प्रातिपदिकार्थः गुणः अपि ।

१६ - ८८ - तत्र कुतः एतत् गुणस्य प्रकर्षे भविष्यति न पुनः द्रव्यस्य प्रकर्षे इति ।

१७ - ८८ - क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति ।

१८ - ८८ - न तर्हि इदानीम् इदम् भवति अध्वर्युः वै श्रेयान् ।

१९ - ८८ - पापीयान् प्रतिप्रस्थाता ।

२० - ८८ - अन्धानाम् काणतमः इति ।

२१ - ८८ - समानगुणे एषा स्पर्धा भवति ।

२२ - ८८ - अध्वर्युः वै श्रेयान् अन्येभ्यः प्रशस्येभ्यः ।

२३ - ८८ - पापीयान् प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः ।

२४ - ८८ - अन्धानाम् काणतमः इति कणिः अयम् सौक्ष्म्ये वर्तते ।

२५ - ८८ - सर्वे इमे किम् चित् पश्यन्ति ।

२६ - ८८ - अयम् एषाम् काणतमः इति ।

२७ - ८८ - अदूरविप्रकर्षे इति वक्तव्यम् ।

२८ - ८८ - इह मा भूत् ।

२९ - ८८ - महान् सर्षपः ।

३० - ८८ - महान् हिमवान् इति ।

३१ - ८८ - जातेः न इति वक्तव्यम् ।

३२ - ८८ - इह मा भूत् वृक्षः अयम् प्लक्षः अयम् इति ।

३३ - ८८ - न तर्हि इदानीम् इदम् भवति गोतरः ।

३४ - ८८ - गोतरा ।

३५ - ८८ - अश्वतरः इति ।

३६ - ८८ - न एषः जातेः प्रकर्षः ।

३७ - ८८ - कस्य तर्हि ।

३८ - ८८ - गुणस्य ।

३९ - ८८ - गौः अयम् शकटम् वहति ।

४० - ८८ - गोतरर्ः अयम् यः शकटम् वहति सीरम् च ।

४१ - ८८ - गौः इयम् या समाम् समाम् विजायते ।

४२ - ८८ - गोतरा इयम् या समाम् समाम् विजायते स्त्रीवत्सा च ।

४३ - ८८ - अश्वः अयम् यः चत्वारि योजनानि गच्छति ।

४४ - ८८ - अश्वतरः अयम् यः अष्टौ योजनानि गच्छति ।

४५ - ८८ - तथा तिङः च इति अत्र क्रियाग्रहणम् कर्तव्यम् साधनप्रकर्षे मा भूत् ।

४६ - ८८ - न एषः दोषः ।

४७ - ८८ - यत् तावत् उच्यते गुणग्रहणम् कर्तव्यम् इति ।

४८ - ८८ - न कर्तव्यम् ।

४९ - ८८ - यस्य प्रकर्षः अस्ति तस्य प्रकर्षे भविष्यति ।

५० - ८८ - गुणस्य च एव प्रकर्षः न द्रव्यस्य ।

५१ - ८८ - कथम् ज्ञायते ।

५२ - ८८ - एवम् हि दृश्यते लोके ।

५३ - ८८ - इह समाने आयामे विस्तारे पटस्य अन्यः अर्घः भवति काशिकस्य अन्यः माथुरस्य ।

५४ - ८८ - गुणान्तरम् खलु अपि शिल्पिनः उत्पादयमानाः द्रव्यान्तरेण प्रक्षालयन्ति ।

५५ - ८८ - अन्येन शुद्धम् धौतकम् कुर्वन्ति अन्येन शैफालिकम् अन्येन माध्यमिकम् ।

५६ - ८८ - यत् अपि उच्यते क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति ।

५७ - ८८ - न कर्तव्यम् ।

५८ - ८८ - समानगुणे एव स्पर्धा भवति ।

५९ - ८८ - नहि आढ्याभिरूपौ स्पर्धेते ।

६० - ८८ - वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लात् कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात् ।

६१ - ८८ - यत् अपि उच्यते अदूरविप्रकर्षे इति वक्तव्यम् इति ।

६२ - ८८ - न वक्तव्यम् ।

६३ - ८८ - अदूरविप्रकर्षे एव स्पर्धा भवति ।

६४ - ८८ - न हि निष्कधनः शतनिष्कधनेन स्पर्धते ।

६५ - ८८ - यत् अपि उच्यते जातेः न इति वक्तव्यम् इति ।

६६ - ८८ - न वक्तव्यम् ।

६७ - ८८ - जननेन या प्राप्यते सा जातिः न च एतस्य अर्थस्य प्रकर्षापकर्षौ स्तः ।

६८ - ८८ - यत् अपि उच्यते तिङः च इति अत्र क्रियाग्रहणम् कर्तव्यम् साधनप्रकर्षे मा भूत् इति ।

६९ - ८८ - न कर्तव्यम् ।

७० - ८८ - साधनम् वै द्रव्यम् न च द्रव्यस्य प्रकर्षापकर्षौ स्तः ।

७१ - ८८ - किम् पुनः एकम् शौक्ल्यम् आहोस्वित् नाना ।

७२ - ८८ - किम् च अतः ।

७३ - ८८ - यदि एकम् प्रकर्षः न उपपद्यते ।

७४ - ८८ - न हि तेन एव तस्य प्रकर्षः भवति ।

७५ - ८८ - अथ नाना समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति ।

७६ - ८८ - अस्ति एकम् शौक्ल्यम् तत् तु विशेषवत् ।

७७ - ८८ - किङ्कृतः विशेषः ।

७८ - ८८ - अल्पत्वमहत्त्वकृतः ।

७९ - ८८ - अथ वा पुनः अस्तु एकम् निर्विशेषम् च ।

८० - ८८ - ननु च उक्तम् प्रकर्षः न उपपद्यते ।

८१ - ८८ - न हि तेन एव तस्य प्रकर्षः भवति इति ।

८२ - ८८ - गुणान्तरेण प्रच्छादात् प्रकर्षः भविष्यति ।

८३ - ८८ - अथ वा पुनः अस्तु नाना ।

८४ - ८८ - ननु च उक्तम् समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति ।

८५ - ८८ - न कर्तव्यम् ।

८६ - ८८ - समानगुणे एव स्पर्धा भवति ।

८७ - ८८ - नहि आढ्याभिरूपौ स्पर्धेते ।

८८ - ८८ - वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लात् कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात् ।

१ - ५६ - किमन्तात् पुनः उत्पत्त्या भवितव्यम् ।

२ - ५६ - द्वितीयान्तात् अतिशय्यमानात् ।

३ - ५६ - शुक्लम् अतिशेते शुक्लतरः ।

४ - ५६ - कृष्णम् अतिशेते कृष्णतरः ।

५ - ५६ - यदि द्वितीयान्तात् अतिशय्यमानात् कालः अतिशेते कालीम् कालितरः इति प्राप्नोति कालतरः इति च इष्यते ।

६ - ५६ - तथा काली अतिशेते कालम् कालतरः इति प्राप्नोति कालितरा इति च इष्यते ।

७ - ५६ - तथा गार्ग्यः अतिशेते गर्गान् गर्गतरः इति प्राप्नोति गार्ग्यतरः इति च इष्यते ।

८ - ५६ - तथा गर्गाः अतिशेरते गार्ग्यम् गार्ग्यतराः इति प्राप्नोति गर्गतराः इति च इष्यते ।

९ - ५६ - एवम् तर्हि प्रथमान्तात् स्वार्थिकः भविष्यति ।

१० - ५६ - कालः अतिशेते कालतरः ।

११ - ५६ - काली अतिशेते कालितरा ।

१२ - ५६ - गार्ग्यः अतिशेते गार्ग्यतरः ।

१३ - ५६ - गर्गाः अतिशेरते गर्गतराः ।

१४ - ५६ - यदि प्रथमान्तात् स्वार्थिकः कुमारितरा किशोरितरा अव्यतिरिक्तम् वयः इति कृत्वा वयसि प्रथमे इति ङीप् प्राप्नोति ।

१५ - ५६ - तरपा उक्तत्वात् स्त्रीप्रत्ययः न भविष्यति ।

१६ - ५६ - टाप् अपि तर्हि न प्राप्नोति ।

१७ - ५६ - उक्ते अपि हि भवन्ति एते टाबादयः ।

१८ - ५६ - उक्तम् एतत् स्वार्थिकाः टाबादयः इति ।

१९ - ५६ - ङीप् अपि तर्हि प्राप्नोति ।

२० - ५६ - एवम् तर्हि गुणः अभिधीयते ।

२१ - ५६ - एवम् अपि लिङ्गवचनानि न सिध्यन्ति ।

२२ - ५६ - शुक्लतरम् ।

२३ - ५६ - शुक्लतरा ।

२४ - ५६ - शुक्लतरः ।

२५ - ५६ - शुक्लतरौ ।

२६ - ५६ - शुक्लतराः इति ।

२७ - ५६ - आश्रयतः लिङ्गवचनानि भविष्यन्ति ।

२८ - ५६ - गुणवचनानाम् हि शब्दानाम् आश्रयत लिङ्गवचनानि भवन्ति ।

२९ - ५६ - शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

३० - ५६ - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गु अस्य अपि भविष्यति ।

३१ - ५६ - अथ वा क्रिया अभिधीयते ।

३२ - ५६ - एवम् अपि लिङ्गवचनानि न सिध्यन्ति ।

३३ - ५६ - आश्रयतः लिङ्गवचनानि भविष्यन्ति ।

३४ - ५६ - एवम् अपि द्विवचनम् प्राप्नोति ।

३५ - ५६ - यः च अतिशेते यः च अतिशय्यते उभौ तौ तस्य आश्रयौ भवतः ।

३६ - ५६ - न एषः दोषः ।

३७ - ५६ - कथम् ।

३८ - ५६ - शेतिः अकर्मकः ।

३९ - ५६ - अकर्मकाः अपि धातवः सोपसर्गाः सकर्मकाः भवन्ति ।

४० - ५६ - कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणम् वा भवन्ति कर्तृस्थभावकः च शेतिः ।

४१ - ५६ - अथ यदि एव द्वितीयान्तात् उत्पत्तिः प्रथमान्तात् वा स्वार्थिकः अथ अपि गुणः अभिधीयते अथ अपि क्रिया किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।

४२ - ५६ - गतम् इति आह ।

४३ - ५६ - कथम् ।

४४ - ५६ - यदा तावत् द्वितीयान्तात् उत्पत्तिः प्रथमान्तात् वा स्वार्थिकः तदा कृत्यल्युटः बहुलम् इति एवम् अत्र ल्युट् भविष्यति ।

४५ - ५६ - यदा गुणः अभिधीयते तदा न्यायसिद्धम् एव ।

४६ - ५६ - यदा लपि क्रिया तदा अपि न्यायसिद्धम् एव ।

४७ - ५६ - अथ वा अतिशाययति इति अतिशायनम् ।

४८ - ५६ - कः प्रयोज्यार्थः ।

४९ - ५६ - गुणाः गुणिनम् प्रयोजयन्ति गुणी वा गुणान् प्रयोजयति ।

५० - ५६ - कः पुनः इह शेत्यर्थः ।

५१ - ५६ - इह यः यत्र भवति शेते असौ तत्र ।

५२ - ५६ - गुणाः च गुणिनि शेरते ।

५३ - ५६ - शेत्यर्थः कारितार्थः वा निर्देशः अयम् समीक्षितः ।

५४ - ५६ - शेत्यर्थे न अस्ति वक्तव्यम् ।

५५ - ५६ - कारितार्थे ब्रवीमि ते ।

५६ - ५६ - गुणी वा गुणसंयोगात् गुणः वा गुणिना यदि अभिव्यज्येत संयोगात् कारितार्थः भविष्यति ।

१ - ३३ - इह अस्य अपि सूक्ष्माणि वस्त्राणि अस्य अपि सूक्ष्माणि वस्त्राणि इति परत्वात् आतिशायिकः प्राप्नोति ।

२ - ३३ - अतिशायने बहुव्रीहौ उक्तम् ।

३ - ३३ - किम् उक्तम् ।

४ - ३३ - पूर्व्पदातिशये आतिशायिकात् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः ।

५ - ३३ - उत्तरपदातिशये आतिशायिकः बहुव्रीहेः बह्वाढ्यतराद्यर्थः इति ।

६ - ३३ - इह त्रीणि शुक्लानि वस्त्राणि प्रकर्षापकर्षयुक्तानि ।

७ - ३३ - तत्र पूर्वम् अपेक्ष्य उत्तरे द्वे तरबन्ते ।

८ - ३३ - तत्र द्वयोः तरबन्तयोः एकस्मात् प्रकर्षयुक्तात् शुक्लतरशब्दात् उत्पत्तिः प्राप्नोति शुक्लशब्दात् एव च इष्यते ।

९ - ३३ - शुक्लतरस्य शुक्लभावात् प्रकृतेः प्रत्ययविज्ञानम् ।

१० - ३३ - शुक्लतरशब्दे शुक्लशब्दः अस्ति ।

११ - ३३ - तस्मात् उत्पत्तिः भविष्यति ।

१२ - ३३ - न एतत् विवदामहे शुक्लतरशब्दे शुक्लशब्दः अस्ति न अस्ति इति ।

१३ - ३३ - किम् तर्हि ।

१४ - ३३ - शुक्लतरशब्दः अपि अस्ति ।

१५ - ३३ - ततः उत्पत्तिः प्राप्नोति ।

१६ - ३३ - तदन्तात् च स्वार्थे छन्दसि दर्शनम् श्रेष्ठमाय इति ।

१७ - ३३ - तदन्तात् आतिशायिकान्तात् च स्वार्थे छन्दसि आतिशायिकः दृश्यते ।

१८ - ३३ - देवो वः सवित प्रर्पयतु श्रेष्ठमाय कर्मणे ।

१९ - ३३ - एवम् तर्हि मध्यमात् शुक्लशब्दात् पूर्वपरापेक्षात् उत्पत्तिः वक्तव्या ।

२० - ३३ - मध्यमः च शुक्लशब्दः पूर्वम् अपेक्ष्य प्रकृष्टः परम् अपेक्ष्य न्यूनः न च न्यूनः प्रवर्तते ।

२१ - ३३ - अथ वा उत्पद्यताम् ।

२२ - ३३ - लुक् भविष्यति ।

२३ - ३३ - वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लतरशब्दात् उत्पद्यमानः वाचकः स्यात् ।

२४ - ३३ - न खलु अपि बहूनाम् प्रकर्षे तरपा भवितव्यम् ।

२५ - ३३ - केन तर्हि ।

२६ - ३३ - तमपा ।

२७ - ३३ - पूर्वेण स्पर्धमानः अयम् लभते सितः ।

२८ - ३३ - परस्मिन् न्यूनताम् एति न च न्यूनः प्रवर्तते ।

२९ - ३३ - अपेक्ष्य मध्यमः पूर्वम् आधिक्यम् लभते सितः ।

३० - ३३ - परस्मिन् न्यूनताम् एति यथा अमात्यः स्थिते नृपे ।

३१ - ३३ - अस्तु वा अपि तरः तस्मात् ।

३२ - ३३ - न अपशब्दः भविष्यति ।

३३ - ३३ - वाचकः चेत् प्रयोक्तव्यः वाचकः चेत् प्रयुज्यताम् ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP