पाद ३ - खण्ड ५०

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १८ - प्रत्यक्षकारिग्रहणम् ।

२ - १८ - प्रत्यक्षकारिग्रहणम् कर्तव्यम् अन्तेवास्यन्तेवासिभ्यः मा भूत् इति ।

३ - १८ - तत् तर्हि वक्तव्यम् ।

४ - १८ - न वक्तव्यम् ।

५ - १८ - कलापिखाडायग्रहणम् ज्ञापकम् वैशम्पायनान्तेवासिषु प्रत्यक्षकारिग्रहणस्य ।

६ - १८ - यत् अयम् कलापिखाडायग्रहणम् करोति तत् ज्ञापयति आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति ।

७ - १८ - कथम् कृत्वा ज्ञापकम् ।

८ - १८ - वैशम्पायनान्तेवासी कठः कठान्तेवासी खाडायनः ।

९ - १८ - वैशम्पायनान्तेवासी कलापी ।

१० - १८ - यदि च अन्तेवास्यन्तेवासिभ्यः अपि स्यात् कलापिखाडायग्रहणम् अनर्थकम् स्यात् ।

११ - १८ - पश्यति तु आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति ।

१२ - १८ - ततः कलापिखाडायग्रहणम् करोति ।

१३ - १८ - छन्दोग्रहणम् च इतरथा हि अतिप्रसङ्गः ।

१४ - १८ - छन्दोग्रहणम् च कर्तव्यम् ।

१५ - १८ - इतरथा हि अतिप्रसङ्गः ।

१६ - १८ - इतरथा हि अतिप्रसङ्गः स्यात् ।

१७ - १८ - इह अपि प्रसज्येत ।

१८ - १८ - तित्तिरिणा प्रोक्ताः श्लोकाः इति ।

१ - ७ - पुराणप्रोक्तेषु ब्राह्मणकल्पेषु याज्ञवल्क्यादिभ्यः प्रतिषेधः तुल्यकालत्वात् ।

२ - ७ - पुराणप्रोक्तेषु ब्राह्मणकल्पेषु इति अत्र याज्ञवल्क्यादिभ्यः प्रतिषेधः वक्तव्यः ।

३ - ७ - याज्ञवल्कानि ब्राह्मणानि ।

४ - ७ - सौलभानि इति ।

५ - ७ - किम् कारणम् ।

६ - ७ - तुल्यकालत्वात् ।

७ - ७ - एतानि अपि तुल्यकालानि इति ।

१ - १८ - कृते ग्रन्थे मक्षिकादिभ्यः अण् ।

२ - १८ - कृते ग्रन्थे इति अत्र मक्षिकादिभ्यः अण् वक्तव्यः ।

३ - १८ - मक्षिकाभिः कृतम् माक्षिकम् ।

४ - १८ - तद्विशेषेभ्यः च ।

५ - १८ - तद्विशेषेभ्यः च अण् वक्तव्यः ।

६ - १८ - सरघाभिः कृतम् सारघम् ।

७ - १८ - गार्मुतम् पौत्तिकम् ।

८ - १८ - सः तर्हि वक्तव्यः ।

९ - १८ - न वक्तव्यः ।

१० - १८ - योगविभागात् सिद्धम् ।

११ - १८ - योगविभागः करिष्यते ।

१२ - १८ - कृते ग्रन्थे ।

१३ - १८ - ततः सञ्ज्ञायाम् ।

१४ - १८ - सञ्ज्ञायाम् च तेन कृते इति एतस्मिन् अर्थे यथाविहितम् प्रत्ययः भवति ।

१५ - १८ - सरघाभिः कृतम् सारघम् ।

१६ - १८ - गार्मुतम् पौत्तिकम् ।

१७ - १८ - ततः कुलालादिभ्यः वुञ् ।

१८ - १८ - सञ्ज्ञायाम् इति एव ।

१ - ६४ - तस्य इदम् इति असन्निहिते अप्राप्तिः इदमः प्रत्यक्षवाचित्वात् ।

२ - ६४ - तस्य इदम् इति असन्निहिते अप्राप्तिः ।

३ - ६४ - किम् कारणम् ।

४ - ६४ - इदमः प्रत्यक्षवाचित्वात् ।

५ - ६४ - इदम् इति एतत् प्रत्यक्षे वर्तते ।

६ - ६४ - तेन इह एव स्यात् ।

७ - ६४ - तस्य इदम् इति ।

८ - ६४ - तस्य अदः इति तस्य तत् इति न स्यात् ।

९ - ६४ - सिद्धम् तु यद्योगा षष्ठी तत्र ।

१० - ६४ - सिद्धम् एतत् ।

११ - ६४ - कथम् ।

१२ - ६४ - यद्योगा षष्ठी प्रवर्तते तत्र इति वक्तव्यम् ।

१३ - ६४ - अनन्तरादिषु च प्रतिषेधः ।

१४ - ६४ - अनन्तरादिषु च प्रतिषेधः वक्तव्यः ।

१५ - ६४ - तस्य अनन्तरः तस्य समीपः इति ।

१६ - ६४ - किम् यद्योगा षष्ठी प्रवर्तते इति अतः अनन्तरादिषु प्रतिषेधः वक्तव्यः ।

१७ - ६४ - न इति आह ।

१८ - ६४ - सर्वथ अनन्तरादिषु प्रतिषेधः वक्तव्यः ।

१९ - ६४ - सिद्धम् तु परिगणनात् ।

२० - ६४ - सिद्धम् एतत् ।

२१ - ६४ - कथम् ।

२२ - ६४ - परिगणनम् कर्तव्यम् ।

२३ - ६४ - स्वे ग्रामजनपद्मनुष्येभ्यः ।

२४ - ६४ - स्वे ग्रामजनपद्मनुष्येभ्यः इति वक्तव्यम् ।

२५ - ६४ - स्रौघ्नः माथुरः ग्राम ।

२६ - ६४ - जनपद आङ्गकः वाङ्गकः जनपद ।

२७ - ६४ - मनुष्य दैवदत्तः याज्ञदत्तः ।

२८ - ६४ - पत्त्रात् वाह्ये ।

२९ - ६४ - पत्त्रात् वाह्ये इति वक्तव्यम् ।

३० - ६४ - आश्वम् आउष्ट्रम् गार्दभम् ।

३१ - ६४ - रथात् रथाङ्गे ।

३२ - ६४ - रथात् रथाङ्गे इति वक्तव्यम् ।

३३ - ६४ - आश्वरथम् औष्ट्ररथम् गार्दभरथम् ।

३४ - ६४ - वहेः तुः अण् इट् च ।

३५ - ६४ - वहेः त्रन्तात् अण् वल्तव्यः इट् च वक्तव्यः ।

३६ - ६४ - संवोढुः स्वम् सांवहित्रम् ।

३७ - ६४ - अग्नीधः शरणे रञ् भ च ।

३८ - ६४ - अग्नीधः शरणे रञ् वक्तव्यः भसञ्ज्ञा च वक्तव्या ।

३९ - ६४ - अग्नीधः शरणम् आग्नीध्रम् ।

४० - ६४ - समिधाम् आधाने षेण्यण् ।

४१ - ६४ - समिधाम् आधाने षेण्यण् वक्तव्यः ।

४२ - ६४ - समिधाम् आधानः मन्त्रः सामिधेन्यः मन्त्रः ।

४३ - ६४ - सामिधेनी ऋक् ।

४४ - ६४ - चरणात् धर्माम्नाययोः ।

४५ - ६४ - चरणात् धर्माम्नाययोः इति वक्तव्यम् ।

४६ - ६४ - कठानाम् धर्मः आम्नायः वा काठकम् ।

४७ - ६४ - कालापकम् मौदुकम् पैप्पलादकम् इति ।

४८ - ६४ - तत् तर्हि बहु वक्तव्यम् ।

४९ - ६४ - सूत्रम् च भिद्यते ।

५० - ६४ - यथान्यासम् एव अस्तु ।

५१ - ६४ - ननु च उक्तम् तस्य इदम् इति असन्निहिते अप्राप्तिः इति ।

५२ - ६४ - किम् इदम् भवान् प्रत्ययार्थम् एव उपालम्भते न पुनः प्रकृत्यर्थम् अपि ।

५३ - ६४ - यथा एव हि इदम् इति एतत् प्रत्यक्षे वर्तते एवम् तत् इति एतत् परोक्षे वर्तते ।

५४ - ६४ - तेन इह एव स्यात् ।

५५ - ६४ - तस्य इदम् इति ।

५६ - ६४ - अस्य अमुष्य इति अत्र न स्यात् ।

५७ - ६४ - अस्ति अत्र विशेषः ।

५८ - ६४ - एकशेषनिर्देशः अत्र भविष्यति ।

५९ - ६४ - तस्य च अस्य च अमुष्य त तस्य इति भवति ।

६० - ६४ - इह अपि तर्हि एकशेषनिर्देशः भविष्यति ।

६१ - ६४ - तत् च अदः च इदम् च इदम् इति एव ।

६२ - ६४ - यत् अपि उच्यते अनन्तरादिषु च प्रतिषेधः वक्तव्यः इति ।

६३ - ६४ - न वक्तव्यः ।

६४ - ६४ - अनभिधानात् अनन्तरादिषु उत्पत्तिः न भविष्यति ।

१ - ३ - वैरे देवासुरादिभ्यः प्रतिषेधः ।

२ - ३ - वैरे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः ।

३ - ३ - दैवासुरम् राक्षोसुरम् ।

१ - ३ - सङ्घादिषु घोषग्रहणम् ।

२ - ३ - सङ्घादिषु घोषग्रहणम् कर्तव्यः ।

३ - ३ - गार्गः घोषः वात्सः घोषः ।

१ - १५ - किमर्थः णकारः ।

२ - १५ - वृद्ध्यर्थः ।

३ - १५ - ञ्णिति इति वृद्धिः यथा स्यात् ।

४ - १५ - सङ्घादिषु प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिदिकस्य ।

५ - १५ - सङ्घादिषु प्रत्ययस्य णित्करणम् अनर्थकम् ।

६ - १५ - किम् कारणम् ।

७ - १५ - वृद्धत्वात् प्रातिदिकस्य ।

८ - १५ - वृद्धम् एव एतत् प्रातिपदिकम् ।

९ - १५ - लिङ्गपुंवद्भावप्रतिषेधार्थम् तु ।

१० - १५ - लिङ्गपुंवद्भावप्रतिषेधार्थम् तु णकारः कर्तव्यः ।

११ - १५ - लिङ्गार्थम् ।

१२ - १५ - वैदी ।

१३ - १५ - पुंवद्भावप्रतिषेधार्थम् ।

१४ - १५ - बैदी स्थूणा अस्य बैदीस्थूणः ।

१५ - १५ - वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् ।

१ - २६ - कौपिञ्जलहस्तिपदाद् अण् ।

२ - २६ - कौपिञ्जलहस्तिपदाद् अण् वक्तव्यः ।

३ - २६ - कौपिञ्जलाः हास्तिपदाः ।

४ - २६ - आथर्वणिकस्य इकलोपः च ।

५ - २६ - आथर्वणिकस्य इकलोपः च अण् च वक्तव्यः ।

६ - २६ - आथर्वणः धर्मः आथर्वणः आम्नायः ।

७ - २६ - इदम् आथर्वणार्थम् आथर्वणिकार्थम् च चतुर्ग्रहणम् क्रियते ।

८ - २६ - वसन्तादिषु अथर्वन्शब्दः आथर्वणशब्दः च पठ्यते ।

९ - २६ - षष्थाध्याये प्रकृतिभावार्थम् ग्रहणम् क्रियते ।

१० - २६ - इदम् चतुर्थम् इकलोपार्थम् ।

११ - २६ - द्विर्ग्रहणम् शक्यम् अकर्तुम् ।

१२ - २६ - कथम् ।

१३ - २६ - तेन प्रोक्तम् इति प्रकृत्य ऋषिभ्यः लुक् वक्तव्यः वसिष्ठः अनुवाकः विश्वामित्रः अनुवाकः इति एवमर्थम् ।

१४ - २६ - ततः वक्तव्यम् अथर्वणः वा इति ।

१५ - २६ - तेन् सिद्धम् अथर्वा आथर्वणः इति च ।

१६ - २६ - अथ वसन्तादिषु आथर्वणशब्दः पठितव्यः ।

१७ - २६ - तत्र न एव अर्थः प्रकृतिभावाऋथेन न अपि इकलोपार्थेन ।

१८ - २६ - यदि वसन्तादिषु आथर्वणशब्दः पठ्यते अथर्वाणम् अधीते आथर्वणिकः इति न सिध्यति ।

१९ - २६ - न एषः दोषः ।

२० - २६ - इह अस्माभिः त्रैशब्द्यम् साध्यम् ।

२१ - २६ - तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।

२२ - २६ - तत् यथा ।

२३ - २६ - अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति ।

२४ - २६ - एवम् आथर्वणम् अधीते इति विगृह्य आथर्वणिकः इति भविष्यति अथर्वाणम् अधीते इति विगृह्य वाक्यम् एव ।

२५ - २६ - तत्र अभिसम्बन्धमात्रम् कर्तव्यम् आथर्वणिकानाम् इति ।

२६ - २६ - न च इदानीम् अन्यत् आथर्वणिकानाम् स्वम् भवितुम् अर्हति अन्यत् अतः धर्मात् आम्नायात् वा ।

१ - ५५ - तस्य इति वर्तमाने पुनः तस्यग्रहणम् किमर्थम् ।

२ - ५५ - तस्यप्रकरणे तस्यपुनर्वचनम् शैषिकनिवृत्त्यर्थम् ।

३ - ५५ - तस्यप्रकरणे तस्य इति पुनर्वचनम् क्रियते शैषिकनिवृत्त्यर्थम् ।

४ - ५५ - शैषिकाः निवर्त्यन्ते ।

५ - ५५ - कथम् च प्राप्नुन्वन्ति ।

६ - ५५ - तस्येदंवचनात् प्रसङ्गः ।

७ - ५५ - तस्येदंविशेषाः हि एते अपत्यम् समूहः विकारः निवासः इति ।

८ - ५५ - किमर्थम् इदम् उच्यते ।

९ - ५५ - बाधनार्थम् कृतम् भवेत् ।

१० - ५५ - ये तस्य बाधकाः तद्बाधनार्थम् ।

११ - ५५ - कथम् पुनः अशैषिकम् शैषिकम् बाधेत ।

१२ - ५५ - उत्सर्गः शेषः एव असौ ।

१३ - ५५ - यः हि उत्सर्गः सः अपि शेषः एव ।

१४ - ५५ - के पुनः शैषिकाणाम् विकारावयवयोः प्राप्नुवन्ति यावता सर्वम् अद्य अपवादैः व्याप्तम् ।

१५ - ५५ - इह न किम् चित् उच्यते ।

१६ - ५५ - हलसीरात् ठक् इति ।

१७ - ५५ - कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् शक्यः बाधितुम् ।

१८ - ५५ - तस्यग्रहणसामर्थ्यात् ।

१९ - ५५ - किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य ।

२० - ५५ - अवश्यम् उत्तरार्थः अर्थनिर्देशः कर्तव्यः ।

२१ - ५५ - समर्थविभक्तिः अपि तर्हि अवश्यम् उत्तरार्था निर्देष्टव्या ।

२२ - ५५ - प्रकृता समर्थविभक्तिः अनुवर्तते तस्य इदम् इति ।

२३ - ५५ - न वा सम्प्रत्ययः ।

२४ - ५५ - न वा सम्प्रत्ययः इयता सूत्रेण शैषिकाणाम् निवृत्तेः ।

२५ - ५५ - न हि काकः वाश्यते इति एव अधिकाराः निवर्तन्ते ।

२६ - ५५ - यदि खलु अपि विकारावयवयोः शैषिकाः न इष्यन्ते महता सूत्रेण निवृत्तिः वक्तव्या ।

२७ - ५५ - अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः ।

२८ - ५५ - अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इष्टा तत्र च निवृत्तिः प्राप्नोति ।

२९ - ५५ - पाटलिपुत्रकाः प्रासादाः पाटलिपुत्रकाः प्राकाराः इति ।

३० - ५५ - अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गात् ।

३१ - ५५ - अण्मयटोः च विप्रतिषेधः न उपपद्यते ।

३२ - ५५ - पठिष्यति हि विप्रतिषेधम् अणः वृद्धात् मयट् इति ।

३३ - ५५ - सः विप्रतिषेधः न उपपद्यते ।

३४ - ५५ - किम् कारणम् ।

३५ - ५५ - मयडुत्सर्गात् ।

३६ - ५५ - निवृत्तेषु हि शैषिकेषु वृद्धात् मयट् उत्सर्गः ।

३७ - ५५ - तस्य अण् अपवादः ।

३८ - ५५ - उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः ।

३९ - ५५ - अनुवृत्तौ हि छोत्सर्गापवादविप्रतिषेधात् मयट् ।

४० - ५५ - अनुवर्तमानेषु हि शैषिकेषु वृद्धात् छः उत्सगः तस्य अण्मयटौ अपवादौ ।

४१ - ५५ - अपवादविप्रतिषेधात् मयट् भविष्यति ।

४२ - ५५ - यत् तावत् उच्यते न वा सम्प्रत्ययः इयता सूत्रेण शैषिकाणाम् निवृत्तेः इति ।

४३ - ५५ - सम्प्रत्ययः एव ।

४४ - ५५ - न हि अत्र अण् दुर्लभः ।

४५ - ५५ - सिद्धः अत्र अण् तस्य इदम् इति एव ।

४६ - ५५ - सः अयम् पुनः तस्यग्रहणेन तस्य सापवादस्य अणः प्रसङ्गः इमम् निरपवादकम् अणम् प्रतिपादयति ।

४७ - ५५ - तत्र ये तावत् द्वितीयाः तान् अयम् अपवादत्वात् बाधिष्यते ये तृतीयाः तान् परत्वात् ।

४८ - ५५ - ये चतुर्थाः तत्र के चित् पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् इमम् न बाधिष्यन्ते के चित् मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति ।

४९ - ५५ - एतावन्तः च एते स्युः यत् उत द्वितीयाः तृतीयाः चतुर्थाः वा ।

५० - ५५ - न पञ्चमाः सन्ति न षष्ठाः ।

५१ - ५५ - यत् अपि उच्यते अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इति प्राण्योषधिवृक्षेभ्यः निवृत्तिः उच्यते ।

५२ - ५५ - तत्र कः प्रसङ्गः यत् अप्राण्योषधिवृक्षेभ्यः निवृत्तिः स्यात् ।

५३ - ५५ - यत् अपि उच्यते अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गात् इति मा भूत् विप्रतिषेधः ।

५४ - ५५ - पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अणञम् बाधिष्यते ।

५५ - ५५ - मयटम् न बाधिष्यते ।

१ - ७ - किमर्थम् विकारावयवयोः युगपदधिकारः ।

२ - ७ - विकारावयवयोः उक्तम् ।

३ - ७ - किम् उक्तम् ।

४ - ७ - तत्र तावत् उक्तम् भवव्याख्यानयोः युगपत् अधिकारः अपवादविधानार्थः ।

५ - ७ - कृतनिर्देशौ हि तौ इति ।

६ - ७ - इह अपि विकारावयवयोः युगपदधिकारः अपवादविधानार्थः ।

७ - ७ - कृतनिर्देशौ हि तौ तस्य इदम् इति ।

१ - ४ - किमर्थम् बिल्वादिषु गवीधुकाशब्दः पठ्यते न कोपधात् अण् इति एव सिद्धम् ।

२ - ४ - बिल्वादिषु गवीधुकाग्रहणम् मयट्प्रतिषेधार्थम् ।

३ - ४ - बिल्वादिषु गवीधुकाग्रहणम् क्रियते मयट्प्रतिषेधार्थम् ।

४ - ४ - मयट् अतः मा भूत् इति ।

१ - ३५ - अनुदात्तादेः अञः विधाने आद्युदात्तात् ङीषः उपसङ्ख्यानम् ।

२ - ३५ - अनुदात्तादेः अञः विधाने आद्युदात्तात् ङीषः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३५ - कुवली कौवलम् बदरी बादरम् ।

४ - ३५ - तत् तर्हि वक्तव्यम् ।

५ - ३५ - न वक्तव्यम् ।

६ - ३५ - निघाते कृते अनुदात्तादेः इति एव सिद्धम् ।

७ - ३५ - न सिध्यति ।

८ - ३५ - किम् कारणम् ।

९ - ३५ - पदस्य हि अनुदात्तादित्वम् ।

१० - ३५ - पदस्य हि निघातः सुबन्तम् च पदम् ।

११ - ३५ - ङ्याप्प्रातिपदिकात् च प्रत्ययः विधीयते ।

१२ - ३५ - न वा समर्थस्य अनुदात्तादित्वात् ।

१३ - ३५ - न वा कर्तव्यम् ।

१४ - ३५ - किम् कारणम् ।

१५ - ३५ - समर्थस्य अनुदात्तादित्वात् ।

१६ - ३५ - समर्थम् अनुदात्तादित्वेन विशेषयिष्यामः ।

१७ - ३५ - न एवम् शक्यम् ।

१८ - ३५ - इह हि प्रसज्येत ।

१९ - ३५ - वाचः विकारः त्वचः विकारः इति ।

२० - ३५ - एतद् हि समर्थम् अनुदात्तादि ।

२१ - ३५ - इह च न स्यात् सर्वेषाम् विकारः इति ।

२२ - ३५ - तस्मात् न एवम् शक्यम् ।

२३ - ३५ - न चेत् एवम् उपसङ्ख्यानम् कर्तव्यम् ।

२४ - ३५ - न कर्तव्यम् ।

२५ - ३५ - आचार्यप्रवृत्तिः ज्ञापयति यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति यत् अयम् भिक्षादिषु गर्भिणीशब्दस्य पाठम् करोति ।

२६ - ३५ - कथम् कृत्वा ज्ञापकम् ।

२७ - ३५ - भिक्षादिषु गर्भिणीशब्दस्य पाठे एतत् प्रयोजनम् अनुदात्तादिलक्षणः अञ् मा भूत् इति ।

२८ - ३५ - यदि च पदस्य निघातः गर्भशब्दः अयम् आद्युदात्तः तस्मात् इन् अन्तात् यः प्रत्ययः प्राप्नोति सः तावत् स्यात् ।

२९ - ३५ - तस्मिन् अवस्थिते निघातः ।

३० - ३५ - तत्र कः अनुदात्तादिलक्षणस्य अञः प्रसङ्गः ।

३१ - ३५ - पश्यति तु आचार्यः यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति ।

३२ - ३५ - अतः भिक्षादिषु गर्भिणीशब्दम् पठति ।

३३ - ३५ - पदग्रहणम् परिमाणार्थम् ।

३४ - ३५ - पदग्रहणम् क्रियते परिमाणार्थम् ।

३५ - ३५ - वाक्यस्य मा भूत् अनुदात्तम् पदम् एकवर्जम् इति ।

१ - ८ - किमर्थम् एतयोः इति उच्यते ।

२ - ८ - मयड्वैतयोर्वचनम् अपवादविषये अनिवृत्त्यर्थम् ।

३ - ८ - मयट् वा एतयोः इति उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् ।

४ - ८ - बिल्वमयम् बैल्वम् ।

५ - ८ - एतयोः इति अर्थनिर्देशः ।

६ - ८ - एतयोः इति अर्थनिर्देशः द्रष्टव्यः ।

७ - ८ - द्वेष्यम् विजानीयात् योगयोः वा प्रत्यययोः वा इति ।

८ - ८ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे एतयोः इति अर्थनिर्देशः इति ।

१ - ५२ - किमर्थम् इदम् उच्यते ।

२ - ५२ - विकारावयवयोः विकारावयवयुक्तत्वात् मयट्प्रतिषेधार्थम् ञितः च तत्प्रत्ययात् अञः विधानम् ।

३ - ५२ - विकारः विकारेण युज्यते अवयवेन अवयवः ।

४ - ५२ - विकारावयवयोः विकारावयवयुक्तत्वात् मयट् प्राप्नोति ।

५ - ५२ - इष्यते च अञ् एव स्यात् इति ।

६ - ५२ - तत् च अन्तरेण यत्नम् न सिध्यति इति मयट्प्रतिषेधार्थम् ञितः च तत्प्रत्ययात् अञः विधानम् ।

७ - ५२ - एवमर्थम् इदम् उच्यते ।

८ - ५२ - न वा दृष्टः हि अवयवे समुदायशब्दः विकारे च प्रकृतिशब्दः तस्मात् मयडभावः ।

९ - ५२ - न वा एतत् प्रयोजनम् अस्ति ।

१० - ५२ - किम् कारणम् ।

११ - ५२ - दृष्टः हि अवयवे समुदायशब्दः ।

१२ - ५२ - तत् यथा पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतम् भुक्तम् ।

१३ - ५२ - विकारे च प्रकृतिशब्दः दृश्यते ।

१४ - ५२ - तत् यथा ।

१५ - ५२ - शालीन् भुङ्क्ते मुद्गैः ।

१६ - ५२ - शालीविकारम् मुद्गविकारेण इति ।

१७ - ५२ - तस्मात् मयट् अतः न भविष्यति ।

१८ - ५२ - न एतत् विवदामहे ।

१९ - ५२ - अवयवे समुदायशब्दः अस्ति न अस्ति इति विकारे वा प्रकृतिशब्दः इति ।

२० - ५२ - किम् तर्हि विकारावयवशब्दः अपि तु अस्ति ।

२१ - ५२ - ततः उत्पत्तिः प्राप्नोति ।

२२ - ५२ - विकारावयवशब्दात् प्रसङ्गः इति चेत् न तेन अनभिधानात् ।

२३ - ५२ - विकारावयवशब्दात् प्रसङ्गः इति चेत् तत् न ।

२४ - ५२ - किम् कारणम् ।

२५ - ५२ - तेन अनभिधानात् ।

२६ - ५२ - न हि विकारावयवशब्दात् उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् ।

२७ - ५२ - अनभिधानात् ततः उतपत्तिः न भविष्यति ।

२८ - ५२ - तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।

२९ - ५२ - अभिधाने हि अन्यतः अपि मयट्प्रसङ्गः ।

३० - ५२ - अभिधाने हि सति अन्यतः अपि मयट् प्रसज्येत बैल्वस्य विकारः इति ।

३१ - ५२ - तस्मात् तत्प्रत्ययान्तात् लुग्वचनम् ।

३२ - ५२ - तस्मात् तत्प्रत्ययान्तात् लुक् वक्तव्यः ।

३३ - ५२ - यदि लुक् उच्यते कथम् गौमयम् भस्म द्रौवयम् मानम् कापित्थः रसः इति ।

३४ - ५२ - अन्यत्र गोमयात् द्रुवयात् फलात् च लुक् वक्तव्यः ।

३५ - ५२ - इह तर्हि औष्ट्रकी अञन्तात् इति ईकारः न प्राप्नोति ।

३६ - ५२ - इष्टम् एव एतत् सङ्गृहीतम् ।

३७ - ५२ - औष्ट्रिका इति एव भवितव्यम् ।

३८ - ५२ - एवम् हि सौनागाः पठन्ति ।

३९ - ५२ - वुञः च अञ् कृतप्रसङ्गः इति ।

४० - ५२ - इह तर्हि पालाशी समित् इति अनुपसर्जनलक्षणः ईकारः न प्राप्नोति ।

४१ - ५२ - मा भूत् एवम् अञ् यः अनुपर्सर्जनम् इति ।

४२ - ५२ - अञन्तात् अनुपसर्जनात् इति एवम् भविष्यति ।

४३ - ५२ - न एवम् शक्यम् ।

४४ - ५२ - इह हि दोषः स्यात् ।

४५ - ५२ - काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी ताम् अधीते काशकृत्स्ना ब्राह्मणी इति ।

४६ - ५२ - अणन्तात् इति ईकारः प्रसज्येत ।

४७ - ५२ - तस्मात् अस्तु न तेन अनभिभानात् इति एव ।

४८ - ५२ - इह तर्हि कापोतः रसः इत् प्राणिशब्दः न उपपद्यते ।

४९ - ५२ - न एषः दोषः ।

५० - ५२ - इदम् तावत् अयम् प्रष्टव्यः ।

५१ - ५२ - अथ यः असौ आद्यः कपोतः सलोमकः सपक्षः न च सम्प्रति प्रणिति कथम् तत्र प्राणिशब्दः वर्तते इति ।

५२ - ५२ - अथ मतम् एतत् प्रकृत्यन्वयाः विकाराः भवन्ति इति इह अपि न दोषः भवति ।

१ - १३ - कथम् इदम् विज्ञायते ।

२ - १३ - क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात् विकारावयवयोः इति ।

३ - १३ - आहोस्वित् परिमाणात् क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति ।

४ - १३ - किम् च अतः ।

५ - १३ - यदि विज्ञायते क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात् विकारावयवयोः इति प्रत्ययमात्रम् प्राप्नोति ।

६ - १३ - अथ विज्ञायते परिमाणात् क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति प्रकृतिमात्रात् प्राप्नुवन्ति ।

७ - १३ - तस्मात् क्रीतवत् परिमाणात् अङ्गम् च ।

८ - १३ - अङ्गम् च क्रीतवत् इति वक्तव्यम् ।

९ - १३ - तत् तर्हि वक्तव्यम् ।

१० - १३ - न वक्तव्यम् ।

११ - १३ - क्रीतवत् इति वतिनिर्देशः अयम् ।

१२ - १३ - यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण क्रीते प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण विकारावयवयोः भवन्ति ततः अमी क्रीतवत् कृताः स्युः ।

१३ - १३ - अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी क्रीतवत् कृताः स्युः ।

१ - ५७ - अणः वृद्धात् मयट् ।

२ - ५७ - अणः वृद्धात् मयट् इति एतत् भवति विप्रतिषेधेन ।

३ - ५७ - अणः अवकाशः तित्तिडीक तैत्तिडीकम् ।

४ - ५७ - मयटः अवकाशः काष्ठमयम् ।

५ - ५७ - इह उभयम् प्राप्नोति ।

६ - ५७ - शाकमयम् ।

७ - ५७ - ओः अञः अनुदात्तादेः अञः च मयट् भवति विप्रतिषेधेन ।

८ - ५७ - ओः अञः अवकाशः आरडवम् ।

९ - ५७ - मयटः सः एव ।

१० - ५७ - इह उभयम् प्राप्नोति ।

११ - ५७ - दारुमयम् ।

१२ - ५७ - अनुदात्तादेः अञ् भवति इति अस्य अवकाशः कौवलम् जरद्वृक्ष जारद्वृक्षम् ।

१३ - ५७ - मयटः सः एव ।

१४ - ५७ - इह उभयम् प्राप्नोति ।

१५ - ५७ - आम्रमयम् ।

१६ - ५७ - मयटः प्राण्यञ् विप्रतिषेधेन ।

१७ - ५७ - मयटः प्राण्यञ् भवति विप्रतिषेधेन ।

१८ - ५७ - प्राण्यञः अवकाशः गृध्र गार्ध्रम् ।

१९ - ५७ - मयटः सः एव ।

२० - ५७ - इह उभयम् प्राप्नोति ।

२१ - ५७ - चाषम् भासम् ।

२२ - ५७ - प्राण्यञ् भवति विप्रतिषेधेन ।

२३ - ५७ - न वा अनवकाशत्वात् अपवादः मयट् ।

२४ - ५७ - न वा एषः युक्तः विप्रतिषेधः यः अयम् अञः मयटः च ।

२५ - ५७ - किम् कारणम् ।

२६ - ५७ - अनवकाशत्वात् अपवादः मयट् ।

२७ - ५७ - अनवकाशः मयट् सावकाशम् अञम् बाधिष्यते ।

२८ - ५७ - सः कथम् अनवकाशः ।

२९ - ५७ - यदि अनुवर्तन्ते शैषिकाः ।

३० - ५७ - अथ निवृत्ताः शैषिकाः वृद्धम् आद्युदात्तम् मयटः अवकाशः ।

३१ - ५७ - प्राण्यञः च ।

३२ - ५७ - अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् मयटः प्राण्यञः च ।

३३ - ५७ - किम् कारणम् ।

३४ - ५७ - अनवकाशत्वात् अपवादः मयट् इति एव ।

३५ - ५७ - अनवकाशः मयट् ।

३६ - ५७ - सः यथा एव ओः अञम् अनुदात्तादेः अञम् च बाधते एवम् प्राण्यञम् अपि बाधेत ।

३७ - ५७ - तस्मात् मयड्विधाने प्राणिप्रतिषेधः ।

३८ - ५७ - तस्मात् मयड्विधाने प्राणिभ्यः प्रतिषेधः वक्तव्यः ।

३९ - ५७ - सः तर्हि वक्तव्यः ।

४० - ५७ - न वक्तव्यः ।

४१ - ५७ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् मयट् ओः अञम् अनुदात्तादेः अञम् च बाधिष्यते ।

४२ - ५७ - प्राण्यञम् न बाधिष्यते ।

४३ - ५७ - यदि एतत् अस्ति मध्ये अपवादाः पुरस्तात् अपवादाः इति मा अनुवृतन् शैषिकाः ।

४४ - ५७ - पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् अण् अञम् बाधिष्यते ।

४५ - ५७ - मयटम् न बाधिष्यते ।

४६ - ५७ - अनुदात्तादेः अञः प्राण्यञ् विप्रतिषेधेन ।

४७ - ५७ - अनुदात्तादेः अञः प्राण्यञ् भवति विप्रतिषेधेन ।

४८ - ५७ - अनुदात्तादेः अञ् भवति इति अस्य अवकाशः जरद्वृक्ष जारद्वृक्षम् ।

४९ - ५७ - प्राण्यञः सः एव ।

५० - ५७ - इह उभयम् प्राप्नोति ।

५१ - ५७ - कपोत कापोतम् ।

५२ - ५७ - प्राण्यञ् भवति विप्रतिषेधेन ।

५३ - ५७ - कः पुनः अत्र विशेषः तेन वा सति अनेन वा ।

५४ - ५७ - सापवादकः सः विधिः ।

५५ - ५७ - अयम् पुनः निरपवादकः ।

५६ - ५७ - यदि तेन स्यात् इह न स्यात् ।

५७ - ५७ - श्वाविधः विकारः शौवाविधम् ।

१ - ९ - फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् ।

२ - ९ - फले लुग्वचनम् अनर्थकम् ।

३ - ९ - किम् कारणम् ।

४ - ९ - प्रकृत्यन्तरत्वात् ।

५ - ९ - प्रकृत्यन्तरम् आमलकशब्दः फले वर्तते ।

६ - ९ - एकान्तदर्शनात् प्राप्नोति ।

७ - ९ - एकान्तदर्शनात् प्रसङ्गः इति चेत् वृक्षे लुग्वचनम् ।

८ - ९ - एकान्तदर्शनात् प्रसङ्गः इति चेत् वृक्षे लुक् वक्तव्यः ।

९ - ९ - वृक्षः अपि फलैकान्तः ।

१ - ८ - लुप्प्रकरणे फलपाकशुषाम् उपसङ्ख्यानम् ।

२ - ८ - लुप्प्रकरणे फलपाकशुषाम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - ८ - व्रीहयः यवाः माषाः मुद्गाः तिलाः ।

४ - ८ - पुष्पमूलेषु च बहुलम् ।

५ - ८ - पुष्पमूलेषु च बहुलम् लुप् वक्तव्यः ।

६ - ८ - मल्लिका करवीरम् बिसम् मृणालम् ।

७ - ८ - न च भवति ।

८ - ८ - पाटलानि मूलानि ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP