पाद १ - खण्ड ३६

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ११ - स्थग्रहणम् किमर्थम् ।

२ - ११ - तत्र उपपदम् सप्तमी इति इयति उच्यमाने यत्र एव सप्तमी श्रूयते तत्र एव स्यात् स्तम्बेरमः कर्णेजपः ।

३ - ११ - यत्र वा एतेन शब्देन निर्देशः क्रियते ।

४ - ११ - सप्तम्याम् जनेः डः इति ।

५ - ११ - इह न स्यात् ।

६ - ११ - कुम्भकारः नगरकारः ।

७ - ११ - स्थग्रहणे पुनः क्रियमाणे यत्र च सप्तमी श्रूयते य च न श्रूयते यत्र च एतेन शब्देन निर्देशः क्रियते यत्र च अन्येन सप्तमीस्थमात्रे सिद्धम् भवति ।

८ - ११ - अथ तत्रग्रहणम् किमर्थम् ।

९ - ११ - तत्रग्रहणम् विषयार्थम् ।

१० - ११ - विषयः प्रतिनिर्दिश्यते ।

११ - ११ - तत्र एतस्मिन् धात्वधिकारे यत् सप्तमीनिर्दिष्टम् तत् उपपदसञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति ।

१ - ५५ - उपपदसञ्ज्ञायाम् समर्थवचनम् । उपपदसञ्ज्ञायाम् समर्थग्रहणम् कर्तव्यम् ।

२ - ५५ - समर्थम् उपपदम् प्रत्ययस्य इति वक्तव्यम् ।

३ - ५५ - इह मा भूत् ।

४ - ५५ - आहर कुम्भम् ।

५ - ५५ - करोति कटम् इति ।

६ - ५५ - क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति ।

७ - ५५ - न वा भवितव्यम् महाकुम्भकारः इति ।

८ - ५५ - भवैतव्यम् यदा एतत् वाक्यम् भवति ।

९ - ५५ - महान् कुम्भः महाकुम्भः महाकुम्भम् करोति इति महाकुम्भकारः ।

१० - ५५ - यदा तु एतत् वाक्यम् भवति महान्तम् कुम्भम् करोति इति तदा न भवितव्यम् ।

११ - ५५ - तदा च प्राप्नोति ।

१२ - ५५ - तदा मा भूत् इति ।

१३ - ५५ - यत् तावत् उच्यते समर्थग्रहणम् कर्तव्यम् इति ।

१४ - ५५ - न कर्तव्यम् ।

१५ - ५५ - धातोः इति वर्तते ।

१६ - ५५ - धातोः कर्मणि अण् भवति ।

१७ - ५५ - तत्र सम्बन्धात् एतत् गन्तव्यम् ।

१८ - ५५ - यस्य धातोः यत् कर्म इति ।

१९ - ५५ - यत् अपि उच्यते क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति इति ।

२० - ५५ - उपपदम् इति महतीइहम् सञ्ज्ञा क्रियते ।

२१ - ५५ - सञ्ज्ञा च नाम यतः न लघीयः ।

२२ - ५५ - कुतः एतत् ।

२३ - ५५ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

२४ - ५५ - तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत उपोच्चारि पदम् उपपदम् ।

२५ - ५५ - यत् च अत्र उपोच्चारि न तत् पदम् यत् च पदम् न तत् उपोच्चारि ।

२६ - ५५ - यावता च इदानीम् पदगन्धः अस्ति पदविधिः अयम् भवति ।

२७ - ५५ - पदविधिः च समर्थानाम् भवति ।

२८ - ५५ - तत्र असामार्थ्यान् न भविष्यति ।

२९ - ५५ - अथ च्व्यन्ते उपपदे किम् अणा भवितव्यम् ।

३० - ५५ - अकुम्भम् कुम्भम् करोति कुम्भीकरोति मृदम् इति ।

३१ - ५५ - न भवितव्यम् ।

३२ - ५५ - किम् कारणम् ।

३३ - ५५ - प्रकृतिविवक्षायाम् च्विः विधीयते ।

३४ - ५५ - तत् सापेक्षम् ।

३५ - ५५ - सापेक्षम् च असमर्थम् भवति ।

३६ - ५५ - न तर्हि इदानीम् इदम् भवति इच्छामि अहम् काशकटीकारम् इति ।

३७ - ५५ - इष्टम् एव एतत् गोनर्दीयस्य ।

३८ - ५५ - निमित्तोपादनम् च ।

३९ - ५५ - निमित्तोपादनम् च कर्तव्यम् ।

४० - ५५ - निमित्तम् उपपदम् प्रत्ययस्य इति वक्तव्यम् ।

४१ - ५५ - अनुपादाने हि अनुपपदे प्रत्ययप्रसङ्गः ।

४२ - ५५ - अक्रियमाणे हि निमित्तोपादाने अनुपपदे अपि प्रसज्येत ।

४३ - ५५ - निर्देशः इदानीम् किमर्थः स्यात् ।

४४ - ५५ - निर्देशः सञ्ज्ञाकरणार्थः ।

४५ - ५५ - यदा उपपदे प्रत्ययः तदा उपपदसञ्ज्ञाम् वक्ष्यामि इति ।

४६ - ५५ - तत् तर्हि निमित्तोपादनम् कर्तव्यम् ।

४७ - ५५ - न कर्तव्यम् ।

४८ - ५५ - तत्रवचनम् उपपदसन्नियोगार्थम् ।

४९ - ५५ - तत्रवचनम् क्रियते ।

५० - ५५ - तत् उपपदसन्नियोगार्थम् भविष्यति ।

५१ - ५५ - कर्मणि अण् विधीयते तत्र चेत् प्रत्ययः भवति इति ।

५२ - ५५ - ननु च अन्यत् तत्रग्रहणस्य प्रयोजनम् उक्तम् ।

५३ - ५५ - किम् ।

५४ - ५५ - तत्रग्रहणम् विषयार्थम् इति ।

५५ - ५५ - अधिकारात् अपि एतत् सिद्धम् ।

१ - ३३ - अतिङ् इति किमर्थम् ।

२ - ३३ - पचति करोति ।

३ - ३३ - अतिङ् इति शक्यम् अकर्तुम् ।

४ - ३३ - कस्मात् न भवति पचति करोति इति ।

५ - ३३ - धातोः परस्य कृत्सञ्ज्ञा ।

६ - ३३ - प्राक् च लादेशात् धात्वधिकारः ।

७ - ३३ - एवम् अपि स्थानिवद्भावात् कृत्सञ्ज्ञ प्राप्नोति ।

८ - ३३ - यथा अतिङ् इति उच्यमाने यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति ।

९ - ३३ - प्रतिषेधवचनसामर्थ्यात् ।

१० - ३३ - अथ वा तिङ्भाविनः लकारस्य कृत्सञ्ज्ञाप्रतिषेधः ।

११ - ३३ - किम् च स्यात् यति अत्र कृत्सञ्ज्ञा स्यात् ।

१२ - ३३ - कृत्प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा स्यात् ।

१३ - ३३ - प्रातिपदिकात् इति स्वाद्युत्पत्तिः प्रसज्येत ।

१४ - ३३ - न एषः दोषः ।

१५ - ३३ - एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।

१६ - ३३ - ते च अत्र तिङोक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वात् न भविष्यन्ति ।

१७ - ३३ - टाबादयः तर्हि तिङन्तात् मा भूवन् इति ।

१८ - ३३ - स्त्रियाम् टाबादयः विधीयन्ते ।

१९ - ३३ - न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति ।

२० - ३३ - अणादयः तर्हि तिङन्तात् मा भूवन् इति ।

२१ - ३३ - अपत्यादिषु अर्थेषु अणादयः विधीयन्ते ।

२२ - ३३ - न च तिङन्तस्य अपत्यादिभिः योगः अस्ति ।

२३ - ३३ - अथ अपि कथम् चित् योगः स्यात् ।

२४ - ३३ - एवम् अपि न दोषः ।

२५ - ३३ - आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ तिङ्ग्रहणम् करोति ।

२६ - ३३ - अतिशायने तमबिष्ठनौ तिङः च इति ।

२७ - ३३ - इह तर्हि पचति पठति इति ।

२८ - ३३ - ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।

२९ - ३३ - धातोः इति वर्तते ।

३० - ३३ - एवम् अपि चिकीर्षति इति अत्र प्राप्नोति ।

३१ - ३३ - अत्र अपि शपा व्यवधानम् ।

३२ - ३३ - एकादेशे कृते न अस्ति व्यवधानम् ।

३३ - ३३ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव इति ।

१ - ८ - कथम् इदम् विज्ञायते ।

२ - ८ - स्त्रियाम् अभिधेयायाम् वा अस्रूपः न भवति इति आहोस्वित् स्त्रीप्रत्ययेषु इति ।

३ - ८ - किम् च अतः ।

४ - ८ - यदि स्त्रियाम् अभिधेयायाम् इति लव्या लवितव्या अत्र वा असरूपः न प्राप्नोति ।

५ - ८ - अथ विज्ञायते स्त्रीप्रत्ययेषु इति व्यावक्रोशी वयतिक्रुष्टिः इति न सिध्यति ।

६ - ८ - एवम् तर्हि न एवम् विज्ञायते स्त्रियाम् अभिधेयायाम् न अपि स्त्रीप्रत्ययेषु इति ।

७ - ८ - कथम् तर्हि स्त्रीग्रहणम् स्वरयिष्यते ।

८ - ८ - तत्र स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति अधिकृत्य ये प्रतयाः विहिताः तेषाम् प्रतिषेधः विज्ञास्यते ।

१ - ११७ - किमर्थम् पुनः इदम् उच्यते ।

२ - ११७ - असरूपस्य वावचनम् उत्सर्गस्य बाधकविषये अनिवृत्त्यर्थम् ।

३ - ११७ - असरूपस्य वावचनम् क्रियते उत्सर्गस्य बाधकविषये अनिवृत्तिः यथा स्यात् ।

४ - ११७ - तव्यत्तव्यानीयरः उत्सर्गाः ।

५ - ११७ - तेषाम् अजन्तात् यत् अपवादः ।

६ - ११७ - चेयम् , चेतव्यम् इति अपि यथा स्यात् ।

७ - ११७ - न एतत् अस्ति प्रयोजनम् ।

८ - ११७ - अजन्तात् यत् विधीयते ।

९ - ११७ - हलन्तात् ण्यत् विधीयते ।

१० - ११७ - एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च ।

११ - ११७ - उच्यन्ते च तव्यादयः ।

१२ - ११७ - ते वचनात् भविष्यन्ति ।

१३ - ११७ - एवम् तर्हि ण्वुल्तृचौ उत्सर्गौ ।

१४ - ११७ - तयोः पचादिभ्यः अच् अपवादः ।

१५ - ११७ - पचति इति पचः ।

१६ - ११७ - पक्ता पाचकः इति अपि यथा स्यात् ।

१७ - ११७ - एतत् अपि न अस्ति प्रयोजनम् ।

१८ - ११७ - वक्ष्यति एतत् ।

१९ - ११७ - अच् अपि सर्वधातुभ्यः वक्तव्यः इति ।

२० - ११७ - एवम् तर्हि ण्वुल्तृजचः उत्सर्गाः तेषाम् इगुपधात् कः अपवादः ।

२१ - ११७ - विक्षिपः विलिखः ।

२२ - ११७ - विक्षेप्ता विक्षेपकः इति अपि यथा स्यात् ।

२३ - ११७ - अस्ति प्रयोजनम् एतत् ।

२४ - ११७ - किम् तर्हि इति ।

२५ - ११७ - तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते ।

२६ - ११७ - तत्र उत्पत्तिः विभाषा प्राप्नोति यथा तद्धिते ।

२७ - ११७ - अस्तु ।

२८ - ११७ - यदा विक्षिपः विलिखः इति एतत् न तदा विक्षेप्ता विक्षेपकः इति एतत् भविष्यति ।

२९ - ११७ - यदि एतत् लभ्येत कृतम् स्यात् ।

३० - ११७ - तत् तु न लभ्यम् ।

३१ - ११७ - किम् कारणम् ।

३२ - ११७ - यथा तद्धिते इति उच्यते ।

३३ - ११७ - तद्दितेषु च सर्वम् एव उत्सर्गापवादम् विभाषा ।

३४ - ११७ - उत्पद्यते वा न वा ।

३५ - ११७ - सिद्धम् तु असरूपस्य बाधकस्य वावचनात् ।

३६ - ११७ - सिद्धम् एतत् ।

३७ - ११७ - कथम् ।

३८ - ११७ - असरूपस्य बाधकस्य वावचनात् ।

३९ - ११७ - असरूपः बाधकः वा बाधकः भवति इति वक्तव्यम् ।

४० - ११७ - सिध्यति ।

४१ - ११७ - सूत्रम् तर्हि भिद्यते ।

४२ - ११७ - यथान्यासम् एव अस्तु ।

४३ - ११७ - ननु च उक्तम् तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते इति ।

४४ - ११७ - न एषः दोषः ।

४५ - ११७ - अस्ति कारणम् येन तद्धिते विभाषा उत्पत्तिः भवति ।

४६ - ११७ - किम् कारणम् ।

४७ - ११७ - प्रकृतिः तत्र प्रकृत्यर्थे वर्तते ।

४८ - ११७ - अन्येन शब्देन प्रत्ययार्थः अभिधीयते ।

४९ - ११७ - इह पुनः न केवला प्रकृतिः प्रकृत्यर्थे वर्तते न च अन्यः शब्दः अस्ति यः तम् अर्थम् अभिदधीत इति कृत्वा अनुत्पत्तिः न भविष्यति ।

५० - ११७ - अथ वा समयः कृतः ।

५१ - ११७ - न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः इति ।

५२ - ११७ - एतस्मात् समयात् अनुत्पत्तिः न भविष्यति ।

५३ - ११७ - ननु च यः एव तस्य समयस्य कर्ता सः एव इदम् अपि आह ।

५४ - ११७ - यदि असौ तत्र प्रमाणम् इह अपि प्रमाणम् भवितुम् अर्हति ।

५५ - ११७ - प्रमाणम् असौ तत्र च इह च ।

५६ - ११७ - सामर्थ्यम् तु इह द्रष्टव्यम् प्रयोगे ।

५७ - ११७ - न च अनुत्पत्तौ सामर्थ्यम् अस्ति ।

५८ - ११७ - तेन अनुत्पत्तिः न भविष्यति ।

५९ - ११७ - कथम् तर्हि तद्धितेषु अनुत्पत्तौ सामर्थ्यम् भवति ।

६० - ११७ - अन्येन प्रत्ययेन सामर्थ्यम् ।

६१ - ११७ - केन ।

६२ - ११७ - षष्ठ्या ।

६३ - ११७ - अथ वा रूपवत्ताम् आश्रित्य वाविधिः उच्यते ।

६४ - ११७ - न च अनुत्पत्तिः रूपवती ।

६५ - ११७ - तेन अनुत्पत्तिः न भविष्यति ।

६६ - ११७ - एवम् अपि कुतः एतत् अपवादः विभाषा भविष्यति न पुनः उत्सर्गः इति ।

६७ - ११७ - न च एव अस्ति विशेषः यत् अपवादः विभाषा स्यात् उत्सर्गः वा ।

६८ - ११७ - अपि च सापेक्षः अयम् निर्देशः क्रियते वा असरूपः इति ।

६९ - ११७ - न च उत्सर्गवेलायाम् किम् चित् अपेक्ष्यम् अस्ति ।

७० - ११७ - अपवादवेलायाम् पुनः उत्सर्गः अपेक्ष्यते ।

७१ - ११७ - तेन यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भविष्यति ।

७२ - ११७ - कः पुनः असौ ।

७३ - ११७ - अपवादः ।

७४ - ११७ - यदि यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भवति इति उच्यते क्विबादिषु समावेशः न प्राप्नोति ।

७५ - ११७ - ग्रामणीः ग्रामणायः इति ।

७६ - ११७ - न हि एते रूपवन्तः ।

७७ - ११७ - एते अपि रूपवन्तः ।

७८ - ११७ - कस्याम् अवस्थायाम् ।

७९ - ११७ - उपदेशावस्थायाम् ।

८० - ११७ - यदि एवम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः ।

८१ - ११७ - अनुबन्धभिन्नेषु विभाषा प्राप्नोति ।

८२ - ११७ - कर्मणि अण् आतः अनुपसर्गे कः इति कविषये अण् अपि प्राप्नोति ।

८३ - ११७ - सिद्धम् अनुबन्धस्य अनेकान्तत्वात् ।

८४ - ११७ - सिद्धम् एतत् ।

८५ - ११७ - कथम् ।

८६ - ११७ - अनुबन्धस्य अनेकान्तत्वात् ।

८७ - ११७ - अनेकान्ताः अनुबन्धाः ।

८८ - ११७ - अथ वा प्रयोगे असरूपाणाम् वाविधिः न्याय्यः ।

८९ - ११७ - प्रयोगे चेत् लादेशेषु प्रतिषेधः ।

९० - ११७ - प्रयोगे चेत् लादेशेषु प्रतिषेधः वक्तव्यः ।

९१ - ११७ - ह्यः अपचत् इति अत्र लुङ् अपि प्राप्नोति ।

९२ - ११७ - श्वः पक्ता इति अत्र लृट् अपि प्राप्नोति ।

९३ - ११७ - न एषः दोषः ।

९४ - ११७ - आचार्यप्रवृत्तिः ज्ञापयति न लादेशेषु वा असरूपः भवति इति यत् अयम् हशश्वतोः लङ् च इति आह ।

९५ - ११७ - अथ वा प्रयोगे असरूपाणाम् वाविधौ न सर्वम् इष्टम् सङ्गृहीतम् इति कृत्वा द्वितीयः प्रयोगः उपास्यते ।

९६ - ११७ - कः असौ ।

९७ - ११७ - उपदेशः नाम ।

९८ - ११७ - उपदेशे च एते सरूपाः ।

९९ - ११७ - ननु च उक्तम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः इति ।

१०० - ११७ - परिहृतम् एतत् ।

१०१ - ११७ - कथम् ।

१०२ - ११७ - सिद्धम् अनुबन्धस्य अनेकान्तत्वात् ।

१०३ - ११७ - अथ एकान्ते दोषः एव ।

१०४ - ११७ - एकान्ते च न दोषः ।

१०५ - ११७ - आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददादिदधात्योः विभाषा शम् शास्ति ।

१०६ - ११७ - अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते ।

१०७ - ११७ - अपवादः नाम अनुबन्धभिन्नः वा भवति रूपान्यत्वेन वा ।

१०८ - ११७ - तेन अनेन अवश्यम् किम् चित् त्याज्यम् किम् चित् तु सङ्ग्रहीतव्यम् ।

१०९ - ११७ - तत् यत् अनुबन्धकृतम् असारूप्यम् तत् न आश्रयिष्यामः यत् तु रूपान्यत्वेन असारूप्यम् तत् आश्रयिष्यामः ।

११० - ११७ - अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते सर्वः च असरूपः ।

१११ - ११७ - तत्र प्रकर्षगतिः विज्ञास्यते साधीयः यः असरूपः इति ।

११२ - ११७ - कः च साधीयः ।

११३ - ११७ - यः प्रयोगे च प्राक् च प्रयोगात् ।

११४ - ११७ - अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते ।

११५ - ११७ - न च एवम् कः चित् अपि सरूपः ।

११६ - ११७ - ते एवम् विज्ञास्यामः क्वत् चित् ये असरूपाः ।

११७ - ११७ - अनुबन्धभिन्नाः च प्रयोगे सरूपाः ।

१ - २५ - अथ कथम् इदम् विज्ञायते अस्त्रियाम् इति ।

२ - २५ - किम् स्त्रियाम् न भवति आहोस्वित् प्राक् स्त्रियाः भवति इति ।

३ - २५ - कः च अत्र विशेषः ।

४ - २५ - स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः ।

५ - २५ - स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषा प्राप्नोति ।

६ - २५ - क्त ।

७ - २५ - हसितम् छात्रस्य्स् शोभनम् ।

८ - २५ - घञ् अपि प्राप्नोति ।

९ - २५ - ल्युट् ।

१० - २५ - हसनम् छात्रस्य्स् शोभनम् ।

११ - २५ - घञ् अपि प्राप्नोति ।

१२ - २५ - तुमुन् ।

१३ - २५ - इच्छति भोक्तुम् ।

१४ - २५ - लिङ्लोटौ अपि प्राप्नुतः ।

१५ - २५ - खलर्थः ।

१६ - २५ - ईषत्पानः सोमः भवता ।

१७ - २५ - खल् अपि प्राप्नोति ।

१८ - २५ - एवम् तर्हि स्त्रियाः प्राक् इति वक्ष्यामि ।

१९ - २५ - स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् । स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् कर्तव्यम् ।

२० - २५ - आसित्वा भुङ्क्ते ।

२१ - २५ - आस्यते भोक्तुम् इति अपि यथा स्यात् ।

२२ - २५ - कालादिषु तुमुनि ।

२३ - २५ - कालादिषु तुमुनि वावचनम् कर्तव्यम् ।

२४ - २५ - कालः भोक्तुम् ।

२५ - २५ - कालः भोजनस्य इति अपि यथा स्यात्

१ - ११ - अर्हे तृज्विधानम् ।

२ - ११ - अर्हे तृच् विधेयः ।

३ - ११ - इमे अर्हे कृत्याः विधीयन्ते ।

४ - ११ - ते विशेषविहिताः सामान्यविहितम् तृचम् बाधेरन् ।

५ - ११ - न एषः दोषः ।

६ - ११ - भावकर्मणोः कृत्याः विधीयन्ते कर्तरि तृच् ।

७ - ११ - कः प्रसङ्गः यत् भावकर्मणोः कृत्याः कर्तरि तृचम् बाधेरन् ।

८ - ११ - एवम् तर्हि अर्हे कृत्यतृज्विधानम् ।

९ - ११ - अर्हे कृत्यतृचः विधेयाः ।

१० - ११ - अयम् अर्हे लिङ् विधीयते ।

११ - ११ - सः विशेषविहितः सामान्यविहितान् कृत्यतृचः बाधेत ।

१ - ८ - कृत्यसञ्ज्ञायाम् प्राङ्ण्वुल्वचनम् ।

२ - ८ - कृत्यसञ्ज्ञायाम् प्राक् ण्वुलः इति वक्तव्यम् ।

३ - ८ - किम् प्रयोजनम् ।

४ - ८ - ण्वुलः कृत्यसञ्ज्ञा मा भूत् ।

५ - ८ - अर्हे कृत्यत्र्ज्वचनम् तु ज्ञापकम् प्राङ्ण्वुलवनानर्थ्यस्य ।

६ - ८ - यत् अयम् अर्हे कृत्यतृचः च इति तृज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः प्राक् ण्वुलः कृत्यसञ्ज्ञा भवति इति ।

७ - ८ - एवम् अपि ण्वुलः कृत्यसञ्ज्ञा प्राप्नोति ।

८ - ८ - योगापेक्षम् ज्ञापकम् ।

१ - १२ - केलिमरः उपसङ्ख्यानम् ।

२ - १२ - केलिमरः उपसङ्ख्यानम् कर्तव्यम् ।

३ - १२ - पचेलिमाः माषाः ।

४ - १२ - पक्तव्याः ।

५ - १२ - भिदेलिमाः सरलाः ।

६ - १२ - भेत्तव्याः ।

७ - १२ - वसेः तव्यत् कर्तरि णित् च ।

८ - १२ - वसेः तव्यत् कर्तरि वक्तव्यः ।

९ - १२ - णित् च असौ भवति इति वक्तव्यम् ।

१० - १२ - वसति इति वास्तव्यः ।

११ - १२ - तद्धितः वा । तद्धितः वा पुनः एषः भविष्यति ।

१२ - १२ - वास्तुनि भवः वास्तव्यः ।

१ - २० - अज्ग्रहणम् किमर्थम् ।

२ - २० - अजन्तात् यथा स्यात् ।

३ - २० - हलन्तात् मा भूत् इति ।

४ - २० - न एतत् अस्ति प्रयोजनम् ।

५ - २० - हलन्तात् ण्यत् विधीयते ।

६ - २० - सः बाधकः भविष्यति ।

७ - २० - यथा एव तर्हि ण्यत् यतम् बाधते एवम् तव्यादीन् अपि बाधेत ।

८ - २० - अज्ग्रहणे पुनः क्रियमाणे अजन्तात् यत् विधीयते हलन्तात् ण्यत् ।

९ - २० - एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च ।

१० - २० - उच्यन्ते च तव्यादयः ।

११ - २० - ते वचनात् भविष्यन्ति ।

१२ - २० - न एतत् अस्ति प्रयोजनम् ।

१३ - २० - वासरूपेण तव्यादयः भविष्यन्ति ।

१४ - २० - इदम् तर्हि प्रयोजनम् ।

१५ - २० - अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् ।

१६ - २० - लव्यम् पव्यम् ।

१७ - २० - आर्धधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये च वान्तादेशे कृते हलन्तात् इति ण्यत् प्राप्नोति ।

१८ - २० - तथा दित्स्यम् धित्स्यम् ।

१९ - २० - आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति ।

२० - २० - अज्ग्रहणसामर्थ्यात् यत् एव भवति ।

१ - २१ - यति जातेः उपसङ्ख्यानम् ।

२ - २१ - यति जातेः उपसङ्ख्यानम् कर्तव्यम् ।

३ - २१ - जन्यम् वत्सेन ।

४ - २१ - अत्यल्पम् इदम् उच्यते ।

५ - २१ - तकिशसिचतियतिजनीनाम् उपसङ्ख्यानम् इति वक्तव्यम् ।

६ - २१ - तकि तक्यम् शसि शस्यम् ।

७ - २१ - यति यत्यम् जनि जन्यम् ।

८ - २१ - हनः वा वध च ।

९ - २१ - हनः वा यत् वक्तव्यः वध इति अयम् च आदेशः वक्तव्यः ।

१० - २१ - वध्यः घात्यः ।

११ - २१ - तद्धितः वा ।

१२ - २१ - तद्धितः वा पुनः एषः भविष्यति ।

१३ - २१ - वधम् अर्हति वध्यः ।

१४ - २१ - यदि तद्धितः समासः न प्राप्नोति असिवध्यः , मुसलवध्यः इति ।

१५ - २१ - यदि पुनः सति साधनम् कृता इति वा पादहारकाद्यर्थम् इति समासः सिद्धः भवति ।

१६ - २१ - यदि पुनः असिवधशब्दात् उत्पत्तिः स्यात् ।

१७ - २१ - असिवधम् अर्हति इति ।

१८ - २१ - न एवम् शक्यम् ।

१९ - २१ - स्वरे हि दोषः स्यात् ।

२० - २१ - असिवध्यः एवम् स्वरः प्रसज्येत ।

२१ - २१ - असिवध्यः इति च इष्यते ।

१ - ५ - अनुपसर्गात् चरेः आङि च अगुरौ ।

२ - ५ - अनुपसर्गात् चरेः इति अत्र आङि च अगुरौ इति वक्तव्यम् ।

३ - ५ - आचर्यः देशः ।

४ - ५ - अगुरौ इति किमर्थम् ।

५ - ५ - आचार्यः उपनयमानः ।

१ - ३ - स्वामिनि अन्तोदात्तत्वम् च ।

२ - ३ - स्वामिनि अन्तोदात्तत्वम् च वक्तव्यम् ।

३ - ३ - आर्यः स्वामी ।

१ - १९ - सङ्गतम् इति किम् प्रत्युदाह्रियते ।

२ - १९ - अजरः कम्बलः ।

३ - १९ - अजरिता कम्बलः इति ।

४ - १९ - किम् पुनः कारणम् कर्तृसाधनः प्रत्युदाह्रियते ।

५ - १९ - न भावसाधनः प्रत्युदाहार्यः ।

६ - १९ - एवम् तर्हि अजर्यम् कर्तरि ।

७ - १९ - अजर्यम् कर्तरि इति वक्तव्यम् ।

८ - १९ - तत् तर्हि वक्तव्यम् ।

९ - १९ - न वक्तव्यम् ।

१० - १९ - गत्यर्थानाम् क्तः कर्तरि विधीयते ।

११ - १९ - तेन योगात् अजर्यम् कर्तरि भविष्यति ।

१२ - १९ - गत्यर्थानाम् वै क्तः कर्मणि अपि विधीयते ।

१३ - १९ - तेन योगात् अजर्यम् कर्मणि अपि प्राप्नोति ।

१४ - १९ - जीर्यतिः अकर्मकः ।

१५ - १९ - भावे तर्हि प्राप्नोति ।

१६ - १९ - सङ्गतग्रहणम् इदानीम् किमर्थम् स्यात् ।

१७ - १९ - कर्तृविशेषणम् सङ्गतग्रहणम् ।

१८ - १९ - सङ्गतम् चेत् कर्तृ भवति इति ।

१९ - १९ - तत् यथा हृषेः लोमसु इति लोमानि चेत् कर्तृ̄णि भवन्ति ।

१ - १० - वदः सुपि अनुपसर्गग्रहणम् ।

२ - १० - वदः सुपि अनुपसर्गग्रहणम् कर्तव्यम् ।

३ - १० - इह मा भूत् ।

४ - १० - प्रवाद्यम् अपवाद्यम् इति ।

५ - १० - तत् तर्हि वक्तव्यम् ।

६ - १० - न वक्तव्यम् ।

७ - १० - अनुपसर्गे इति वर्तते ।

८ - १० - एवम् तर्हि अन्वाचष्टे अनुपसर्गे इति वर्तते ।

९ - १० - न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति ।

१० - १० - एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् इति ।

१ - १३ - भावग्रहणम् किमर्थम् ।

२ - १३ - कर्मणि मा भूत् इति ।

३ - १३ - न एतत् अस्ति प्रयोजनम् ।

४ - १३ - भवतिः अयम् अकर्मः ।

५ - १३ - अकर्मकाः अपि वै धातवः सोपसर्गाः सकर्मकाः भवन्ति ।

६ - १३ - तेन अनुभव्यम् आमन्त्रणम् इति अत्र अपि प्राप्नोति ।

७ - १३ - एतत् अपि न अस्ति प्रयोजनम् ।

८ - १३ - अनुपसर्गे इति वर्तते ।

९ - १३ - उत्तरार्थम् तर्हि भावग्रहणम् कर्तव्यम् ।

१० - १३ - हनः त च भावे यथा स्यात् ।

११ - १३ - श्वहत्या वर्तते ।

१२ - १३ - क्व मा भूत् ।

१३ - १३ - श्वघात्यः वृषालः इति

१ - ८ - हनः तः चित् स्त्रियाम् छन्दसि ।

२ - ८ - हनः तः च इति अत्र चित् स्त्रियाम् छन्दसि वक्तव्यः ।

३ - ८ - ताम् भ्रूणहत्याम् निगृह्य अनुचरणम् ।

४ - ८ - अस्यै त्वाम् भ्रूणहत्यायै चतुर्थम् प्रतिगृहाण ।

५ - ८ - स्त्रियाम् इति किमर्थम् ।

६ - ८ - आघ्नते दस्युहत्याय ।

७ - ८ - छन्दसि इति किमर्थम् ।

८ - ८ - दस्युहत्या श्वहत्या वर्तते ।

१ - २५ - क्यप् इति वर्तमाने पुनः क्यब्ग्रहणम् किमर्थम् ।

२ - २५ - क्यप् एव यथा स्यात् ।

३ - २५ - अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

४ - २५ - किम् च अन्यत् प्राप्नोति ।

५ - २५ - ण्यत् ।

६ - २५ - ओः आवश्यके ण्यतः स्तोतेः क्यप् पूर्वविप्रतिषिद्धम् इति वक्ष्यति ।

७ - २५ - सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।

८ - २५ - अथ वा हनः तः चित् स्त्रियाम् छन्दसि चोदितः ।

९ - २५ - सः न वक्तव्यः भवति ।

१० - २५ - क्यब्विधौ वृञ्ग्रहणम् । क्यब्विधौ वृञ्ग्रहणम् कर्तव्यम् ।

११ - २५ - इह मा भूत् ।

१२ - २५ - वार्याः ऋत्विजः इति ।

१३ - २५ - अञ्जेः च उपसङ्ख्यानम् सञ्ज्ञायाम् ।

१४ - २५ - सञ्ज्ञायाम् अञ्जेः च उपसङ्ख्यानम् कर्तव्यम् ।

१५ - २५ - आज्यम् ।

१६ - २५ - यदि क्यप् वृद्धिः न प्राप्नोति ।

१७ - २५ - तस्मात् ण्यत् एषः ।

१८ - २५ - यदि ण्यत् उपधालोपः न प्राप्नोति ।

१९ - २५ - तस्मात् क्यप् एषः ।

२० - २५ - ननु च उक्तम् वृद्धिः न प्राप्नोति इति ।

२१ - २५ - आङ्पूर्वस्य एषः प्रयोगः भविष्यति ।

२२ - २५ - यदि एवम् अवग्रहः प्राप्नोति ।

२३ - २५ - न लक्षणेन पदकाराः अनुवर्त्याः ।

२४ - २५ - पद्कारैः नाम लक्षणम् अनुवर्त्यम् ।

२५ - २५ - यथालक्षणम् पदम् कर्तव्यम् ।

१ - ९ - दीर्घोच्चारणम् किमर्थम् न इ च खनः इति एव उच्येत ।

२ - ९ - का रूपसिद्धिः खेयम् ।

३ - ९ - आद्गुणेन सिद्धम् ।

४ - ९ - न सिध्यति ।

५ - ९ - षत्वतुकोः असिद्धः एकादेशः इति एकादेशस्य असिद्धत्वात् तुक् प्रसज्येत ।

६ - ९ - न एतत् अस्ति ।

७ - ९ - पदान्तपदाद्योः एकादेशः असिद्धः ।

८ - ९ - न च एषः पदान्तपदाद्योः एकादेशः ।

९ - ९ - तस्मात् इ च खनः इति एव वक्तव्यम् ।

१ - ४० - असञ्ज्ञायाम् इति किमर्थम् ।

२ - ४० - भार्या ।

३ - ४० - भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् ।

४ - ४० - भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः ।

५ - ४० - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

६ - ४० - किम् कारणम् ।

७ - ४० - अन्येन विहितत्वात् ।

८ - ४० - अन्येन लक्षणेन स्त्रियाम् क्यप् विधीयते ।

९ - ४० - सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः इति ।

१० - ४० - प्रतिषेधः इदानीम् किमर्थः स्यात् ।

११ - ४० - प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञाप्रतिषेधार्थः ।

१२ - ४० - प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञा अस्ति तदर्थः प्रतिषेधः स्यात् ।

१३ - ४० - भार्याः नाम क्षत्रियाः ।

१४ - ४० - सिद्धम् तु स्त्रियाम् सञ्ज्ञाप्रतिषेधात् ।

१५ - ४० - सिद्धम् एतत् ।

१६ - ४० - कथम् ।

१७ - ४० - स्त्रियाम् सञ्ज्ञाप्रतिषेधः वक्तव्यः ।

१८ - ४० - सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ततः न स्त्रियाम् भृञः इति ।

१९ - ४० - सिध्यति ।

२० - ४० - सूत्रम् तर्हि भिद्यते ।

२१ - ४० - यथान्यासम् एव अस्तु ।

२२ - ४० - ननु च उक्तम् भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् इति ।

२३ - ४० - न एषः दोषः ।

२४ - ४० - भावे इति तत्र अनुवर्तते ।

२५ - ४० - कर्मसाधनः च अयम् ।

२६ - ४० - अथ वा ये एते सञ्ज्ञायाम् विधीयन्ते तेषु न एवम् विज्ञायते सञ्ज्ञायाम् अभिधेयायाम् इति ।

२७ - ४० - किम् तर्हि ।

२८ - ४० - प्रत्ययान्तेन चेत् सञ्ज्ञा गम्यते इति ।

२९ - ४० - अपरः आह सञ्ज्ञायाम् पुंसि दृष्टत्वात् न ते भार्या प्रसिध्यति ।

३० - ४० - सञ्ज्ञायाम् पुंसि दृष्टत्वात् तव भार्याशब्दः न सिध्यति ।

३१ - ४० - स्त्रियाम् भावाधिकारः अस्ति तेन भार्या प्रसिध्यति ।

३२ - ४० - भावे इति तत्र वर्तते ।

३३ - ४० - कर्मसाधनः च अयम् ।

३४ - ४० - अथ वा बहुलम् कृत्याः सञ्ज्ञायाम् इति तत् स्मृतम् ।

३५ - ४० - अथ वा कृत्यल्युटः बहुलम् इति एवम् अत्र अपि ण्यत् भविष्यति ।

३६ - ४० - यथा यत्यम् जन्यम् यथा भित्तिः तथा एव सा ।

३७ - ४० - समः च बहुलम् ।

३८ - ४० - समः च बहुलम् उपसङ्ख्यानम् कर्तव्यम् ।

३९ - ४० - सम्भृत्याः एव सम्भाराः ।

४० - ४० - सम्भार्याः एव सम्भाराः ।

१ - १६ - सूर्यरुच्याव्यथ्याः कर्तरि ।

२ - १६ - सूर्य रुचि अव्यथ्य इति कर्तरि निपात्यन्ते ।

३ - १६ - किम् निपात्यते ।

४ - १६ - सूर्यः ।

५ - १६ - सूसर्तिभ्याम् सर्तेः उत्वम् सुवतेः वा रुडागमः । सरणात् वा सुवति वा कर्मणि इति सूर्यः ।

६ - १६ - रुच्य ।

७ - १६ - रोचते असौ रुच्यः ।

८ - १६ - न व्यथथे अव्यथ्यः ।

९ - १६ - कुप्यम् सञ्ज्ञायाम् ।

१० - १६ - कुप्यम् सञ्ज्ञायाम् इति वक्तव्यम् ।

११ - १६ - गोप्यम् अन्यत् ।

१२ - १६ - कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च ।

१३ - १६ - कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च इति वक्तव्यम् ।

१४ - १६ - कृष्टे पच्यन्ते स्वयम् एव ।

१५ - १६ - कृष्टपच्याः च मे अकृष्टपच्याः च मे ।

१६ - १६ - यः हि कृष्टे पक्तव्यः क्ष्टपाक्यः स भवति ।

१ - ६ - प्रत्यपिभ्याम् ग्रहेः छन्दसि ।

२ - ६ - प्रत्यपिभ्याम् ग्रहेः छन्दसि इति वक्तव्यम् ।

३ - ६ - मत्तस्य न प्रतिगृह्यम् ।

४ - ६ - अनृतम् हि मत्तः भवति ।

५ - ६ - तस्मात् न अपिगृह्यम् ।

६ - ६ - प्रतिग्राह्यम् अपिग्राह्यम् इति एव अन्यत्र ।

१ - ९ - कस्य अयम् अनुबन्धः ।

२ - ९ - प्रधानस्य ।

३ - ९ - यदि प्रधानस्य अमावस्या एवम् स्वरः प्रसज्येत ।

४ - ९ - अमावस्या इति च इष्यते ।

५ - ९ - तथा अमावास्याग्रहणेन अमावस्याग्रहणम् न प्राप्नोति ।

६ - ९ - एवम् तर्हि निपातनस्य ।

७ - ९ - यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति श्रोत्रियन् छन्दः अधीते इति व्यपवर्गाभावात् ञ्निति इति आद्युदात्तत्वम् न प्राप्नोति ।

८ - ९ - एवम् तर्हि अमावसोः अहम् ण्यतोः निपातयामि अवृद्धिताम् ।

९ - ९ - तथा एकवृत्तिता तयोः स्वरः च मे प्रसिध्यति ।

१ - २४ - निष्टर्क्य इति किम् निपात्यते ।

२ - २४ - निष्टर्क्ये कृतेः आद्यन्तविपर्ययः छन्दसि कृताद्यर्थः ।

३ - २४ - यथा कृतेः तर्कुः कसेः सिकताः हिंसेः सिंहः ।

४ - २४ - अपरः आह निष्टर्क्ये व्यत्ययम् विद्यात् निसः षत्वम् निपातनात् ।

५ - २४ - ण्यत् आयादेशः इति एतौ उपचाय्ये निपातितौ । निष्टर्क्यम् चिन्वीत पशुकामः ।

६ - २४ - ण्यत् एकस्मात् चतुर्भ्यः क्यपा- चतुर्भ्यः यतः विधिः ।

७ - २४ - ण्यत् एकस्मात् यशब्दः च द्वौ क्यपौ ण्यद्विधिः चतुः । ण्यत् एकस्मात् ।

८ - २४ - निष्टर्क्यः ।

९ - २४ - चतुर्भ्यः क्यप् ।

१० - २४ - देवहूयः प्रणीयः उन्नीयः उच्छिष्यः ।

११ - २४ - चतुर्भ्यः च यतः विधिः ।

१२ - २४ - मर्यः स्तर्या ध्वर्यः खन्यः ।

१३ - २४ - ण्यत् एकस्मात् ।

१४ - २४ - खान्यः ।

१५ - २४ - यशब्दः च ।

१६ - २४ - देवयज्या ।

१७ - २४ - द्वौ क्यपौ ।

१८ - २४ - आपृच्छ्यः प्रतिषीव्यः ।

१९ - २४ - ण्यद्विधिः चतुः ।

२० - २४ - ब्रह्मवाद्यः भाव्यः स्ताव्यः उपचाय्यपृडम् ।

२१ - २४ - उपपूर्वात् चिनोतेः आयादेशः निपात्यते ।

२२ - २४ - न हि ण्यता एव सिध्यति ।

२३ - २४ - हिरण्ये इति वक्तव्यम् ।

२४ - २४ - उपचेयपृडम् एव अन्यत्र ।

१ - ८ - पाणौ सृजेः ण्यद्विधिः ।

२ - ८ - पाणौ सृजेः ण्यत् विधेयः ।

३ - ८ - पाणिसर्ग्या रज्जुः ।

४ - ८ - समवपूर्वात् च ।

५ - ८ - समवपूर्वात् च इति वक्तव्यम् ।

६ - ८ - समवसर्ग्यः ।

७ - ८ - लपिदमिभ्याम् च. लपिदमिभ्याम् च इति वक्तव्यम् ।

८ - ८ - अपलप्यम् अवदाम्यम् ।

१ - १२ - कथम् इदम् विज्ञायते ।

२ - १२ - आवश्यके उपपदे आहोस्वित् ध्योत्ये इति ।

३ - १२ - कः च अत्र विशेषः ।

४ - १२ - आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् ।

५ - १२ - आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् कर्तव्यम् ।

६ - १२ - लाव्यम् पाव्यम् ।

७ - १२ - अस्तु तर्हि द्योत्ये ।

८ - १२ - द्योत्ये इति चेत् स्वरसमासानुपपत्तिः ।

९ - १२ - द्योत्ये इति चेत् स्वरसमासानुपपत्तिः ।

१० - १२ - आवश्यलाव्यम् आवश्यपाव्यम् ।

११ - १२ - न एषः दोषः ।

१२ - १२ - मयूरव्यंसकादित्वात् समासः विश्पष्टादिवत् स्वरः भविष्यति ।

१ - १२ - ओः आवश्यके ण्यतः स्तौतेः क्यपा- पूर्वविप्रतिषिद्धम् । ओः आवश्यके ण्यतः स्तौतेः क्यप् भवति पूर्वविप्रतिष्धेन ।

२ - १२ - ओः आवश्यके ण्यत् भवति इति अस्य अवकाशः ।

३ - १२ - अवश्यलाव्यम् अवश्यपाव्यम् ।

४ - १२ - क्यपः अवकाशः ।

५ - १२ - स्तुत्यः ।

६ - १२ - इह उभयम् प्राप्नोति ।

७ - १२ - अवश्यस्तुत्यः ।

८ - १२ - क्यप् भवति पूर्वविप्रतिष्धेन ।

९ - १२ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

१० - १२ - न वक्तव्यः ।

११ - १२ - उक्तम् तत्र क्यप् इति वर्तमाने पुनः क्यब्ग्रहणस्य प्रयोजनम् क्यप् एव यथा स्यात् ।

१२ - १२ - अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

१ - ५ - दक्षिणाग्नौ इति वक्तव्यम् ।

२ - ५ - आनेयः अन्यः ।

३ - ५ - आनाय्यः अनित्यः इति चेत् दक्षिणाग्नौ कृतम् भवेत् ।

४ - ५ - एकयोनौ तु तम् विद्यात् ।

५ - ५ - आनेयः हि अन्यथा भवेत् ।

१ - ३ - पाय्यनिकाय्ययोः किम् निपात्यते ।

२ - ३ - पाय्यनिकाय्ययोः आदिपत्वकत्वनिपातनम् । पाय्यनिकाय्ययोः आदिपत्वम् आदिकत्वम् च निपात्यते ।

३ - ३ - मेयम् निचेयम् इति एव अन्यत्र ।

१ - ३ - कुण्डपाय्ये यद्विधिः ।

२ - ३ - कुण्डपाय्ये यत् विधेयः ।

३ - ३ - कुण्डपाय्यः क्रतुः ।

१ - १८ - समूह्यः इति अनर्थकम् वचनम् सामान्येन कृतत्वात् ।

२ - १८ - समूह्यः इति वचनम् अनर्थकम् ।

३ - १८ - किम् कारणम् ।

४ - १८ - सामान्येन कृतत्वात् ।

५ - १८ - सामान्येन एव ण्यत् भविष्यति ऋहलोः ण्यत् इति ।

६ - १८ - वह्यर्थम् तर्हि निपातनम् कर्तव्यम् ।

७ - १८ - वहेः ण्यत् यथा स्यात् ।

८ - १८ - वह्यर्थम् इति चेत् ऊहेः तदर्थत्वात् सिद्धम् ।

९ - १८ - ऊहिः अपि वह्यर्थे वर्तते ।

१० - १८ - कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।

११ - १८ - कथम् ऊहिः वह्यर्थे वर्तते ।

१२ - १८ - बह्वर्थाः अपि धातवः भवन्ति इति ।

१३ - १८ - अस्ति पुनः क्व चित् अन्यत्र अपि ऊहिः वह्यर्थे वर्तते ।

१४ - १८ - अस्ति इति आह ।

१५ - १८ - ऊहिविग्रहात् च ब्राह्मणे सिद्धम् । ऊहिविग्रहात् च ब्राह्मणे सिद्धम् एतत् ।

१६ - १८ - समूह्यम् चिन्वीत पशुकामः ।

१७ - १८ - पशवः वै पुरीषम् ।

१८ - १८ - पशून् एव अस्मै तत् समूहति ।

१ - ३ - अग्निचित्या भावे अन्तोदात्तः ।

२ - ३ - अग्निचित्या इति भावे अन्तोदात्तः ।

३ - ३ - अग्निचयनम् एव अग्निचित्या ।

१ - १८ - किमर्थः चकारः ।

२ - १८ - स्वरार्थः ।

३ - १८ - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

४ - १८ - न एतत् अस्ति प्रयोजनम् ।

५ - १८ - एकाच् अयम् ।

६ - १८ - तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।

७ - १८ - प्रत्ययस्वरेण एव सिद्धम् ।

८ - १८ - विशेषणार्थः तर्हि ।

९ - १८ - क्व विशेषणार्थेन अर्थः अप्तृन्तृच् इति ।

१० - १८ - तृ इति उच्यमाने मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत ।

११ - १८ - स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति ।

१२ - १८ - एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति ।

१३ - १८ - सामान्यग्रहणाविघातार्थः तर्हि ।

१४ - १८ - क्व सामान्यग्रहणाविघातार्थेन अर्थः ।

१५ - १८ - अत्र एव ।

१६ - १८ - यत् एतत् तृन्तृचोः ग्रहणम् एतत् तृ इति वक्ष्यामि ।

१७ - १८ - यदि तृ इचि उच्यते मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत ।

१८ - १८ - स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति ।

१ - २२ - ण्वुलि सकर्मकग्रहणम् ।

२ - २२ - ण्वुलि सकर्मकग्रहणम् कर्तव्यम् ।

३ - २२ - इह मा भूत् ।

४ - २२ - आसिता शयिता इति ।

५ - २२ - न वा धातुमात्रात् दर्शनात् ण्वुलः । न वा वक्तव्यम् ।

६ - २२ - किम् कारणम् ।

७ - २२ - धातुमात्रात् ण्वुल् दृश्यते ।

८ - २२ - इमे अस्य आसकाः इमे ।

९ - २२ - अस्य शायकाः ।

१० - २२ - उत्थिताः आसका वैश्रवणस्य इति ।

११ - २२ - तृजादिषु वर्तमानकालोपादानम् अध्यायकवेदाध्यायकार्थम् ।

१२ - २२ - तृजादिषु वर्तमानकालोपादानम् कर्तव्यम् ।

१३ - २२ - किम् कारणम् ।

१४ - २२ - अध्यायकवेदाध्यायकार्थम् ।

१५ - २२ - अध्यायकः वेदाध्यायः ।

१६ - २२ - अधीतवति अध्येष्यमाणे वा मा भूत् ।

१७ - २२ - न वा कालमात्रे दर्शनात् अन्येषाम् ।

१८ - २२ - न वा वक्तव्यम् ।

१९ - २२ - किम् कारणम् ।

२० - २२ - कालमात्रे दर्शनात् अन्येषाम् ।

२१ - २२ - कालमात्रे हि अन्ये प्रत्ययाः दृश्यन्ते ।

२२ - २२ - चर्चापारः शमनीपारः ।

१ - १२ - अच् अपि सर्वधातुभ्यः ।

२ - १२ - अच् अपि सर्वधातुभ्यः वक्तव्यः ।

३ - १२ - इह अपि यथा स्यात् ।

४ - १२ - भवः शर्वः ।

५ - १२ - न तर्हि इदानीम् इदम् पचाद्यनुक्रमणम् कर्तव्यम् ।

६ - १२ - कर्तव्यम् च ।

७ - १२ - किम् प्रयोजनम् ।

८ - १२ - पचाद्यनुक्रमणम् अनुबन्धासञ्जार्थम् अपवादबाधनार्थम् च ।

९ - १२ - अनुबन्धासञ्जनार्थम् तावत् ।

१० - १२ - नदट् नदी चोरट् चोरी ।

११ - १२ - अपवादबाधनार्थम् ।

१२ - १२ - जारभरा श्वपचा इति ।

१ - ११ - इगुपधेभ्यः उपसर्गे कविधिः मेषाद्यर्थः ।इगुपधेभ्यः उपसर्गे कः विधेयः ।

२ - ११ - किम् प्रयोजनम् ।

३ - ११ - मेषाद्यर्थः ।

४ - ११ - मेषः देवः सेवः ।

५ - ११ - न वा बुधादीनाम् दर्शनात् अनुपसर्गे अपि ।

६ - ११ - न वा वक्तव्यः ।

७ - ११ - किम् कारणम् ।

८ - ११ - बुधादीनाम् अनुपसर्गे अपि कः दृश्यते ।

९ - ११ - बुधः भिदः युधः सिवः इति ।

१० - ११ - कथम् मेषः देवः सेवः इति ।

११ - ११ - पचाचिषु पाठः करिष्यते ।

१ - ७ - जिघ्रः सञ्ज्ञायाम् प्रतिषेधः ।

२ - ७ - जिघ्रः सञ्ज्ञायाम् प्रतिषेधः वक्तव्यः ।

३ - ७ - व्याजिघ्रति इति व्याघ्रः ।

४ - ७ - इह के चित् शस्य एव प्रतिषेधम् आहुः के चित् जिघ्रभावस्य ।

५ - ७ - किम् पुनः अत्र न्याय्यम् ।

६ - ७ - शस्य एव प्रतिषेधः न्याय्यः ।

७ - ७ - जिघ्रभावे हि प्रतिषिद्धे केन शे आकारलोपः स्यात् ।

१ - ९ - अनुपसर्गात् नौ लिम्पेः ।

२ - ९ - अनुपसर्गात् नौ लिम्पेः इति वक्तव्यम् ।

३ - ९ - निलिम्पाः नाम देवाः ।

४ - ९ - गवि च विन्देः सञ्ज्ञायाम् ।

५ - ९ - गवि च उपपदे विन्देः सञ्ज्ञायाम् उपसङ्ख्यानम् कर्तव्यम् ।

६ - ९ - गोविन्दः इति ।

७ - ९ - अत्यल्पम् इदम् उच्यते गवि इति ।

८ - ९ - गवादिषु इति वक्तव्यम् ।

९ - ९ - गोविन्दः अरविन्दः ।

१ - २ - तनोतेः णः उपसङ्ख्यानम् । तनोतेः णः उपसङ्ख्यानम् कर्तव्यम् ।

२ - २ - अवतनोति इति अवतानः ।

१ - ३ - नृतिखनिरञ्जिभ्यः इति वक्तव्यम् ।

२ - ३ - इह मा भूत् ।

३ - ३ - ह्वायकः इति ।

१ - ४ - प्रुसृल्वः साधुकारिणि वुन्विधानम् ।

२ - ४ - प्रुसृल्वः साधुकारिणि वुन् विधेयः ।

३ - ४ - सकृत् अपि यः सुष्ठु करोति तत्र यथा स्यात् ।

४ - ४ - बहुशः यः दुष्ठु करोति तत्र मा भूत् ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP