संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|
काव्यप्रकाश

काव्यप्रकाश

काव्यप्रकाश आचार्य मम्मट द्वारा रचित काव्य की परख कैसे की जाय इस विषय पर उदाहरण सहित लिखा गया एक विस्तृत एवं अत्यंत महत्त्वपूर्ण एवं प्रामाणिक ग्रंथ माना जाता है।


ॐ नमः शिवाय
काव्यप्रकाशकारिकावली
नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।
नवरसरुचितां निर्मितिमादधती भारती कवेर्जयति ॥१॥

काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥२॥

शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥३॥

तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि ।
इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ॥४॥

अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् ।
शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥५॥

स्याद्वाचको लाक्षणिकः शब्दो ऽत्र व्यञ्जकस्त्रिधा ।
वाच्यादयस्तदर्थाः स्युस्तात्पर्यार्थो ऽपि केषुचित् ॥६॥

सर्वेषां प्रायशो ऽर्थानां व्यञ्जकत्वमपीष्यते ।
साक्षात्संकेतितं यो ऽर्थमभिधत्ते स व्=अचकः ॥७॥

सङ्केतितश्चतुर्भेदो जात्यादिर्जातिरेव वा ।
स मुख्यो ऽर्थस्तत्र मुख्यो व्यापारो ऽस्याभिधोच्यते ॥८॥

मुख्यार्थबाधे तद्योगे रूढितो ऽथ प्रयोजनात् ।
अन्यो ऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥९॥

स्वासिद्धये पराक्षेपः परार्थं स्वसमर्पणम् ।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥१०॥

सारोपान्या तु यत्रोक्तौ विष्यी विषयस्तथा ।
विष्यय्यन्तःकृतेन्यस्मिन् सा स्यात्साध्यवसानिका ॥११॥

भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा ।
गौणौ शुद्धौ च विज्ञेयौ लक्षणा तेन षड्विधा ॥१२॥

व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने ।
तच्च गूढमगूढं वा तदेषा कथिता त्रिधा ॥१३॥

तद्भूलक्षिणिकस्तत्र व्यापारो व्यञ्जनात्मकः ।
यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥१४॥

फले शब्दैकगम्ये ऽत्र व्यञ्जनान्नापरा क्रिया ।
नाभिधा समयाभावाद्धेत्वभावान्न लक्षणा ॥१५॥

लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो ।
न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः ॥१६॥

एवमप्यनवस्था स्याद् या मूलक्षयकारिणी ।
प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥१७॥

ज्ञानस्य विष्यो ह्यन्यः फलमन्यदुदाहृतम् ।
विशिष्टे लक्षणा नैवं विशेषाः स्युस्तु लक्षिते ॥१८॥

अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥१९॥

तद्युक्तो व्यञ्जकः शब्दो यत्सो ऽर्थान्तरयुक् तथा ।
अर्थो ऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥२०॥

अर्थाः प्रोक्ताः पुरा तेषामर्ह्तव्यञ्जकतोच्यते ।
वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः ॥२१॥

प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम् ।
यो ऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥२२॥

शब्दप्रमाणवेद्योर्ऽर्थो व्यनक्त्यर्थान्तरं यतः ।
अर्थस्य व्य्ञ्जकत्वे तच्छब्दस्य सहकारिता ॥२३॥

अविवक्षितवाच्यो तस्तत्र वाच्यं भवेद्ध्वनौ ।
अर्थान्तरे सङ्क्रिमितमत्यन्तं वा तिरस्कृतम् ॥२४॥

विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः ।
पो ऽप्यलक्ष्यक्रमव्यञ्ग्यो लक्ष्यव्यङ्ग्यक्रमः परः ॥२५॥

रसभावतदाभावभावशान्त्यादिरक्रमः ।
भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ॥२६॥

कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥२७॥

विभावा अबुभावास्तत् कथ्यन्ते व्यभिचारिणः ।
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥२८॥

सृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥२९॥

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥३०॥

निर्वेदग्लानिशङ्काख्यास्तथासूया मदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥३१॥

व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥३२॥

सुप्तं प्रबोधोमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥३३॥

त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रिंस्त्रिशदमी भावाः समाख्यातास्तु नामतः ॥३४॥

निर्वेदस्थायिभावो ऽस्ति शान्तो ऽपि नवमो रसः ।
रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ॥३५॥

भावः प्रोक्तस्तदाभासा अनौचित्यप्रवर्त्तिताः ।
भावस्य शान्तिरुदयः सन्धिः शबलता तथा ॥३६॥

मुख्ये रसे ऽपि तेङ्गित्वं प्राप्नुवन्ति कदाचन ।
अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ॥३७॥

शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः ।
अलङ्कारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते ॥३८॥

प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ।
अर्थशक्त्युद्भवो ऽप्यर्थो व्यञ्जकः संभवी स्वतः ॥३९॥

प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा ।
वस्तु वालङ्कृतिर्वेत्य् षड्भेदो ऽसौ व्यनक्ति यत् ॥४०॥

वस्त्वलङ्कारमथवा तेनायं द्वादशात्मकः ।
शब्दार्थोभयभूरेको भेदा अष्टादशास्य तत् ॥४१॥

रसादीनामनन्तत्वाद्भेद एको हि गण्यते ।
वाक्ये द्व्युत्थः पदे ऽप्यन्ये प्रबन्धे ऽप्यर्थशक्तिभूः ॥४२॥

पदैकदेशरचनावर्णेष्वपि रसादयः ।
भेदास्तदेकपञ्चाशत्तेषां चान्योन्ययोजने ॥४३॥

संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया ।
वेदखाब्धिवियच्चन्द्राः शरेषुयुगखेन्दवः ॥४४॥

अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गम्स्फुटम् ।
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥४५॥

व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः ।
एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत् ॥४६॥

सालङ्कारैर्ध्वनेस्तैश्च योगः ससृष्टिसङ्करैः ।
अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी ॥४७॥

शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम् ।
गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः ॥४८॥

मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः ।
उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥४९॥

दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् ।
निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाश्लीलम् ॥५०॥

सन्दिग्धमप्रत्=इतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् ।
अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥५१॥

अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् ।
वाक्ये ऽपि दोषाः सन्त्येते पदस्यांशे ऽपि केचन ॥५२॥

प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम् ।
न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ॥५३॥

अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् ।
अपदस्थपदसमासं संकीर्णं गर्भितं प्रसिद्धिहतम् ॥५४॥

भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा ।
अर्थोपुष्टः कष्टो व्याहतपुनरेक्तदुष्क्रमग्राम्याः ॥५५॥

संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च ।
अनवीकृतः सनियमानियमविशेषा विशेषपरिवृत्ताः ॥५६॥

साकाङ्क्षोपदयुक्तः सहचरभिन्नः प्रकाशितविरुद्धः ।
विध्यनुवादायुक्तत्यक्तपुनःस्वीकृतोश्लीलः ॥५७॥

कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः ।
संनिधानादिबोधार्थं स्थितेष्वेतत्समर्थनम् ॥५८॥

ख्याते ऽर्थे निर्हेतोरदुष्टतानुक्रणे तु सर्वेषाम् ।
वक्त्राद्यौचित्यवशाद्दोषो ऽपि गुणः क्वचित्क्वचिन्नोभौ ॥५९॥

व्यभिचारिरसस्थायिभावानां शब्दवाच्यता ।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥६०॥

प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः ।
अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः ॥६१॥

अङ्गिनोननुसंधानं प्रकृतीनां विपर्ययः ।
अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः ॥६२॥

न दोषः स्वपदेनोक्तावपि संचारिणः क्वचिद् ।
संचार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥६३॥

आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः ।
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥६४॥

स्मर्यमाणो विरुद्धो ऽपि साम्येनाथ विवक्षितः ।
अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥६५॥

ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥६६॥

उपकुर्वन्ति तं सन्तं येङ्गद्वारेण जातुचित् ।
हारादिवदलङ्कारास्तेनप्रासोपमादयः ॥६७॥

माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश ।
आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ॥६८॥

करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ।
दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥६९॥

बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च ।
शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः ॥७०॥

व्याप्नोत्यन्यत् प्रसादो ऽसौ सर्वत्र विहितस्थितिः ।
गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥७१॥

केचिदन्तर्भवब्त्येषु दोषत्यागात्परे श्रिताः ।
अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥७२॥

तेन नार्थगुणा वाच्याः प्रोक्ताः शब्दगुणाश्च ये ।
वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ॥७३॥

मुर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू ।
आवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ॥७४॥

योग आद्यतृतीयाम्यामन्त्ययो रेण तुल्ययोः ।
टादिः शषौ वृत्तिदैर्घ्यं गुम्फ उद्धृत ओजसि ॥७५॥

श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत् ।
साधारणः समग्राणां स प्रसादो गुणो मतः ॥७६॥

वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् ।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥७७॥

यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते ।
श्लेषेण काक्वा वा ज्ञेया सा वक्त्रोक्तिस्तथा द्विधा ॥७८॥

वर्णसाम्यमनुप्रासश् छेकवृत्तिगतो द्विधा ।
सो ऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥७९॥

माधुर्यव्य्ञ्जकैर्वर्णैरुपनागरिकोच्यते ।
ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः ॥८०॥

केषाञ्चिदेता वैदर्भीप्रमुखा रीतयो मताः ।
शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥८१॥

पदानां सः पदस्यापि वृत्तावन्यत्र तत्र वा ।
नाम्नः स वृत्त्यवृत्त्योश्च तदेवं पञ्चधा मतः ॥८२॥

अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः ।
यमकं पादतद्भागवृत्ति तद्यात्यनेकताम् ॥८३॥

वाच्यभेदेन भिन्ना तद् युगपद्भाषणस्पृशः ।
श्लिष्यन्ति शब्दाः श्लेषोसावक्षरादिभिरष्टधा ॥८४॥

भेदाभावात्प्रकृत्यादेर्भेदो ऽपि नवमो भवेत् ।
तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ॥८५॥

पुनरेक्तवदाभासो विभिन्नाकारशब्दगा ।
एकार्थतेव शब्दस्य तथा शब्दार्थयोरयम् ॥८६॥

साधर्म्यमुपमा भेदे पूर्णा लुप्ता च साग्रिमा ।
श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥८७॥

तद्वद् धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः ।
उपमानानुपादाने वाक्यगाथ समासगा ॥८८॥

वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि ।
कर्मकर्त्रोर्णमुल्येतद्द्विलोपे क्विप्समासगा ॥८९॥

धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते ।
क्यचि वाद्युपमेयासे त्रिलोपे च समासगा ॥९०॥

उपमानोपमेयत्वे एकस्यैवैकवाक्यगे ।
अनन्वयो विपर्यास उपमेयोपमा तयोः ॥९१॥

संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ।
ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥९२॥

तद्रूपकमभेदो य उपमानोपमेययोः ।
समस्तवस्तुचिष्यं श्रौता आरोपिता यदा ॥९३॥

श्रौता आर्थश्च ते यस्मिन्नेकदेशशविवर्ति तत् ।
साङ्गमेतन् निरङ्गं तु शुद्धं माला तु पूर्ववत् ॥९४॥

नियतारोपणोपायः स्यादारोपः परस्य यः ।
तत्परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥९५॥

प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः ।
श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत् ॥९६॥

परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिर्निदर्शना ।
अभवन्वस्तुसंबन्ध उपमापरिकल्पकः ॥९७॥

स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापरा ।
अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ॥९८॥

कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥९९॥

निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् ।
प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥१००॥

कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः ।
विज्ञेयातिशयोक्तिः सा प्रतिवस्तूपमा तु सा ॥१०१॥

सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः ।
दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥१०२॥

सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥१०३॥

मालादीपकमाद्यं चेत्यथोत्तरगुणावहम् ।
नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ॥१०४॥

उपमानाद्यदन्यस्य व्यतिरेकः स एव सः ।
हेत्वोर्कुतावनुक्तीनां त्रये साम्ये निवेदिते ॥१०५॥

शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् ।
निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥१०६॥

वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ।
क्रियायाः प्रतिषेधे ऽपि फलव्यक्तिर्विभावना ॥१०७॥

विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।
यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥१०८॥

सामान्यं वा विशेषो वा तदन्येन समर्थ्यते ।
यत्तु सो ऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥१०९॥

विरोधः सोविरोधे ऽपि विरुद्धत्वेन यद्वचः ।
जातिश्चतुर्भिजात्याद्यैर्विरुद्धा स्याद्गुणैस्त्रिभिः ॥११०॥

क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश ।
स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥१११॥

व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा ।
सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥११२॥

विनोक्तिः सा बिनान्येन यत्रान्यः सन्न नेतरः ।
परिवृत्तिर्विनिमयो यो ऽर्थानां स्यात्समासमैः ॥११३॥

प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः ।
तद्भाविकं काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥११४॥

पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः ।
उदात्तं वस्तुनः संपत् महतां चोपलक्षणम् ॥११५॥

तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत् ।
समुच्चयो ऽसौ स त्वन्यो युगपद् या गुणक्रियाः ॥११६॥

एकं क्रमेणानेकस्मिन् पर्यायो ऽन्यस्ततो ऽन्यथा ।
अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः ॥११७॥

विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः ।
व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ॥११८॥

किञ्चित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते ।
तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥११९॥

यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता ।
तदा कारणमाला स्यात् क्रियया तु परस्परम् ॥१२०॥

वस्तुनोर्जनने ऽन्योन्यमुत्तरश्रुतिमात्रतः ।
प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ॥१२१॥

असकृद् यदसंभाव्यमुत्तरं स्यात् तदुत्तरम् ।
कुतो ऽपि लक्षितः सूक्ष्मो ऽप्यर्थो ऽन्यस्मै प्रकाश्यते ॥१२२॥

धर्मेण केनचिद् यत्र तत् सूक्ष्मं परिचक्षते ।
उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ॥१२३॥

भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः ।
युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः ॥१२४॥

समाधिः सुकरं कार्यं कारणान्तरयोगतः ।
समं योग्यतया योगो यदि संभावितः क्वचित् ॥१२५॥

क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात् ।
कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् ॥१२६॥

गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये ।
क्रमेण च विरुद्धे यत् स एष विषमो मतः ॥१२७॥

महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् ।
आश्रयाश्रयिणौ स्यातां तनुत्वे ऽप्यधिकं तु तत् ॥१२८॥

प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया ।
या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥१२९॥

समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते ।
निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥१३०॥

स्थाप्यतेपोह्यते वापि यथापूर्वं परं परम् ।
विशेषणतया यत्र वस्तु सैकावली द्विधा ॥१३१॥

यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः ।
स्मरणं भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने ॥१३२॥

आक्षेप उपमानस्य प्रतीपमुपमेयता ।
तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥१३३॥

प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया ।
ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥१३४॥

विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः ।
एकात्मा यगपद्दृत्तिरेकस्यानेकगोचरा ॥१३५॥

अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः ।
तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥१३६॥

स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् ।
वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥१३७॥

तद्रूपाननुहारश्चेदस्य तत् स्यादतद्गुणः ।
यद्यथा साधितं केनाप्यपरेण तदन्यथा ॥१३८॥

तथैव यद्विधीयेत स व्याघात इति स्मृतिः ।
सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥१३९॥

अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः ।
एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥१४०॥

स्फुटमेकत्र विषये शब्दार्थालङ्कृतिद्वयम् ।
व्यवस्थितं च तेनासौ त्रिरूपः परिकीर्तितः ॥१४१॥

एषां दोषा यथायोगं संभवन्तो ऽपि केचन ।
उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ॥१४२॥     
 

इति काव्यप्रकाशीयकारिकावली समाप्ता

N/A

References :

काव्यप्रकाश
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP