पञ्चमः अध्यायः - द्वितीयम् आह्निकम्

शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत.


२.१ - प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्त कालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो हेत्वा भासाश्च निग्रहस्थानानि

(निग्रहस्थान-उद्देश-सूत्रम्)
(निग्रहस्थानपञ्चकप्रकरणम्(२-६)

२.२ - प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः
(प्रतिज्ञाहानिः लक्षण-सूत्रम्)

२.३ - प्रतिज्ञातार्थप्रतिषेधधर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तर.
(प्रतिज्ञान्तर-लक्षण-सूत्रम्)

२.४ - प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः
(प्रतिज्ञाविरोधः लक्षण-सूत्रम्)

२.५ - पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः
(प्रतिज्ञासन्न्यासः लक्षण-सूत्रम्)

२.६ - अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्
(हेत्वन्तरम् लक्षण-सूत्रम्)
(निग्रहस्थानचतुष्कप्रकरणम्(७-१०)

२.७ - प्रकृतादर्थादप्रतिसम्ब्द्धार्थमर्थान्तरम्
(अर्थान्तरम् लक्षण-सूत्रम्)

२.८ - वर्णक्रमनिर्देशवन्निरर्थकम्
(निरर्थकम् लक्षण-सूत्रम्)

२.९ - परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम्
(अविज्ञातार्थम् लक्षण-सूत्रम्)

२.१० - पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम्
(अपार्थकम् लक्षण-सूत्रम्)
(निग्रहस्थानत्रिकप्रकरणम्(११-१३)

२.११ - अवयवविपर्यासवचनमप्राप्तकालम्
(अप्राप्तकालम् लक्षण-सूत्रम्)

२.१२ - हीनमन्यतमेनाप्यवयवेन न्यूनम्
(न्यूनम् लक्षण-सूत्रम्)

२.१३ - हेतूदाहरणाधिकम् अधिकम्
(अधिकम् लक्षण-सूत्रम्)
(पुनरुक्तिनिग्रहस्थानप्रकरणम्(१४-१६)

२.१४ - शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्र अनुवादात्
(पुनरुक्तम् लक्षण-सूत्रम्)

२.१५ - अनुवादे तु अपुनरुक्तं शब्दाभ्यासात् अर्थविशेषोपपत्तेः
(पुनरुक्तम् लक्षणापवादसूत्रम्)

२.१६ - अर्थात् आपन्नस्य स्वशब्देन पुनर्वचनम्
(पुनरुक्तम् लक्षणापवादसूत्रम्)
(उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम्(१७-२०)

२.१७ - विज्ञातस्य परिषदा त्रिः अभिहितस्य अपि अप्रत्युच्चारणम् अननुभाषणम्
(अननुभाषणम् लक्षण-सूत्रम्)

२.१८ - अविज्ञातम् च अज्ञानम्
(अज्ञानम् लक्षण-सूत्रम्)

२.१९ - उत्तरस्य अप्रतिपत्तिः अप्रतिभा
(अप्रतिभा लक्षण-सूत्रम्)

२.२० - कार्यव्यासङ्गात् कथाविच्छेदः विक्षेपः
(विक्षेपः लक्षण-सूत्रम्)
(मतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम्(२१-२३)

२.२१ - स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गः मतानुज्ञा
(मतानुज्ञा लक्षण-सूत्रम्)

२.२२ - निग्रहस्थानप्राप्तस्य अनिग्रहः पर्यनुयोज्योपेक्षणम्
(पर्यनुयोज्योपेक्षणम् लक्षण-सूत्रम्)

२.२३ - अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः
(निरनुयोज्यानुयोग लक्षण-सूत्रम्)
(कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम्-२४-२५)

२.२४ - सिद्धान्तम् अभ्युपेत्य अनियमात् कथाप्रसङ्गः अपसिद्धान्तः
(अपसिद्धान्त लक्षण-सूत्रम्)

२.२५ - हेत्वाभासाः च यथोक्ताः
(हेत्वाभास निरूपणम्)
इति न्यायसूत्रे पञ्चमाध्यायस्य द्वितीयम् आह्निकम्समाप्तश्चायम् पञ्चमाध्यायः

न्यायदर्शनं समाप्तम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP