उत्तरस्थान - अध्याय १२

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


सिरानुसारिणि मले प्रथमं पटलं श्रिते ।
अ-व्यक्तम् ईक्षते रूपं व्यक्तम् अप्य् अ-निमित्ततः ॥१॥

१२.१ प्रथमं पटलं गते १२.१ अ-व्यक्तम् ईक्ष्यते रूपं प्राप्ते द्वितीयं पटलं अ-भूतम् अपि पश्यति ।
भूतं तु यत्नाआसन्नं दूरे सूक्ष्मं च नेक्षते ॥२॥

१२.२ दूरं सूक्ष्मं च नेक्षते दूरान्तिक-स्थं रूपं च विपर्यासेन मन्यते ।
दोषे मण्डल-संस्थाने मण्डलानीव पश्यति ॥३॥

द्वि-धैकं दृष्टि-मध्य-स्थे बहु-धा बहु-धा-स्थिते ।
दृष्टेर् अभ्यन्तर-गते ह्रस्व-वृद्ध-विपर्ययम् ॥४॥

१२.४ ह्रस्व-दीर्घ-विपर्ययम् १२.४ ह्रस्वं बहु विपर्ययम् नान्तिक-स्थम् अधः-संस्थे दूर-गं नोपरि स्थिते ।
पार्श्वे पश्येन् न पार्श्व-स्थे तिमिराख्यो ऽयम् आमयः ॥५॥

प्राप्नोति काच-तां दोषे तृतीय-पटलाश्रिते ।
तेनोर्ध्वम् ईक्षते नाधस् तनु-चैलावृतोपमम् ॥६॥

१२.६ तेनोर्ध्वम् ईक्ष्यते नाधस् यथा-वर्णं च रज्येत दृष्टिर् हीयेत च क्रमात् ।
तथाप्य् उपेक्षमाणस्य चतुर्थं पटलं गतः ॥७॥

१२.७ यथा-दोषं च रज्येत लिङ्ग-नाशं मलः कुर्वंश् छादयेदृष्टि-मण्डलम् ।
तत्र वातेन तिमिरे व्याविद्धम् इव पश्यति ॥८॥

चलाविलारुणाभासं प्रसन्नं चेक्षते मुहुः ।
जालानि केशान् मशकान् रश्मींश् चोपेक्षिते ऽत्र च ॥९॥

१२.९ धूमाविलारुणाभासं १२.९ प्रसन्नं वीक्षते मुहुः १२.९ रश्मींश् चोपेक्षिते ऽत्र तु काची-भूते दृग् अरुणा पश्यत्य् आस्यम् अ-नासिकम् ।
चन्द्र-दीपाद्य्-अनेक-त्वं वक्रम् ऋज्व् अपि मन्यते ॥१०॥

वृद्धः काचो दृशं कुर्यारजो-धूमावृताम् इव ।
स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हत-दर्शनाम् ॥११॥

१२.११ स्फुटारुणाभां विस्तीर्णां स लिङ्ग-नाशो वाते तु संकोचयति दृक्-सिराः ।
दृङ्-मण्डलं विशत्य् अन्तर् गम्भीरा दृग् असौ स्मृता ॥१२॥

पित्त-जे तिमिरे विद्युत्-खद्योत-द्योत-दीपितम् ।
शिखि-तित्तिरि-पत्त्राभं प्रायो नीलं च पश्यति ॥१३॥

१२.१३ -खद्योतोद्योत-दीपितम् १२.१३ शिखि-तित्तिरि-पिच्छाभं काचे दृग् काच-नीलाभा तादृग् एव च पश्यति ।
अर्केन्दु-परिवेषाग्नि-मरीचीन्द्र-धनूंषि च ॥१४॥

१२.१४ काचे दृग् कांस्य-नीलाभा भृङ्ग-नीला निर्-आलोका दृक् स्निग्धा लिङ्ग-नाशतः ।
दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्व-दर्शिनी ॥१५॥

भवेत् पित्त-विदग्धाख्या पीता पीताभ-दर्शना ।
कफेन तिमिरे प्रायः स्निग्धं श्वेतं च पश्यति ॥१६॥

१२.१६ पीता पीताभ-दर्शिनी शङ्खेन्दु-कुन्द-कुसुमैः कुमुदैर् इव चाचितम् ।
काचे तु निष्-प्रभेन्द्व्-अर्क-प्रदीपाद्यैर् इवाचितम् ॥१७॥

१२.१७ कुमुदैर् इव वाचितम् सिताभा सा च दृष्टिः स्याल् लिङ्ग-नाशे तु लक्ष्यते ।
मूर्तः कफो दृष्टि-गतः स्निग्धो दर्शन-नाशनः ॥१८॥

बिन्दुर् जलस्येव चलः पद्मिनी-पुट-संस्थितः ।
उष्णे संकोचम् आयाति च्छायायां परिसर्पति ॥१९॥

१२.१९ पद्मिनी-पुट-संश्रितः १२.१९ पद्मिनी-पत्त्र-संश्रितः शङ्ख-कुन्देन्दु-कुमुद-स्फटिकोपम-शुक्लिमा ।
रक्तेन तिमिरे रक्तं तमो-भूतं च पश्यति ॥२०॥

काचेन रक्ता कृष्णा वा दृष्टिस् तादृक् च पश्यति ।
लिङ्ग-नाशे ऽपि तादृग् दृङ् निष्-प्रभा हत-दर्शना ॥२१॥

संसर्ग-संनिपातेषु विद्यात् संकीर्ण-लक्षणान् ।
तिमिरादीन् अ-कस्माच तैः स्याव्यक्ताकुलेक्षणः ॥२२॥

१२.२२ तैः स्यावक्राकुलेक्षणः १२.२२ तैः स्याव्यक्ताकुलेक्षणम् तिमिरे शेषयोर् दृष्टौ चित्रो रागः प्रजायते ।
द्योत्यते नकुलस्येव यस्य दृङ् निचिता मलैः ॥२३॥

नकुलान्धः स तत्राह्नि चित्रं पश्यति नो निशि ।
अर्के ऽस्त-मस्तक-न्यस्त-गभस्तौ स्तम्भम् आगताः ॥२४॥

स्थगयन्ति दृशं दोषा दोषान्धः स गदो ऽपरः ।
दिवा-कर-कर-स्पृष्टा भ्रष्टा दृष्टि-पथान् मलाः ॥२५॥

विलीन-लीना यच्छन्ति व्यक्तम् अत्राह्नि दर्शनम् ।
उष्ण-तप्तस्य सहसा शीत-वारि-निमज्जनात् ॥२६॥

त्रि-दोष-रक्त-संपृक्तो यात्य् ऊष्मोर्ध्वं ततो ऽक्षिणि ।
दाहोषे मलिनं शुक्लम् अहन्य् आविल-दर्शनम् ॥२७॥

रात्राव् आन्ध्यं च जायेत विदग्धोष्णेन सा स्मृता ।
भृशम् अम्लाशनादोषैः सास्रैर् या दृष्टिर् आचिता ॥२८॥

स-क्लेद-कण्डू-कलुषा विदग्धाम्लेन सा स्मृता ।
शोक-ज्वर-शिरो-रोग-संतप्तस्यानिलादयः ॥२९॥

१२.२९ विदग्धाम्लेन सा मता धूमाविलां धूम-दृशं दृशं कुर्युः स धूमरः ।
सहसैवाल्प-सत्-त्वस्य पश्यतो रूपम् अद्भुतम् ॥३०॥

१२.३० धूमाविलां धूम-दृशां १२.३० दृशं कुर्युः स धूसरः १२.३० दृशं कुर्युः स धूमकः भास्वरं भास्-करादिं वा वाताद्या नयनाश्रिताः ।
कुर्वन्ति तेजः संशोष्य दृष्टिं मुषित-दर्शनाम् ॥३१॥

१२.३१ भासुरं भास्-करादिं वा वैडूर्य-वर्णां स्तिमितां प्रकृति-स्थाम् इवा-व्यथाम् ।
औपसर्गिक इत्य् एष लिङ्ग-नाशो ऽत्र वर्जयेत् ॥३२॥

विना कफाल् लिङ्ग-नाशान् गम्भीरां ह्रस्व-जाम् अपि ।
षट् काचा नकुलान्धश् च याप्याः शेषांस् तु साधयेत् ॥३३॥

१२.३३ षट् काचा नकुलान्ध्यश् च द्वा-दशेति गदा दृष्टौ निर्दिष्टाः सप्त-विंशतिः ॥३३ऊ̆अ॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP