उत्तरस्थान - अध्याय १

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


जात-मात्रं विशोध्योल्बाबालं सैन्धव-सर्पिषा ।
प्रसूति-क्लेशितं चानु बला-तैलेन सेचयेत् ॥१॥

अश्मनोर् वादनं चास्य कर्ण-मूले समाचरेत् ।
अथास्य दक्षिणे कर्णे मन्त्रम् उच्चारयेइमम् ॥२॥

अङ्गाअङ्गात् संभवसि हृदयाअभिजायसे ।
आत्मा वै पुत्र-नामासि संजीव शरदां शतम् ॥३॥

१.३ संजीव शरदः शतम् शतायुः शत-वर्षो ऽसि दीर्घम् आयुर् अवाप्नुहि ।
नक्षत्राणि दिशो रात्रिर् अहश् च त्वाभिरक्षतु ॥४॥

१.४ अहश् चत्वारि रक्षतु स्वस्थी-भूतस्य नाभिं च सूत्रेण चतुर्-अङ्गुलात् ।
बद्ध्वोर्ध्वं वर्धयित्वा च ग्रीवायाम् अवसञ्जयेत् ॥५॥

१.५ बद्ध्वोर्ध्वं वर्धयित्वा तु १.५ ग्रीवायाम् अवसज्जयेत् नाभिं च कुष्ठ-तैलेन सेचयेत् स्नापयेअनु ।
क्षीरि-वृक्ष-कषायेण सर्व-गन्धोदकेन वा ॥६॥

१.६ नाभिं तु कुष्ठ-तैलेन १.६ सेचयेत् स्नपयेअनु कोष्णेन तप्त-रजत-तपनीय-निमज्जनैः ।
ततो दक्षिण-तर्जन्या तालून्नम्यावगुण्ठयेत् ॥७॥

शिरसि स्नेह-पिचुना प्राश्यं चास्य प्रयोजयेत् ।
हरेणु-मात्रं मेधायुर्-बलार्थम् अभिमन्त्रितम् ॥८॥

१.८ प्राशं चास्य प्रयोजयेत् ऐन्द्री-ब्राह्मी-वचा-शङ्खपुष्पी-कल्कं घृतं मधु ।
चामीकर-वचा-ब्राह्मी-ताप्य-पथ्या रजी-कृताः ॥९॥

१.९ -कुष्ठ-पथ्या रजी-कृताः लिह्यान् मधु-घृतोपेता हेम-धात्री-रजो ऽथ-वा ।
गर्भाम्भः सैन्धव-वता सर्पिषा वामयेत् ततः ॥१०॥

१.१० गर्भाम्भः सैन्धव-वचा- १.१० -सर्पिषा वामयेत् ततः प्राजापत्येन विधिना जात-कर्माणि कारयेत् ।
सिराणां हृदय-स्थानां विवृत-त्वात् प्रसूतितः ॥११॥

तृतीये ऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते ।
प्रथमे दिवसे तस्मात् त्रि-कालं मधु-सर्पिषी ॥१२॥

अनन्ता-मिश्रिते मन्त्र-पाविते प्राशयेछिशुम् ।
द्वितीये लक्ष्मणा-सिद्धं तृतीये च घृतं ततः ॥१३॥

प्राङ्-निषिद्ध-स्तनस्यास्य तत्-पाणि-तल-संमितम् ।
स्तन्यानु-पानं द्वौ कालौ नव-नीतं प्रयोजयेत् ॥१४॥

मातुर् एव पिबेत् स्तन्यं तध्य् अलं देह-वृद्धये ।
स्तन्य-धात्र्याव् उभे कार्ये तद्-अ-संपदि वत्सले ॥१५॥

१.१५ तत् परं देह-वृद्धये अ-व्यङ्गे ब्रह्म-चारिण्यौ वर्ण-प्रकृतितः समे ।
नी-रुजे मध्य-वयसौ जीवद्-वत्से न लोलुपे ॥१६॥

हिताहार-विहारेण यत्नाउपचरेच ते ।
शुक्-क्रोध-लङ्घनायासाः स्तन्य-नाशस्य हेतवः ॥१७॥

स्तन्यस्य सीधु-वर्ज्यानि मद्यान्य् आनूप-जा रसाः ।
क्षीरं क्षीरिण्य ओषध्यः शोकादेश् च विपर्ययः ॥१८॥

१.१८ क्षीरं क्षीरिण्य् औषधयः विरुद्धाहार-भुक्तायाः क्षुधिताया वि-चेतसः ।
प्रदुष्ट-धातोर् गर्भिण्याः स्तन्यं रोग-करं शिशोः ॥१९॥

१.१९ विरुद्धाहार-चेष्टायाः स्तन्या-भावे पयश् छागं गव्यं वा तद्-गुणं पिबेत् ।
ह्रस्वेन पञ्च-मूलेन स्थिराभ्यां वा सिता-युतम् ॥२०॥

१.२० मूलैः सिद्धं बृहत्य्-आद्यैः षष्ठीं निशां विशेषेण कृत-रक्षा-बलि-क्रियाः ।
जागृयुर् बान्धवास् तस्य दधतः परमां मुदम् ॥२१॥

दशमे दिवसे पूर्णे विधिभिः स्व-कुलोचितैः ।
कारयेत् सूतिकोत्थानं नाम बालस्य चार्चितम् ॥२२॥

१.२२ विधि-वत् स्व-कुलोचितैः बिभ्रतो ऽङ्गैर् मनोह्वाल-रोचनागुरु-चन्दनम् ।
नक्षत्र-देवता-युक्तं बान्धवं वा समाक्षरम् ॥२३॥

ततः प्रकृति-भेदोक्त-रूपैर् आयुः-परीक्षणम् ।
प्राग्-उदक्-शिरसः कुर्याबालस्य ज्ञान-वान् भिषक् ॥२४॥

शुचि-धौतोपधानानि निर्-वलीनि मृदूनि च ।
शय्यास्तरण-वासांसि रक्षो-घ्नैर् धूपितानि च ॥२५॥

काको विशस्तः शस्तश् च धूपने त्रिवृतान्वितः ।
जीवत्-खड्गादि-शृङ्गोत्थान् सदा बालः शुभान् मणीन् ॥२६॥

१.२६ कङ्को विशस्तः शस्तश् च १.२६ जीवत्-खड्गादि-शृङ्ग-स्थान् धारयेऔषधीः श्रेष्ठाः ब्राह्म्य्-ऐन्द्री-जीवकादिकाः ।
हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात् सततं वचाम् ॥२७॥

१.२७ धारयेचौषधीः श्रेष्ठा १.२७ धारयेऔषधीश् चेष्टा आयुर्-मेधा-स्मृति-स्वास्थ्य-करीं रक्षो-ऽभिरक्षिणीम् ।
षट्-सप्ताष्टम-मासेषु नी-रुजस्य शुभे ऽहनि ॥२८॥

१.२८ षट्-सप्ताष्टसु मासेषु कर्णौ हिमागमे विध्येधात्र्य्-अङ्क-स्थस्य सान्त्वयन् ।
प्राग् दक्षिणं कुमारस्य भिषग् वामं तु योषितः ॥२९॥

दक्षिणेन दधत् सूचीं पालीम् अन्येन पाणिना ।
मध्यतः कर्ण-पीठस्य किञ्-चिगण्डाश्रयं प्रति ॥३०॥

जरायु-मात्र-प्रच्छन्ने रवि-रश्म्य्-अवभासिते ।
घृतस्य निश्-चलं सम्यग् अलक्तक-रसाङ्किते ॥३१॥

विध्येदैव-कृते च्छिद्रे सकृएवर्जु लाघवात् ।
नोर्ध्वं न पार्श्वतो नाधः सिरास् तत्र हि संश्रिताः ॥३२॥

कालिका-मर्मरी-रक्तास् तद्-व्यधाराग-रुग्-ज्वराः ।
स-शोफ-दाह-संरम्भ-मन्या-स्तम्भापतानकाः ॥३३॥

१.३३ तद्-बाधाराग-रुग्-ज्वराः तेषां यथामयं कुर्याविभज्याशु चिकित्सितम् ।
स्थाने व्यधान् न रुधिरं न रुग्-रागादि-संभवः ॥३४॥

१.३४ स्थान-व्यधान् न रुधिरं स्नेहाक्तं सूच्य्-अनुस्यूतं सूत्रं चानु निधापयेत् ।
आम-तैलेन सिञ्चेच बहलां तद्-वआरया ॥३५॥

विध्येत् पालीं हित-भुजः संचार्याथ स्थवीयसी ।
वर्तिस् त्र्य्-अहात् ततो रूढं वर्धयेत शनैः शनैः ॥३६॥

१.३६ संचार्यान्या स्थवीयसी १.३६ वर्तिस् त्र्य्-अहात् ततो रूढां अथैनं जात-दशनं क्रमेणापनयेत् स्तनात् ।
पूर्वोक्तं योजयेत् क्षीरम् अन्नं च लघु बृंहणम् ॥३७॥

१.३७ जात-दन्तं शिशुं शीते १.३७ क्रम-शो ऽपनयेत् स्तनात् प्रियाल-मज्ज-मधुक-मधु-लाज-सितोपलैः ।
अप-स्तनस्य संयोज्यः प्रीणनो मोदकः शिशोः ॥३८॥

दीपनो बाल-बिल्वैला-शर्करा-लाज-सक्तुभिः ।
संग्राही धातकी-पुष्प-शर्करा-लाज-तर्पणैः ॥३९॥

रोगांश् चास्य जयेत् सौम्यैर् भेषजैर् अ-विषादकैः ।
अन्य-त्रात्ययिकाव्याधेर् विरेकं सु-तरां त्यजेत् ॥४०॥

१.४० भेषजैर् अ-विषादिकैः १.४० भेषजैर् अ-विपादिकैः १.४० भेषजैर् अ-विपादकैः त्रासयेन् ना-विधेयं तं त्रस्तं गृह्णन्ति हि ग्रहाः ।
वस्त्र-वातात् पर-स्पर्शात् पालयेल् लङ्घनाच तम् ॥४१॥

१.४१ त्रासयेन् ना-विधेयं च १.४१ वस्त्र-पातात् खर-स्पर्शात् १.४१ वस्त्र-पातात् पर-स्पर्शात् १.४१ पालयेल् लङ्घिताच तम् ब्राह्मी-सिद्धार्थक-वचा-शारिवा-कुष्ठ-सैन्धवैः ।
स-कणैः साधितं पीतं वाङ्-मेधा-स्मृति-कृघृतम् ॥४२॥

आयुष्यं पाप्म-रक्षो-घ्नं भूतोन्माद-निबर्हणम् ।
वचेन्दुलेखा-मण्डूकी-शङ्खपुष्पी-शतावरीः ॥४३॥

१.४३ वचेन्दुलेखा मण्डूकी १.४३ शङ्खपुष्पी शतावरी ब्रह्मसोमामृता-ब्राह्मीः कल्की-कृत्य पलांशिकाः ।
अष्टाङ्गं विपचेत् सर्पिः प्रस्थं क्षीर-चतुर्-गुणम् ॥४४॥

१.४४ ब्रह्मसोमांर्ता ब्राह्मी १.४४ कल्की-कृत्य पलांशिकैः १.४४ प्रस्थं क्षीरं चतुर्-गुणम् तत् पीतं धन्यम् आयुष्यं वाङ्-मेधा-स्मृति-बुद्धि-कृत् ।
अजा-क्षीराभया-व्योष-पाठोग्रा-शिग्रु-सैन्धवैः ॥४५॥

१.४५ वाङ्-मेधा-स्मृति-कृत् परम् १.४५ वाङ्-मेधा-स्मृति-वह्नि-कृत् १.४५ -पाठोग्रा-शक्र-सैन्धवैः सिद्धं सारस्वतं सर्पिर् वाङ्-मेधा-स्मृति-वह्नि-कृत् ।
वचामृता-शठी-पथ्या-शङ्खिनी-वेल्ल-नागरैः ॥४६॥

१.४६ वाङ्-मेधा-स्मृति-बुद्धि-कृत् १.४६ वचामृता-वरी-पथ्या- अपामार्गेण च घृतं साधितं पूर्व-वगुणैः ।
हेम श्वेत-वचा कुष्ठम् अर्कपुष्पी स-काञ्चना ॥४७॥

१.४७ हेम श्वेत-वचा कुष्ठं १.४७ शङ्खपुष्पी स-काञ्चना १.४७ शङ्खपुष्पी स-रोचना हेम मत्स्याक्षकः शङ्खः कैडर्यः कनकं वचा ।
चत्वार एते पादोक्ताः प्राशा मधु-घृत-प्लुताः ॥४८॥

१.४८ हेम मत्स्याक्षकः फञ्जी १.४८ कैडर्यं कनकं वचा १.४८ प्राश्या मधु-घृत-प्लुताः वर्षं लीढा वपुर्-मेधा-बल-वर्ण-कराः शुभाः ।
वचा-यष्ट्य्-आह्व-सिन्धूत्थ-पथ्या-नागर-दीप्यकैः ॥४९॥

शुध्यते वाग् घविर्-लीढैः स-कुष्ठ-कण-जीरकैः ॥४९ऊ̆अ॥
१.४९ऊ̆अव् शुध्यते वाग् घृतालीढैः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP