सूत्रस्थान - अध्याय २४

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


नयने ताम्यति स्तब्धे शुष्के रूक्षे ऽभिघातिते ।
वात-पित्तातुरे जिह्मे शीर्ण-पक्ष्माविलेक्षणे ॥१॥

कृच्छ्रोन्मील-सिरा-हर्ष-सिरोत्पात-तमो-ऽर्जुनैः ।
स्यन्द-मन्थान्यतो-वात-वात-पर्याय-शुक्रकैः ॥२॥

आतुरे शान्त-रागाश्रु-शूल-संरम्भ-दूषिके ।
निवाते तर्पणं योज्यं शुद्धयोर् मूर्ध-काययोः ॥३॥

काले साधारणे प्रातः सायं वोत्तान-शायिनः ।
यव-माष-मयीं पालीं नेत्र-कोशाद् बहिः समाम् ॥४॥

२४.४ - सायं चोत्तान-शायिनः द्व्य्-अङ्गुलोच्चां दृढां कृत्वा यथा-स्वं सिद्धम् आवपेत् ।
सर्पिर् निमीलिते नेत्रे तप्ताम्बु-प्रविलायितम् ॥५॥

२४.५ - तप्ताम्बु-प्रविलापितम् नक्तान्ध्य-वात-तिमिर-कृच्छ्र-बोधादिके वसाम् ।
आ-पक्ष्माग्राद् अथोन्मेषं शनकैस् तस्य कुर्वतः ॥६॥

मात्रा विगणयेत् तत्र वर्त्म-संधि-सितासिते ।
दृष्टौ च क्रम-शो व्याधौ शतं त्रीणि च पञ्च च ॥७॥

२४.७ - मात्रां विगणयेत् तत्र शतानि सप्त चाष्टौ च दश मन्थे दशानिले ।
पित्ते षट् स्वस्थ-वृत्ते च बलासे पञ्च धारयेत् ॥८॥

२४.८ - दश मन्थे ऽनिले दश कृत्वापाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत् ।
पिबेच् च धूमं नेक्षेत व्योम रूपं च भास्वरम् ॥९॥

२४.९ - व्योम रूपं च भास्-करम् इत्थं प्रति-दिनं वायौ पित्ते त्व् एकान्तरं कफे ।
स्वस्थे तु द्व्य्-अन्तरं दद्याद् आ-तृप्तेर् इति योजयेत् ॥१०॥

प्रकाश-क्षम-ता स्वास्थ्यं विशदं लघु लोचनम् ।
तृप्ते विपर्ययो ऽ-तृप्ते ऽति-तृप्ते श्लेष्म-जा रुजः ॥११॥

२४.११ - तृप्ते ऽति श्लेष्म-जा रुजः स्नेह-पीता तनुर् इव क्लान्ता दृष्टिर् हि सीदति ।
तर्पणान्-अन्तरं तस्माद् दृग्-बलाधान-कारिणम् ॥१२॥

पुट-पाकं प्रयुञ्जीत पूर्वोक्तेष्व् एव यक्ष्मसु ।
स वाते स्नेहनः श्लेष्म-सहिते लेखनो हितः ॥१३॥

२४.१३ - पूर्वोक्तेष्व् एषु यक्ष्मसु २४.१३ - पूर्वोक्तेषु च यक्ष्मसु दृग्-दौर्बल्ये ऽनिले पित्ते रक्ते स्वस्थे प्रसादनः ।
भू-शय-प्रसहानूप-मेदो-मज्ज-वसामिषैः ॥१४॥

स्नेहनं पयसा पिष्टैर् जीवनीयैश् च कल्पयेत् ।
मृग-पक्षि-यकृन्-मांस-मुक्तायस्-ताम्र-सैन्धवैः ॥१५॥

स्रोतो-ज-शङ्ख-फेनालैर् लेखनं मस्तु-कल्कितैः ।
मृग-पक्षि-यकृन्-मज्ज-वसान्त्र-हृदयामिषैः ॥१६॥

मधुरैः स-घृतैः स्तन्य-क्षीर-पिष्टैः प्रसादनम् ।
बिल्व-मात्रं पृथक् पिण्डं मांस-भेषज-कल्कयोः ॥१७॥

उरुबूक-वटाम्भो-ज-पत्त्रैः स्नेहादिषु क्रमात् ।
वेष्टयित्वा मृदा लिप्तं धव-धन्वन-गो-मयैः ॥१८॥

२४.१८ - पत्त्रैः स्निग्धादिषु क्रमात् पचेत् प्रदीप्तैर् अग्न्य्-आभं पक्वं निष्पीड्य तद्-रसम् ।
नेत्रे तर्पण-वद् युञ्ज्यात् शतं द्वे त्रीणि धारयेत् ॥१९॥

लेखन-स्नेहनान्त्येषु कोष्णौ पूर्वौ हिमो ऽपरः ।
धूम-पो ऽन्ते तयोर् एव योगास् तत्र च तृप्ति-वत् ॥२०॥

तर्पणं पुट-पाकं च नस्यान्-अर्हे न योजयेत् ।
यावन्त्य् अहानि युञ्जीत द्विस् ततो हित-भाग् भवेत् ॥२१॥

मालती-मल्लिका-पुष्पैर् बद्धाक्षो निवसेन् निशाम् ॥२१ऊ̆अब् ॥
२४.२१ऊ̆ब्व् बद्धाक्षो निवसेन् निशि सर्वात्मना नेत्र-बलाय यत्नं कुर्वीत नस्याञ्जन-तर्पणाद्यैः ।
दृष्टिश् च नष्टा विविधं जगच् च तमो-मयं जायत एक-रूपम् ॥२२ऊ̆ ॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP