संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ६| सूक्तं ५९ मण्डल ६ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ मण्डल ६ - सूक्तं ५९ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ५९ Translation - भाषांतर प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः ।हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥१॥बळित्था महिमा वामिन्द्राग्नी पनिष्ठ आ ।समानो वां जनिता भ्रातरा युवं यमाविहेहमातरा ॥२॥ओकिवांसा सुते सचाँ अश्वा सप्ती इवादने ।इन्द्रा न्वग्नी अवसेह वज्रिणा वयं देवा हवामहे ॥३॥य इन्द्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा ।जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ॥४॥इन्द्राग्नी को अस्य वां देवौ मर्तश्चिकेतति ।विषूचो अश्वान्युयुजान ईयत एकः समान आ रथे ॥५॥इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः ।हित्वी शिरो जिह्वया वावदच्चरत्त्रिंशत्पदा न्यक्रमीत् ॥६॥इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः ।मा नो अस्मिन्महाधने परा वर्क्तं गविष्टिषु ॥७॥इन्द्राग्नी तपन्ति माघा अर्यो अरातयः ।अप द्वेषांस्या कृतं युयुतं सूर्यादधि ॥८॥इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा ।आ न इह प्र यच्छतं रयिं विश्वायुपोषसम् ॥९॥इन्द्राग्नी उक्थवाहसा स्तोमेभिर्हवनश्रुता ।विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये ॥१०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP